SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ कंटयाइउद्धरण १७१-अभिधानराजेन्द्रः भाग 3 कंटयाइउद्धरण चत्तारि छच लहुगुरु, छेदो मूलं तह दुगं च / / तस्यां कण्टकमुद्धरन केनचित् दृष्टस्तस्य शङ्का किमियं मैथुनार्थमिति लक्षणा यदि भवेत्तदा चतुर्लघु भोजिकायाः कथने चतुर्गुरु, धाटितवेदने षट्लघु ज्ञातिज्ञापने षट्गुरु ग्रामादहिः कथेन छेदः / मूलादित्र पुनरित्थं मन्तव्यम्। आरक्खियपुरिसाणउ, काहणे पावति भवे मूलं / अणवट्ठो सेट्ठीणं, दसमंव णिपस्स कथितम्मि। आरक्षिकपुरुषाणां कथने मूलं प्राप्रोति। श्रेष्ठिनः कथने अनवस्थाप्यं नृपस्य कथने दशमं पाराश्चिकम्एते संयतानां संयतीनां च परस्परं कण्टकोद्धरणे दोषा उक्ताः। एए चेव य दोसा, असंजतिकाहि पच्छकम्मं वा। गिहिएहिं पच्छकम्म, तम्हा समणेहिं कायव्वं / / एत एव दोषा असंयतिकाभिः कण्टकोद्धरणं कारयतो मन्तव्याः / पश्चात्क र्म वा कायेन हस्तप्रक्षालनरूपं तासु भवति / गृहिभिस्तु कारयतः पश्चात्कर्म भवतिन पूर्वोक्ता दोषा अतः श्रमणैः श्रमणानां कण्टकोद्धरणं कर्तव्यम् / अत्र परः प्राह एवं सुत्तं अफलं, सुत्तनिवातो अ असति समणाणं। गिहिअण्णतित्थिगिहिणी, परउत्थिगिणी तिविहभेदो॥ यदि संयतीभिर्न कारयितव्यं तत एवं सूत्रमफलं प्राप्रोति सूरिराह / सूत्रनिपातः श्रमणानामभावे मन्तव्यः / तत्रच प्रथमं गृहिभिः कण्टकोद्धरणं कारणीयं तदभावे अन्यतीर्थिकैस्तदप्राप्तौ गृहस्थाभिस्तदसंभवे परतीर्थिकीभिरपि कारयितव्यम् / एषु च प्रत्येकं त्रिविधो भेदस्तद्यथा। गृहस्थस्त्रिविधः पश्चात्कृतः श्रावको यथाभद्रकश्च / एवं परतीर्थिकोऽपि त्रिधा मन्तव्यः / गृहस्थपरतीर्थिकी च त्रिविधा स्थविरा मध्यमा तरुणी चेति / तत्र गृहस्थेन कारयन् प्रथमं पश्चात्कृतेन ततः श्रावकेण ततो यथाभद्रकेणापि कारयति / स च कण्टकाकर्षणानन्तरं प्रज्ञपनीयो मा हस्तप्रक्षालनं कार्षीः एवमुक्ते यद्यसौ अशौचवादी तदा हस्तं हस्तनैव प्रोञ्छति प्रस्फोटयति वा / अथ शौचवादी ततः। जइ सीसम्मिण पुञ्छति, तणुपोतेस वत्थडा वि पप्फोडे / तो से अण्णेसि असती, दवं दलति मा दगं घाते॥ यदि हस्तं शीर्षे वा तनौ वा पोतेषु वा वस्त्रेषु न प्रोञ्छति नवा प्रस्फोटयति गृहं गतोहस्तं प्रक्षालयिष्यामीति कृत्वा ततः (से) तस्य अन्येषामसत्यभावे प्राशुकमात्मीयं द्रवं हस्तधावनाय ददाति मा दकमप्कायं घातयेदिति / वा गृहस्थानामभावे परतीर्थिकेनापि कारयेदेवमेव पश्चात् कृतादिक्रमेण कारयेत् तेषामभावे गृहस्थाभिरपि कारयेत्। कथमित्याह माया भगिणी धूया, अञ्जिय णत्तीय सेसतिविधाओ। आगाढे कारणम्मि, कुसलेहिं दोहि कायव्वं / / यातस्य निर्गन्थस्य माता भगिनी दुहिता आर्यिका वा पितामही नतृका वा पौत्री तया कारयितव्यम् / एतासामभावे याःशेषाः अनालबद्धास्त्रियस्ताभिरपि कारयेत्। ताश्च त्रिविधाःस्थविरा मध्यमास्तरुण्यश्च / / तत्र प्रथम स्थविरया ततो मध्यमया ततस्तरुण्याऽपि कारयितव्यम्। आगाढे कारणे कुशलाभ्यां द्वाभ्यामपि कण्टकोद्धरणं कर्त्तव्यं कारयितव्यमित्यर्थः। के पुनस्ते द्वे इत्याह। गिहिअण्णतित्थिपुरिसा, इत्थी वि य गिहिणि अण्णतित्थी य। संबंधिएतरावा, वइणी एमेव दो एते॥ गृहस्थपुरुषोऽन्यतीर्थिकपुरुषश्चेतिद्वयं गृहस्थी अन्यतीर्थिकी चेति वा द्वयम् / संबन्धिनी इतरा वा असंबन्धिनी व्रतिनी एवं वा द्वयमेतेषां द्विकानामन्यतरेण कुलेनागाढे कारणे कारयितव्यम्। आह श्रमणानामभावे सूत्रनिपाते भवतीत्युक्तम्। कदापुनरसौ साधूनामभावो भवतीत्याह। तं पुण सुण्णारण्णे, वग्धादिभया अकुसलेहिं वा। कुसले वा दूरत्थे, ण वयइ पदं पि गंतुं जे / / साधवो न भवन्तीति। यदुक्तं तत्पुनरित्यं संभवति।शून्यारण्यं ग्रामादिभिर्विरहिता अटवी दुष्टारण्यं वा व्याघ्रसिंहादिभयाकुलं तयोः साधूनामभावो भवेत् उपलक्षणत्वादशिवादिभिः कारणैरेकाकी संजात इत्यपि गृह्यते। एषा साधूनामसदसत्ता सदसत्ता तु सन्ति साधवः परमकुशला कण्टकोद्धरणे अदक्षाः / अथवा यः कुशल : स दूरस्थो दूरे वर्तते स च कण्टकविद्धपादः पदमपि गन्तुं न शक्रोति ततः पूर्वोक्ता यतना कर्तव्या। अथ सामान्येन यतनामाह। परपक्खपुरिसगिहिणी, असोयकुसलाण मोत्तु पडिपक्खं / पुरिसजयं तमणुण्णे, होंति सपक्खेतरा वत्ते / / इह प्रथमं पश्चार्द्ध व्याख्याय ततः पूर्वार्द्ध व्याख्यास्यते। ये यतमानाः संविनाः सांभोगिकाः पुरुषास्तैःप्रथमं कारयेत्। तदभावे अमनोहरसाम्भोगिकैस्तदभावे ये इतरे पार्श्वस्थादयस्तैर्वा कारयेत् / एषा स्वपक्षे यतना भणिता। अथैष स्वपक्षो न प्राप्यते। ततः “परपक्खे" इत्यादि पूर्वार्द्धम्। परपक्षे गृहस्थान्यतीर्थिकरूपे प्रथमं पुरुषैस्ततो गेहिनीभिरपि कारयेत् / तत्राप्यशौचवादिभिः कुशलैश्च कारापणीयम् / अतएवाह। अशौचवादिकुशलानां प्रतिपक्षा ये शौचवादिनोऽकुशलाश्च तान् मुक्त्वा कारयतिव्यम्। अथैतेऽपि न प्राप्यन्ते तदा संयतीभिरपि कारयेत्। तत्रापि प्रथमं मातृभगिन्यादिभिर्नालबद्धाभिस्तदभावे असंबन्धिनीभिरपि स्थविरामध्यमातरुणीभिर्यथाक्रमं कारयेत्। कथं पुनस्तया कण्टक उद्धरणीय इत्याह। सलुद्धरणणखेण व, अच्छि व वत्थुतरं व इत्थीसु। भूमीकट्ठतलोरसु, काउण सुसंवुडा दो वि।। शल्योद्धरणेन नखेन वा पादं न संस्पृशन्ती कण्टकमुद्धरति। अथैवं न शक्यते वस्त्रान्तरितं पादं भूमौ कृत्वा यद्वा काष्ठेवा तले वा ऊौ वा कृत्वा उद्धरेत् द्रावपि च संयतीसंयतौ सुसं वृतायुपविशतः / एष स्त्रीषु कण्टकमुद्धरन्तीषु विधिरवगन्तव्यः। एमेव य अच्छिम्मि, चंपादिटुंतो णवरिणाणत्तं / निग्गंथीण तहेव य, णवरिं तु असंवुडा काई / / एवमेवादिसूत्रेऽपि सर्वमपि वक्तव्यम् नवरं नानात्वं चम्पादृष्टान्तोऽत्र भवति। यथा किल चम्पायां सुभ्रदया तस्य साधोश्चक्षुषि पतित तृणमपनीतं तथाऽन्यस्य साधोश्चक्षुषि प्रविष्टस्य तृणादेः कारणे निर्गन्थ्या अपनयनं संभवतीति दृष्टान्तभावार्थः / निर्गन्थीनामपि सूत्रत्रयं तथैव वक्तव्यं नवरं काचिदसंवृता भवति ततः प्रतिगमनादयो दोषा भवेयुः / द्वितीयपदे निर्ग्रन्थ्यस्तासां प्रागुक्तविधिना कण्टकादिकमुद्धरेत्।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy