________________ कंखण 165 - अभिधानराजेन्द्रः भाग 3 कंखामोहणि कंखण-न० (काङ्क्षण) अन्यान्यदर्शनग्रहे, ध०२अधि०। कं (खप्प ) खाप ओस-पुं० (काङ्क्षाप्रदोष ) क-स-कासा-मिथ्यात्वमोहनीयोदयसमुत्थोऽन्यान्यदर्शनग्रहरूपोजीवपरिणामः स एव प्रकृष्टो दोषो जीवदूषणं काङ्क्षा प्रदोषस्त विषयं उद्देशः / जीवेन भदन्त ! काङ्क्षामोहनीयं कर्म कृतमित्याद्यर्थनिर्णयार्थे भगवत्याः प्रथमशतस्य तृतीये उद्देशे, भ०१श०१ उ०। कांक्षा दर्शनानन्तरं गृहो गृद्धिर्वा सैव प्रकृष्टो दोषः कांक्षाप्रदोषः कांक्षाप्रद्वेष वा रागद्वेषयोर्भवति (एतत्क्षय एवान्तकरो भवतीति अंतकिरियाशब्दे) कंखा-स्त्री० (काङ्क्षा) काक्षि-भावे अ+1 अप्राप्तविविधार्थप्रार्थनायाम, ध०३ अधि०। कांक्षा गृद्धिराशक्तिरित्येकार्थाः। तं० / भोगेच्छायाम, सूत्र० 1 श्रु० 15 अ० / स्त्र्याधभिलाषे, उत्त० 16 अ० / अभिलाषातिरेके, उपा०२ अ० क्षमा हिंसादिगुणलेशदर्शनाद् (ध० 2 अधि० ) मिथ्यात्वमोहनीयादेयसमुत्थेऽन्यान्यदर्शनग्रहरूपे जीवपरिणामे, भ०१श०१ उ०। आतु०। ज्ञा०। श्रा०। प्रव०। सूत्र०। संथा०। उपा० / पञ्चसु दर्शनातिचारेषु द्वितीय एषः। जीत० / तद्भेदाः कांक्षणं कांक्षासुगतादिप्रणीतदर्शनेषु ग्राहोऽभिलाष इत्यर्थः तथा चोक्तं " कंखाअन्नान्नदसणग्गहो" सा पुनर्दिभेदा देशकांक्षा सर्वकांक्षा च / देश कांक्षकदेशविषया एकमेव सौगतं दर्शनं कांक्षति चित्तजयोऽत्र प्रतिपादितोऽयमेव च प्रधानो मुक्तिहेतुरित्यतो घटमानकमिदं न दूरापेतमिति / सर्वकांक्षा सर्वदर्शनान्येव कांक्षति अहिंसादिप्रतिपादनपराणि सर्वाण्येव कपिलकणभक्षाक्षपादादिमतानीह लोके च नात्यन्तक्लेशप्रतिपादनपराण्यतः शोभनान्येवेति / अथवैहिकामुष्मिकफ्लानि कांक्षति प्रतिषिद्धाचेयमर्हद्भिरतः प्रतिषिद्धानुष्ठानादेवैनां कुर्वतः सम्यक्त्वातिचारो भवति / तस्मादैकान्तिकात्यन्तिकाव्यावाधमपवर्ग विहायान्यत्राकांक्षा न कार्येति / आव० 6 अ०। काङ्क्षायामुदाहरणम् / राजाऽमात्यौ हयाकृष्टौ, कौचिदप्यटवीं गतौ। जक्षतुः क्षुधितौ तत्र, वनस्पतिफ्लानि तौ॥१॥ मिलितेषु स्वसैन्येषु, ततः स्वस्थानमीयतुः। राज्ञोचे सूपकृत्सर्व-धान्यानि पच मत्कृते॥२॥ वलिमिर्दुर्वलापास्तिः, प्रेक्षणे स्थाधथा तथा। अशनेऽपीति मत्वा प्राक्, कदनं कांक्षयाऽहरत्॥३॥ ततः कदनशूलेना-त्याहारान्मृतवानिशि। कृत्वा मन्त्री पुनर्वान्तिं, विरेकादीनि पथ्यभुक् // 4 // निराकांक्षः सुखी जातो, भोगानां भाजनं चिरम्। आ० क०। आ० चू०। प्रव०।मोहनीये कर्मणि, स०। परद्रव्यविषयाभिलाषरूपे चतुर्विशे गौणादत्तादाने, प्रश्न० अध० द्वा०३ अ०) कंखामोहणिज-न० ( कासामोहनीय ) मोहयतीति मोहनीयं कर्म तचारित्रमोहनीयमपि भवतीति विशिष्यते कांक्षाऽन्यान्यदर्शनग्रहः / उपलक्षणत्वाचाऽस्य शङ्कादिपरिग्रहः। ततः कांक्षाया मोहनीय कांक्षामोहनीयं मिथ्यात्वमोहनीये,। जीवाणं भंते ! कंखामोहणिजे कम्मे कड़े ? हंता कडे से भने ' किं देसेणं देसे कडे देसेणं सब्जे कडे सटवेणं ) देसे कडे सवेणं सवे कडे ? गोयमा ! णो देसेणं देसे का णो देसेणं सव्वे कडे णो सवेणं देसे कडे सवेणं सवे कडे "जीवाणमि" त्यादि व्यक्तन्नवरं जीवानां सम्बन्धि यत् ( कंखामोहणिज्जत्ति ) मोहयतीति मोहनीयं कर्म तच्चारित्रमोहनीयमपि भवतीति विशिष्यते कांक्षाऽन्यान्यदर्शनग्रहः उपलक्षणत्वाचास्य शङ्कादिपरिग्रहस्ततः कांक्षाया मोहनीयं कांक्षामोहनीयं मिथ्यात्वमोहनीयमित्यर्थः (कडेत्ति) कृतं क्रियानिष्पाद्यमिति प्रश्नः उत्तरन्तु (हता कडेत्ति ) अकृतस्य कर्मत्वानुपपत्तेः / इह च वस्तुनः करणे चतुर्भङ्गी दृष्टा यथा देशेन हस्तादिना वस्तुनो देशस्याच्छादनं करोति। अथवा हस्तादिदेशेनैव समस्तस्य वस्तुनः / अथवा सर्वात्मना वस्तदेशस्याथवा सर्वात्मना सर्वस्य वस्तुन इत्येवं कांक्षामोहनीयकरणं प्रति प्रश्नयन्नाह ( से भंते ! इत्यादि)(सेत्ति)तस्य कर्माणः भदंत ! किमिति प्रश्ने देशेन जीवस्यांशेन देशः काङ्खामोहनीयस्य कर्मणोंऽशः कृत इत्येको भङ्गः / अथ देशेन जीवांऽशेनैव सर्व काङ्खामोहनीयं कृतमिति द्वितीयः। उत सर्वेण सर्वात्मना देशः कासमोहस्य कृत इति तुसी यः / उताहो सर्वे ण सर्वात्मना सर्व कृतमिति चतुर्थः / अत्रोत्तरम् (सव्वेणं सव्वे कडेत्ति ) जीवस्वाभाव्यात्सवस्वप्रदेशावगाढतदेकसमयबन्धनीयकर्मपुद्गलबन्धने सर्वजीवप्रदेशानां व्यापार इत्यत उच्यतेसर्वात्मना सर्व तदेककालं करणीयं कासामोहनीय कर्म कृतं कर्मतया बद्धमत एव च भङ्गत्रयप्रतिषेध इति अत एवोक्तम्।" एगपएसो गाद, सव्वगएसेहिं कम्मुणो जोग्गं / बंधइ जहुत्तहेउं, तिए एएसोवगादति / / 1 // " जीवापेक्षया कर्मद्रव्यपेक्षया च य एके प्रदेशास्तेष्ववगाढं सर्वजीवप्रदेशव्यापारत्वाच तदेकसमयबन्धनाह सर्वमिति गम्यम् / अथवा सर्वं यत्किञ्चित्कामामोहनीयं तत्वसर्वात्मना कृतं न देशेनेति जीवानामिति सामान्योक्तौ विशेषो नाऽवगम्यत इति विशेषावगमाय नारकादिदण्डकेन प्रश्नयन्नाह // जेरझ्याणं भंते ! कंखामोहणिजे कम्मे कमे हंता कडे जाव सवेणं सवे कडे एवं जाव वेमाणियाण दंडओ भाणियव्वो। (नेरइयेणमित्यादि ) भावितार्थमेव क्रियानिष्पाद्यं कर्मोक्तं तत् क्रिया च त्रिकालविषयाऽतस्तां दर्शयन्नाह / / जीवाणं भंते ! कंखामोहणिज्ज कम्म करिंसु ? हंता करिसुत भंते ! किं देसेणं देसं करिंसु एएणं अभिलावेणं दंडओ जाव वेमाणियाणं एवं करंति एत्थ वि दंडओ जाव वेमाणियाणं एवं करिस्संति एत्थ वि दंडओ जाव वेमाणियाणं एवं चिए चिणिंसु चिणिं ति चिणिस्संति उवचिए उवचिणिंसु उवचिणंति उदचिणिस्संति उदीरेंस उदीरंति उदीरिस्संति वेसु वेदेति वेदिस्संति णिञ्जरसु णिज्जरेंति णिजरिस्संति / गाहा। कडे चिए य उवचिए, उदीरिया देदियाय णिझिण्णा / आदितिए चउभेया, तियभेया पच्छिमा तिण्णि। ___“जीवाणमि" त्यादि व्यक्तन्नवरम् (करिंसुत्ति ) अतीतकाले कृतवन्तः उत्तरन्तु हन्ताऽकार्षुस्तदकरणे अनादिसंसाराभावप्रसङ्गात् एवं (करंति) सम्प्रति कुर्वन्ति / एवं ( करिस्संति ) अनेन च भविष्यत्कालताकरणस्य दर्शितेति कृतस्य च कर्मणश्चयादयो भवन्तीति तान् दर्शयन्नाह (एवं चिए इत्यादि) व्यक्तन्नवरं चयः प्रदेशानुभागादेवर्द्धनमुपचयस्तदेव पौनःपुन्येन अन्ये त्वाः। च