________________ ओहि १५६-अभिधानराजेन्द्रः भाग 3 ओहि नेरझ्याणं मंते ! ओहि किं संठिए पण्णत्ते ? गोयमा! तप्पगारसंठिएपण्णत्ते। असुरकुमारणं पुच्छा। गोयमा ! पल्लगसंठिए। एवं जाव थणियकुमाराणं पंचिंदियतिरिक्खजोणियाणं पुच्छा। गोयमा! नाणासंठाणसंठिएपण्णते? एवं मणुस्साणं विवाणमंतराणं पुच्छा / गोयमा ! पडहसंठाणसंठिए पण्णत्ते ? जोइसियाणं पुच्छा / गोयमा !झल्लरिसंठाणसंठिए पण्णत्ते? सोहम्मगदेवाणं पुच्छा। गोयमा ! उद्धमुइंगारसंठिए पण्णत्ते ? एवं अचुयदेवाणं गेवेजयदेवाणं पुच्छा। गोयमा ! पुप्फ चंगेरिसंठिए पण्णत्ते ? अणुत्तरोववाइयाणं पुच्छा / गोयमा ! जवनालिया संठिए ओही पण्णत्ते। प्रज्ञा०३३ पद। तप्पागारे पल्लग-पडहगझालरीमुइंगपुष्पजवे।। तिरियमणुएसु ओही, नाणाविहसंठिओ भणिओ।। तप्र उडुपकस्तस्येवाकारो यस्यासौ तप्रकारोऽवधिारकाणां मन्तध्यः / तप्रश्च किलायतत्र्यन भवति। पल्लको धान्याधारभूतोऽत्रैव प्रतीतः स चोर्ध्वायतः / उपरि च किंचित्संक्षिप्तस्तदाकारोऽवधिर्भवनप-तीनां पटहक आतोद्यविशेषः प्रतीत एव स च नात्यायतोऽध उपरि च समः तदाकारोऽवधिय॑न्तराणां उभयतो विस्तीर्णचविनद्धमुखो मध्ये संकीर्णो ढकालक्षण आतोद्यविशेषो झल्लरी तदाकारोऽवधिोतिकाणां मृदङ्गोऽप्यातोद्यमेव स चोर्ध्वायतोऽधोविस्तीर्ण उपरिच तनुकस्तदाकारोऽवधिः सौधर्माद्यच्युतान्तकल्पनिवासिदेवानां पुष्पेति सूचनात् सूत्रमिति कृत्वा सप्तशिखापुष्पभृता चङ्गेरी पुष्पचङ्गेरी परिगृह्यते। तदाकारोऽवधिग्रैवेयकविमानवासिदेवानां (जवेत्ति ) यवो यवनालकः सच कन्याचोलकोऽवगन्तव्यः। अयं चमरुमण्डलादिप्रसिद्धश्चरणकरूपेण कन्यापरिधानेन सह सीवितो भवति / येन परिधानं न खिंसति कन्यानां मस्तककूपक्षेपेणायं प्रक्षिप्यते / अयं चोर्द्धः सरकञ्चुक इति व्यपदिश्यते / एतदाकारोऽवधिरनुत्तरसुराणां भवति / तिर्यग्मनुष्येषु पुनरवधिनानाविधसंस्थानो भवति। यथा हि स्वयंभूरमणमत्स्याः सर्वे -- रप्याकारैः समये भणितास्तथा तिर्यग्मनुष्येष्ववधिरपि किंच स्वयंभूरमणमत्स्यानां वलयाकारता निषिद्धा। तिर्यग्मनुष्याणां पुनरवधिस्तदा-- कारोऽपि भवतीति नियुक्तिगाथार्थः / / 750 // अथ भाष्यम्। नेरइयभवणवणयरजोइसकिप्पालयाण मोहिस्स। गेविजणुत्तराण य, होता गिइयो जहा संखं / / एतास्तप्रादिसमाना आकृतयो नारकाद्यवधेर्यथासंख्यं द्रष्टव्याः / तच्च यथासंख्यमेवेति / अथ तप्रादिस्वरूपं व्याचिख्यासुराहतप्पेण समागारो, तप्पागारो सचाययत्तंसी। उहाय उयप्पल्लो, उवरिं च सकिंचि संखित्तो।। नचायओ समो विय, पमहो हिट्ठो वरिपई एसो। चम्मावणद्धवच्छिण्णवलयरूवाय झालरिया। उद्घायओ मुइंगो, हेट्टारांदे तहोवरि तणुओ। पुप्फसिहावलिरइया, चंगेरी पुप्फयंगेरी॥ जवनालउत्तिभणिओ, उज्झोसरकंचुओ कुमारीए। अह सव्वकालनियओ, कादाइको विसेसाणं / / गतार्था एव / नवरं ( अह सव्वकालेत्यादि ) अथ नारकभवनपत्यादीनां तिर्यग्मनुष्याणां चावधिसंस्थाने विशेष उच्यते / कः पुनरसावित्याह। सर्वकालनियतोऽवधिसंस्थानमाश्रित्यामीषां नारकभवनपत्यादिदेवानां शेषाणां तिर्यग्मनुष्याणां कदाचित्कोऽपि भवति इदमुक्तं भवति / तप्राद्याकारसमानतया नारकभवनपत्यादीनामवधेः संस्थानमुक्तं तदङ्गीकृत्य तेषाभवतिः सर्वकालं नियतोऽवस्थित एव भवति / न त्वन्याकारतया परिणमति / तिर्यग्मनुष्याणां तु येनाकारेण प्रथममुत्पन्नोऽवधिः केषांचित्तेनैवाकारेण सर्वकालं भवति / केषांचित्वन्याकारेण परिणमतीति / अथ यदुक्तम् " तिरियमणुएसु ओहीत्यादि" तठ्याचिख्यासुराहनाणागारो तिरियमणुएसु मच्छासयंभूरमणे व्व। तत्थ वलयं निसिद्धं, तस्सिह पुणतं पिहोजाहि॥ तत्र स्वयंभूरमणे तस्य मत्स्याकारविषये वलयं निषिद्धम् / इह पुनस्तिर्यड मनुष्येषु तस्यावधिरित्येवमप्यावृत्या योज्यते। तदपि वलयमाकारमाश्रित्य भवेच्छेषं सुगममिति। तदेवं संस्थाने प्रोक्तेऽपि कयाऽपि दिशा बहुरवधिः कयाऽपि तु स्तोक इति न ज्ञायते। अत एतद्भवनपत्यादीनां दर्शयन्नाहभवणवइवंतराणं, उड्डिं बहुगो अ होय सेसाणं। नारगजोइसियाणं, तिरिय ओरालिओ चित्तो। नारकज्योतिष्काणामवधितिर्यग्बहुस्तिर्यग्मनुष्याणां तु संबन्धी अवधिरौदारिकावधिरुच्यते / अयं पुनश्चित्रो नानाप्रकारः केषांचिदूवं बहुरन्येषां त्वधो परेषां तिर्य केषांचित्स्वल्प इति भावः / शेषं सुगममिति गाथार्थः इत्यवसितं संस्थानद्वारम् / (14) अथ ज्ञानलक्षणं दर्शनविभङ्गलक्षणद्वारद्वयं युगपदभिधित्सुराहसागारमणागारा,ओहिविभंगाजहन्नया तुला। उवरिमगे विजेसु अ, परेण ओही असंखेजा।। इहावधिविचारे प्रस्तुते एतचिन्त्यते / यदुत किमिह ज्ञानं किं वा दर्शन को वा विभङ्गः किं वा परस्परतस्तुल्योऽधिकं चेति / तत्र यो वस्तुनो विशेषरूपग्राहकः स साकारः स च ज्ञानमिदं सम्यग्दृष्टर्मिथ्यादृष्टस्तु स एव विभङ्गज्ञानम् / यस्तु सामान्यरूपग्राहकोऽयमनाकाराग्रहणात्स च दर्शनम् / तदिह गाथायां साकारग्रहणेनावधिज्ञानं गृहीतमनाकारग्रहणेन तुअवधिदर्शनं विभनग्रहणेनतु विभङ्गज्ञानम्। अतएव दर्शनज्ञानविभङ्गलक्षणं द्वारत्रयमिदं भवति। तत्र चावधिज्ञानदर्शने तथा विभङ्गज्ञानं तस्य च संबन्धे यत्केषांचिन्मतेनावधिदर्शनं ते च पृथकस्वस्थाने परस्परापेक्षयाऽपरस्थाने चावधिविभङ्गयोनिदर्शने भवनपतिदेवेभ्य आरभ्य यावदुपरितनप्रैवेयकविमानानि तावज्जघन्याभ्यामारभ्य यायदुपरिग्रैवेयकविमानोचितावधिकं विभङ्गोत्कृष्टता प्राप्तिस्तावत्क्षेत्रादिलक्षणं विषयमाश्रित्य तुल्ये भवतः / इदमुक्तं भवति भवनपतिदेवेभ्य आरभ्य यावदुपरितनगवेयकविमानवासिनो देवास्तावद्ये जधन्यतुल्यस्थितयो देवास्तत्संबन्धिनी जघन्ये अवधिविभङ्गज्ञानदर्शने क्षेत्रादिविषयरूपं विषयमाश्रित्य परस्परतस्तुल्ये भवतः / मध्यमतुल्यस्थितीनां च मध्यमे ते तथैव तुल्ये भवतः। उत्कृष्टतुल्यस्थितीनां तु उत्कृष्टे ते तथैव तुल्ये भवतः / परेण ( ओहिअसंखेजेत्ति ) पैवेयकवि