SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ कंखामोहणिज्ज १६७-अभिधानराजेन्द्रः भाग 3 कंखामोहणिज्ज जं जिणेहिं पवेइयं सेसं तं चेव जाव पुरिसक्कारपरक्कमेइ वा। एवं जावचउरिदियाणं पंचिदियतिरिक्खजोणियाजाव वेमाणिया जहा ओहिया जीवा। "नेरइयाणमि" त्यादि इह च "जहा ओहिया जीवा" इत्यादिना। "हंता वेयंति कहणंभंते! नेरइयाणं काखमोहणिजं कम्मं वेयंति गोयमा ! तेहिं तेहि कारणेहिं" इत्यादि सूत्रम्। निर्जरासूत्रान्तं स्तनितकुमारप्रकरणान्तेषु प्रकरणेषु सूचितं तेषु च यत्र यत्र जीवपदं प्रागधीतं तत्र तत्र नारकादिपदमध्येयमिति। पञ्चेन्द्रियाणामेव शङ्कितत्वादयः काङ्खामोहनीयवेदनप्रकारा घटन्तेनैकेन्द्रियादीनामतस्तेषां विशेषेण तद्वेदनप्रकार. | दर्शनायाह। “पुढविकाइयाणमि" त्यादिव्यक्तन्नवरम् (एवं तक्काइवत्ति एवं वक्ष्यमाणोल्लेखेन तर्को विमर्शः स्त्रीलिङ्गनिर्देशश्च प्राकृतत्वात् (सण्णाइवत्ति) संज्ञार्थावग्रहरूपं ज्ञानम् (पण्णाइवत्तिं) प्रज्ञा अशेषविशेषविषयं ज्ञानमेव ( माणेइवत्ति) मनःस्मृत्यादिशेषमतिभेदरूपम् (वईइवत्ति) वाग्वचनम् (सेसंतं चेवत्ति) शेषं तदेव यदौधिकप्रकरणेऽधीतं तचेदं “हंता गोयमा? तमेव सचं नीसंकं जं जिणेहिं पवेइयं से गुण भंते! एवं मणं धारेमाणे" इत्यादि तावद्वाच्यं यावत् " से णूणं भंते ! अप्पणा चेव निजरेइ अप्पणा चेव गरिहइ" इत्यादेः सूत्रस्य (पुरिसकारपरक्कमेइवत्ति ) पदं ( एवं जाव चउरिदियत्ति ) पृथ्वीकायप्रकरणवदप्कायादिप्रकरणानि चतुरिन्द्रियप्रकरणान्तान्यध्येयानि तिर्यक्पञ्चेन्द्रियप्रकरणादीनितु वैमानिकप्रकरणान्तानि। औधिकजीवप्रकरणवतदभिलापेनाध्येयानीत्यत एवाह " पंचेदिएत्यादि " भवतु नाम शेषजीवानां कासामोहनीयवेदनं निर्ग्रन्थानां पुनस्तन्न सम्भवति, जिनागमावदातबुद्धित्वात्तेषामिति प्रश्नयन्नाह / अस्थिर्ण भंते ! समणा निग्गंथा कंखामोहणिशं कम्मं वेदंति ? हंता अत्थि। कहणं भंते ! समणा निग्गंथा कंखामोहणिलं कम्म वेदति ? गोयमा ! तेहिं तेहिं कारणेहिं नाणंतरेहिं दंसणंतरेहि चरित्तंतरेहिं लिंगंतरेहिं पवयणंतरेहिं पावयणंतरेहिं कप्पंतरेहिं .. मग्गंतरेहिं मयंतरेहिं मंगतरेहिं णयंतरेहिं णियमंतरेहिं पमाणंतरेहिं संकिया कंखिया वितिगिच्छिया भेदसमावण्णा कलुससमाववण्णा एवं खलु समणा निग्गंथा कंखामोहणिलं कम्मं वेदंति से णूणं भंते ! तमेव सञ्चं नीसंकं जंजिणेहिं पवेइयं हंता गोयमा ! तमेव सचं नीसंकं एवं जाव पुरिसक्कारपरक्कमेइ वा, सेवं भंते ! भंतेत्ति / पठमसए तइओ उद्देसओ सम्मत्तो। “अत्थिणमि" त्यादि काक्वाध्येयमस्ति विद्यतेऽयं पक्षो यदुत श्रमणा व्रतिनः अपिशब्दः श्रमणानां कासामोहनीयस्यावेदनसम्भावनार्थस्ते च शाक्यादयोऽपि भवन्तीत्याह। निन्थिाः सबाह्याभ्यन्तरग्रन्थान्निर्गताः साधव इत्यर्थः (नाणंतरेहिति) एकस्माज्ज्ञानादन्यानि ज्ञानानि ज्ञानान्तराणि तैनिविशेषैनिविशेषेषु वा शङ्किता इत्यादिभिः सम्बन्ध एवं सर्वत्र तेषु चैवं शङ्कादयः स्युर्यदिनाम परमाण्वादिसकलरूपिद्रव्यावसानविषयग्राहकत्वेन संख्यातीतरूपाण्यवधिज्ञानानि सन्ति तत्किमपरेण मनःपर्यायज्ञानेन तद्विषयभूतानां मनोद्रव्याणामवधिनैव दृष्टत्वादुच्यते चागमे मनःपर्यायज्ञानमिति, किमत्र तत्वमिति ज्ञानतः शङ्कामिह समाधिः / यद्यपि मनोविषयमप्यवधिज्ञानमस्ति, तथापिनमनःपर्यायज्ञानमवधावन्तर्भवति