________________ कंखमोहणिज्ज 165 - अभिधानराजेन्द्रः भाग 3 कंखामोहणिज्ज यनं कर्म पुगलोपादानमात्रमुपचयन्तु चितस्यावाधाकालं मुक्त्वा वा वेदनार्थ निषेकः स चैवं प्रथमस्थितौ बहुतरं कर्मदलिकं निषिञ्चति। ततो द्वितीयायां विशेषहीनमेवं यावदुत्कृष्टायां विशेषहीनं निषिञ्चति / उक्तं च "मोत्तूणसगमवाह, पढमाइठिईइबहुतरं दव्वं / सेसं विसेसहीणं, जावुक्कोसं तिसव्वासिं"।।१॥ उदीरणमनुदितस्य करणविशेषादुदयप्रवेशनं वेदनमनुभवनं निर्जरणंजीवप्रदेशेभ्यः कर्मप्रदेशानांशातनमिति। इह च सूत्रसग्रहगाथा भवति सा च “कडेचिएत्यादि, भावितार्था च नवरं ( आइतिएत्ति) कृतचितोपचितलक्षणे (चउभेयत्ति) सामान्यक्रियाकालत्रयक्रियाभेदात् (तियभेयत्ति) सामान्यक्रियाविरहात् (पच्छिमत्ति ) उदीरितवेदितनिर्जीपर्णा मोहपुद्गला इति शेषः ( तिण्णित्ति) त्रयस्त्रिविधा इत्यर्थः नन्वाद्ये सूत्रत्रये कृतचितोपचितान्युक्तान्युत्तरेषु कस्मान्नोदीरितवेदितनिर्जीनीति उच्यते / कृतं चितमुपचितं कर्म चिरमप्यवतिष्ठत इति करणादीनां त्रिकालक्रियामात्रतिरिक्तञ्चिरावस्थानलक्षणं कृतत्वाद्याश्रित्य कृतादीन्युक्तान्युदीरणादीनां तु न चिरावस्थानमस्तीति त्रिकालवर्तिना क्रियामात्रेणैव तान्यभिहितानीति जीवाः काङ्कामोहनीयं कर्म वेदायन्तीत्युक्तम्। अथ तद्वेदनकारणप्रतिपादनाय प्रस्तावयन्नाह / / वेदनं जीणा णं भंते ! कंखामोहणिज्जं कम्मं वेदेति ? हंता वेदेति / कह णं भंते ! जीवा कंखामोहणिज्जं कम्मं वेदेति ? गोयमा ! तेहिं तेहिं कारणेहिं संकिया कंखिया वितिगिंच्छिया भेदसमावण्णगा कलुससमावण्णगा एवं खलु जीवा कंखामोहमिलं कम्मं वेदेति। (जीवा णं भंते ! इत्यादि) व्यक्तन्नवरं ननु जीवाः कांक्षामोहनीयं कर्म | वेदयन्तीति प्राग्निपणीतिं किं पुनः प्रश्नः उच्यते वेदनोपायप्रतिपादनार्थम्। उक्तञ्च "पुव्वभणियं विपच्छा, जं भन्नइ तत्थ कारणं अत्थि। पडिसेहो य अणुण्णा, हेउविसेसोवलंभो त्ति" ||1 // ( तेहिं तेहिं ति) तैस्तैर्दर्शनान्तरश्रवणकुतीर्थिकसंसर्गादिभिर्विद्वत्प्रसिद्धैर्विचनं चेह वीप्सायां कारणैः शङ्कादिहेतुभिः किमित्याह। शङ्किता जिनोक्तपदार्थान् प्रति सर्वतो देशतो वा संजातसंशया कांक्षिता देशतः सर्वतोवा सजातान्यान्यदर्शनग्रहाः (वितिर्गिछियत्ति) विचिकित्सिताः सजातफ-- लविषयशङ्काः / भेदसमापन्ना इति किमिदं जिनशासनमाहोश्विदिदमित्येवं जिनशासनस्वरूपं प्रतिमतेद्वैधीभावं गता अनध्यवसायरूपं वा मतिभङ्गङ्गताः। अथवा यतएव शङ्कितादिविशेषणा अत एव मतेद्वैधीभावङ्गताः कलुषसमापन्ना नैतदेवमित्येवं मतिविपर्यासंगताः। एवमिति उक्तेन | प्रकारेण ( खलुत्ति) वाक्यालतारेनिश्चये अवधारणेवा एतच जीवानां कांक्षामोहनीयवेदनमित्थमेवावसेयं जिनप्रवेदितत्वात्तस्य च सत्यत्वादिति / भ०१श०३ उ०। (तदेव सत्यमिति सूत्रं सचशब्दे अस्थित्त शब्दे च उक्तम् ) तद्वन्धो यथा। जीणा णं मंते ! कंखामोहणिलं कम्मं बंधंति हंता गोयमा! | चंति कहणं भंते ! जीवा कंखामोहणिशं कम्मं बंधंति हंता गोयमा ! पमादपचयं जोगनिमित्तं च से णं भंते ! पमादे किं पवहे ? गोयमा! जोगप्पवहे से णं भंते ! जाए किंपवहे गोयमा ! वीरियप्पवहे। सेणं भंते ! वीरिए किं पवहे गोयमा! सरीरप्पवहे। | से णं भंते ! सरीरे किं पवहे ? गोयमा ! जीवप्पवहे एवं सइ अस्थि उहाणे इ वा कम्मेइ वा वलेइ वीरिएइ वा पुरिसक्कारपरकमेइ वा। “जीवा णं भंते ! कंखेत्या" दि (पमायपञ्चयत्ति ) प्रमादप्रत्ययान्प्रमत्ततालक्षणाद्धेतोः प्रमादश्च मद्यादिः। अथवा प्रमादग्रहणेन मिथ्यात्वाविरतिकषायलक्षणबन्धुहेतुत्रयं गृहीतम्। इष्येतच प्रमादेऽन्तर्भावोऽस्य यदाह “पमाओय मुणिं देहि, भणिओ अट्ठभेयओ। अन्नाणं संसओ चेव, मिच्छाणाणं तहेव य // 1 // रागो देसो मइभंसो, धम्मम्मि य अणायरो। जोगाणं दुप्पणीहाणं, अट्ठहा वज्जियव्वओत्ति" तथा योगनिमितञ्च योगा मनःप्रभृतिव्यापारस्ते निमित्तं हेतुर्यत्र तत्तथा बन्धन्तीति क्रियाविशेषणं चैदमेतेनचयोगाख्यश्चतुर्थः कर्मबन्धहेतुरुतः चःसमुधये / अथ प्रमादादेरेव हेतुफलभावदर्शनायाह " सेणमि" त्यादि (पमाए किं पवहेत्ति ) प्रमादोऽसौ कस्मात्प्रवहति प्रवर्तत इति / किं प्रवहः पाठान्तरेण किंप्रभवः (जोगप्पवहेत्ति) योगो मनःप्रभृतिव्यापारस्तत् प्रवह-- त्वच प्रमादस्य मद्याद्यासेवनस्य मिथ्यात्वादित्रयस्य च मनःप्रभृतिव्यापारसद्भावे भावात् (वीरियप्पवहेत्ति) वीर्यन्नाम वीर्यान्तरायकर्मक्षयक्षयोपशमसमुत्थो जीवपरिणामविशेषः / ( सरीरप्पवहेत्ति ) वीर्य द्विधा सकरणमकरणञ्च। तत्रालेश्यस्य केवलिनः कृत्सयो यदृश्ययोः केवलं ज्ञानं दर्शनं चोपयुञ्चानस्य योऽसावपरिस्यन्दोऽप्रतिघो जीवपरिणामविशेषस्तकरणं तदिह नाधिक्रियते यस्तु मनोवाकायकरणसाधनः सलेश्यजीवकर्तृको जीवप्रदेशपरिस्यन्दात्मको व्यापारोऽसौ सकरणं वीर्य तच शरीरप्रवहं शरीरं विना तदभावादिति (जीवप्पवहित्ति) इह यद्यपि शरीरस्य कर्मापि कारणं न केवल एव जीवस्तथापि कर्मणो जीवकृतत्वेन जीवप्राधान्याज्जीवप्रवहं शरीरमित्युक्तम् अथ प्रसङ्गतो गोशालकमतं निषेधयन्नाह (एवं सइत्ति ) एवमुक्तन्यायेन जीवस्य कासामोहनीयकर्मबन्धकत्वे सति अस्ति विद्यते न तु नास्ति यथा गोशालकमते नास्ति जीवानामुत्थानादि पुरुषार्थासाधकत्वान्नियतित एव पुरुषार्थसिद्धेः। यदाह " प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयने, नाभाव्यं भवति न भाविनोऽस्ति नाशः" इति॥१॥ एवं हि अप्रमाणिकाया नियतेरभ्युपगमः कृतो भवति। अध्यक्षसिद्धपुरूषकारापलापश्च स्यादिति। ( उट्ठाणे इवत्ति) उत्थानमिति वेति वाच्ये प्राकृतत्वात्सन्धिलोपाभ्यामेवन्निद्देशस्तत्र उत्थानमूर्धीभवनं इतिः रूपप्रदर्शने वाशब्दो विकल्पे समुच्चये वा। (करमे इवत्ति) कर्मे उत्क्षेपणापक्षणादि (बले इवत्ति) बलं शारीरः प्राणः। (वीरिए इवत्ति) वीर्य जीवोत्साहः (पुरिसक्कारपरक्कमे इवत्ति) पुरुषकारश्च पौरुषाभिमानः पराक्रमश्च स एव साधिताभिमतप्रयोजनः पुरूषकारपराक्रमः / अथवा पुरुषकारः पुरुषक्रिया सा च प्रायः स्त्रीक्रियाऽतः प्रकर्षवती भवति / तत्स्वभावत्वादिति विशेषेण तद्ग्रहणं पराक्रमस्तु शत्रुनिराकरणमिति / काङ्ग्रामोहनीयस्य वेदनं बन्धश्च स हेतुक उक्तः। अथ तस्यैवोदीरणामन्यच तद्गतमेव दर्शयन्नाह। से गूणं भंते ! अप्पणा चेव उदीरेइ अप्पणा चेव गरहइ अप्पणा चेव संवरइ ? हंता गोयमा ! अप्पणा चे व