________________ ओहि १५६-अभिधानराजेन्द्रः भाग 3 ओहिणाण इत्याह। "सम्मासुरत्ति"। ननूक्तः प्रतिपद्यमानकेषु विशेषः पूर्वप्रतिपन्नेषु का वार्त्तत्याह (तेचियपुव्वपवन्नेत्यादि) य एवमतिज्ञानस्य पूर्वप्रतिपन्ना उक्ताः। अवधिज्ञानस्यापित एव द्रष्टव्याः। किं सर्वथा नेत्याह। (वियलेत्यादि ) विकलेन्द्रियान संज्ञिपञ्चेन्द्रियतिरश्चश्व मुक्त्वेत्यर्थः / एते हि सास्वादनसम्यग्दृष्ट्यो मतिज्ञानस्य प्रतिपन्ना उक्ताः / अवधेस्तुन प्रतिपद्यमानका नापूर्वप्रतिपन्नाभवन्तीति भावः। इतिगाथाद्वयार्थः। अवसितं गत्यादिद्वारम् / विशे० (आमर्पोषध्यादिऋद्धिवर्णनम् इड्डि शब्दे) (17) अवधेः संक्षेपप्ररूपणा प्रस्तावना च / तदेवं प्रसङ्गायातौ शेषद्वौ प्रतिपाद्य अवधिज्ञानं च सप्रसङ्गं विस्तरतः प्ररूप्योपसंहरन्वक्ष्यमाणसंक्षेपप्ररूपणस्य प्रस्तावनां च कर्तुमाह। भणिओ वहिणो विसओ, तहा वि तस्सं गहं पुणो भणइ / संखेवराईण हियं, अव्वामोहत्थमिटुं च // भणितः प्ररूपितः “ओहीखेत्तपरिमाणे संठाणे" इत्यादीनां सर्वेणापि पूर्वोक्त्यन्थेनावधेः स्वरूपाद्यन्वितो विषयो द्रव्यक्षेत्रादिकस्तथापितत्संग्रहविषयसंक्षेपप्ररूपणं पुनरपि भणत्यत्रान्तरे देववाचको नन्धध्ययनसूत्रकारः / अनेनचेदं सूचितं नन्द्यध्ययनसूत्रकारेण प्रथमं विस्तरतोऽवधिज्ञानं प्राप्य पर्यन्ते पुनरपि संक्षेपतस्तद्यथा। विशे०। तं समासओ चउव्विहं पण्णत्तं / तं जहा / दव्वओ खेत्तओ कालओ भावओतत्थ दव्वओणं ओहीनाणीजहन्नेणं अणंताईरुविदव्याईजाणइ पासइ। उक्कोसेणं सव्वाइंरूविदव्वाईजाणइपासइ। खेत्तओणं ओहिनाणी जहन्नेणं अंगुलस्स असंखेजइभागंजाणइ पासइ। उक्कोसेणं असंखेज्जाई अलोगे लोगप्पमाणमित्ताइखंडाईजाणइ पासइ। कालओणं ओहीनाणी जहन्नेण आवलियाए असंखिज्जइभागं जाणइ पासइ / उक्कोसेणं असंखिज्जाओ उस्सप्पिणीओ ओसप्पिणीओ अईयमणागयं च कालं जाणइपासइ।भावओणं ओहीनाणी जहन्नेणं अणते भावे जाणइपासइ / उक्कोसेणं वि अणंते भावे जाणइ पासइ सव्व--भावाणमणंतभागंजाणइ पासइ / ओहीभवपचइओ, गुणपचइओ य वण्णिओ दुविहो। तस्स य बहुविगप्पा, दव्वे खेत्ते य काले य। 1 / नेरइयदेवतित्थंकराय ओहिस्स बाहिरा हुंति / पासंति सव्वओ खलु, सेसा देसेण पासंति / 2 / सेत्तं ओहिनाणं। अवघिक्षेत्रप्ररूपणेन गतार्थीकृतेति न पुनरुक्तिभयादुपन्यस्ता / ननु नन्दिसूत्रकारेणापि किमिति विषयः पुनरपि प्ररूपितः पुनःपुनरुक्तस्य प्रसङ्गादित्याशङ्कयाह (संखेवेत्यादि) यस्मादपि संक्षेपरचीनां हितमिदं संक्षेपभणनमतस्तेषां हितार्थं मन्दमतीनामव्यामोहार्थं चेष्टमेतदिति। तमेव विषयसंग्रहमाहदवाइं अंगुलावलि, संखेनाईयभागविसयाई। पेच्छइ चउगुणाई, जहन्नओ मुत्तिमंताई। उकोसमसंखाई, लोगत्थिंगुलसमानिबद्धाई। पइदव्वं संखाइय, पजायाईच सय्वाई। जघन्यतो मूर्तिमन्ति द्रव्याण्यवधिज्ञानी पश्यतीति संटङ्कः / कथंभू- | तानीत्याह ( अंगुलेत्यादि) अड्डलसंख्यातीतभागविषयाणि आवलिकासंख्यातीतभागविषयाणि चेत्यर्थः / विशे०॥ विवरीयवेसधारी, विजंजणसिद्धदेवया एव। छाइयसेवियसेवी, वीयादीओ वि पचक्खा। पुढवीइतरुगिरिया, सरीरादिगया य जे भवे दव्वा। परमाणुसुहदुक्खादयो य ओहिस्स पचक्खा। नेपथ्यपरावर्त्ततो गुटिकाप्रयोगतः स्वपरावर्ततो वर्णपरावर्ततो विपरीत वेषधारयन्तीति विपरीतवेषधारिणस्ते।तथाये विद्यासिद्धा अञ्जनसिद्धा देवतया वा आच्छादिता ये च तैः सेवितसेविनो ये च बीजादयः कुशलादिन्यस्ते सर्वेऽवधिज्ञानिनः। प्रत्यक्षाः। तथा यानि पृथिव्यां यानि च तरुषु यानि च गिरुषु गाथायामेकबचनं समाहारत्वात्। द्रव्याणि यानि च शरीरादिगतानि द्रव्याणि ये च परमाणवो ये सुखदुः-खादय इन्द्रियमनःशरीरस्वास्थ्यास्वास्थ्यरूपास्तेऽप्यवधेः प्रत्यक्षाः। अचंतमणुवलद्धा, वि ओहिनाणस्स होति पञ्चक्खा। ओहिन्नाणपरिगया, दव्वा असमत्तपज्जाया॥ अत्यन्तं चक्षुरादिना अनुपलब्धा अपि पदार्था अवधिज्ञानस्य भवन्ति प्रत्यक्षाः / अवधिज्ञानेन च द्रव्याणि परिगतानि परिणतानि भवन्त्यसमाप्तपर्यायाणि न समस्ताः पर्याया द्रव्याणां ज्ञातुं शक्यन्ते इति भावः / यदि हि समस्तान् पर्यायान् जानीयानूनं स केवलीमवेत्। बृ० 8 उ० / भावतस्तु प्रतिद्रव्यं चत्वारो गुणा धर्माः पर्याया येषां तानि चतुर्गुणानि पश्यति / इदमुक्तं भवति। जधन्यतोऽवधिज्ञानी द्रव्यतः क्षेत्रतश्चाङ्गुला-- संख्येयभागाक्षेत्राऽभ्यन्तरवर्तीनि मूर्तद्रव्याणि पश्यति। कालतस्त्वेतावव्याणामावलिकासंख्येयभागाऽभ्यन्तरवर्तिनोऽतीताननागतांश्च पर्यायान्पश्यति। भावतस्तु प्रतिद्रव्यं चतुरःपर्यायान्पश्यतीति। उत्कृष्टतस्तुद्रव्यतः क्षेत्रतश्चासंख्येयलोकाकाशखण्डावगाढानिसर्वाण्यपि मूर्तद्रव्याणि पश्यति। एतानिचैकस्मिन्नेव लोकाकाशे अवगाढानि प्राप्यन्ते। शेषलोकाऽवगाढानामुपदर्शनं शक्तिमात्राऽपेक्षयैवोच्यते। कालतस्त्वेषां द्रव्याणामसंख्यातोत्सर्पिण्यवसर्पिणीसमान्तर्गतानतीताऽनागतांश्च पर्यायान्पश्यति। भावतस्त्वेकैकं द्रव्यमाश्रित्याऽसंख्येयपर्यायाण्येतानि पश्यति। इह च दर्शनक्रियासामान्यमात्रमाश्रित्य पश्यतीत्युक्तं विशेषतस्तु जानाति पश्यतीति च सर्वत्र द्रष्टव्यम् / तदेवं जघन्यत उत्कृष्टतश्च प्राग्विस्तरतः प्रोक्तोऽवधिविषयः इदानीं तुस एव संक्षेपत उक्तस्तगणने चसप्रसङ्गमवधिज्ञानं समाप्तम्। विशे० आ०म०प्र०। कर्म०। प्रव०। सम्म० अवधिज्ञानवति जीवे अवध्यवधिमतोरभेदात्। प्रव० 15 द्वा०। ओहिजुय-त्रि० (अवधियुत ) अवधिलब्धियुक्ते, क० प्र०। ओहिणाण-न० (अवधिज्ञान) अवधिः (अनन्तरोदितस्वरुपः) स एव ज्ञानमवधिना वा मर्यादया मूर्तद्रव्याण्येव जानाति नेतराणीति व्य-- वस्थया ज्ञानमवधिज्ञानम् भ० 8 श०२ उ० / अवध्युपलक्षितं ज्ञानमप्यवधिः। प्रव०२१६ द्वा०। पं० सं०।अवधिश्चाऽसौ ज्ञानञ्च अवधिज्ञानम्। इन्द्रियमनोनिरपेक्षे आत्मनोरूपिद्रव्यसाक्षात्कारकारणे ज्ञानभेदे, स्था०२ठा०॥