भिन्नस्वभावत्वात्तथा हि मनःपर्यायज्ञानं मनोमात्रद्रव्यग्राहकमेवादर्शनपूर्वकच अवधिज्ञानन्तु किञ्चिन्मनोद्रव्यव्यति-- रिक्तद्रव्यग्राहकं किञ्चिचोभयग्राहकं दर्शनपूर्वकञ्च न तु केवलमनोद्रव्यग्राहकमित्यादिबहुवक्तव्यमतोऽवधिज्ञानातिरिक्तम्भवति। मनःपर्यायज्ञानमिति तथा दर्शनं सामान्यबोधस्तत्र च यदि नामेन्द्रियानिन्द्रियनिमित्तः सामान्यार्थविषयो बोधोदर्शनं तदा किमेकश्चक्षुर्दर्शनमन्यस्त्वचक्षुर्दर्शनमथेन्द्रियानिन्द्रियभेदाढ़ेदस्तदा चक्षुष इव श्रोत्रादीनामपि दर्शन-- भावात् षडिन्द्रियनोइन्द्रियजानिदर्शनानि स्युन द्वे एवेति। अत्र समाधिः सामान्यविशेषात्मकत्वाद्वस्तुनः क्वचिद्विशेषतस्तन्निद्देशः क्वचिच सामान्यतस्तत्र चक्षुर्दर्शनमिति विशेषतोऽचक्षुर्दर्शनमिति च सामान्यतो यच प्रकारान्तरेणापि निर्देशस्य सम्भवे चक्षुर्दर्शनमचक्षुर्दर्शनञ्चेत्युक्तं तदिन्द्रियाणामप्राप्तकारित्वप्राप्तकारित्वविभागान्मनसस्त्वप्राप्तकारित्वेऽपि प्राप्तकारीन्द्रियवर्गस्य तदनुसरणीयस्य बहुत्वात्तदर्शनस्याचक्षुर्दर्शनशब्देन ग्रहणमिति। अथवा दर्शनं सम्यक्त्वंतत्र चशङ्का " मिच्छत्तं यमुदिन्नं, तंखीणं अणुदियं च उवसंतम्मि" इत्येवं लक्षणम्।क्षायोपशमिकमौपशमिकमप्येवं लक्षणमेव यदाह " खीणम्मि उइण्णम्मि, अणुदिजं ते य सेसमिच्छत्ते। अंतो मुहुत्तमेत्तं, उवसमसम्मलहइ जीवो"॥१॥ ततोऽनयोर्न विशेष उक्तश्वासाविति / समाधिश्च क्षयोपशमो युदीर्णस्य क्षयोऽनुदीर्णस्य च विपाकानुभावापेक्षया उपशमप्रदेशानुभवतस्तूदयोऽस्त्येव उपशमे तु प्रदेशानुभवोऽपि नास्तीति / उक्तञ्च " वेएइ संतकम्म,खओवसमिएसुनाणुभावं सो। उवसंतकसाओ पुण, वेदेइण संतकम्मं पि" || 1|| तथा चारित्रं चरणं तत्र च यदि सामायिक सर्वसावद्यविरतिलक्षणं छेदोपस्थापनीयमपि तल्लक्षणमेव महाव्रतानामवद्यविरतिरूपत्वात्तत्कोऽनयोर्भद उक्तश्वासाविति / अत्र समाधिः ऋजुजडवक्रजडानां प्रथमचरमजिनसाधूनामाश्वासनाय छेदोपस्थापनीयमुक्तं व्रतारोपणे हि मनाक् सामायिकाशुद्धावपि व्रताखण्डनात् चारित्रिणो वयञ्चारित्रस्य व्रतरूपत्वादिति बुद्धिः स्यात्सामायिकमात्रे तु तदशुद्धौ भग्नं नश्चारित्रं चारित्रस्य सामायिकमात्रत्वादित्येवमनाश्वासस्तेषां स्यादिति। आह च “रिउवक्कजडापुरिसे, य राणसामाइए वयारुहणं / मणयमसुद्धे यजओ, सामइए हुंति हुवयाई"||१॥ तथा लिङ्ग साधुवेषस्तत्र च यदि मध्यमजिनैर्यथा लब्धवस्वरूपं लिङ्गं साधूनामुपदिष्टं तदा किमितिप्रथमचरमजिनाभ्यां सप्रमाणधवलक्सनरूपंतदेवोक्तं सर्वज्ञानामविरोधिवचनत्वादिति ? अत्रापि ऋजुजडवक्रजडऋजुप्रज्ञशिष्यानाश्रित्य भगवतां तस्योपदेशस्तथैव तेषामुपकारसम्भवादिति समाधिः / तथा प्रवचनमत्रागमस्तत्र च यदि मध्यमजिनप्रवचनानि चतुर्यामधर्मप्रतिपादकानि कथं प्रथमेतरजिनप्रवचने पञ्चयामधर्मप्रतिपादके सर्वज्ञानामविरुद्धवचनत्वादत्रापि समाधिश्चातुर्यामोऽपि तत्वतः पञ्चयाम एवासौ चतुर्थव्रतस्य परिग्रहेऽन्तर्भूतत्वाद्योषा हि नाम परिगृहीता भुज्यत इति न्यायादिति। तथा प्रवचनमधीते वेत्ति वा प्रावचनः कालापेक्षया बह्वागमः पुरुषस्तत्र एकः प्रावचनिक एवं कुरुते, अन्यस्त्वेवमिति किमित्यत्र तत्वमिति ? समाधिश्चेह, चारित्रमोहनीयक्षयोपशमविशेषेण उत्सर्गापवादादिभावितत्वेन च प्रावचनिकानां विचि--
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy