________________ ओहि 155 - अमिधानराजेन्द्रः भाग 3 ओहि कल्पदेवाऽधिपौ। अत्रापि च तदुपलक्षितास्तत्कल्पनिवासिनः सामानिकादयो देवाः परिगृह्यन्ते / ते हि द्वितीयां पृथिवीमवधिना पश्यन्ति। तथा तृतीयां च पृथिवीं ब्रह्मलोकलान्तकदेवेन्द्रोपलक्षितास्तत्कल्पनिवासिनो देवाः सामानिकादयः पश्यन्ति।तथा शुक्रसहस्रारसुरेन्द्रोपलक्षितास्तत्कल्पवासिनोऽन्येऽपि सामानिकादयो देवाश्चतुर्थी पृथिवीं पश्यन्ति / तथा आनतप्राणतयोः संबन्धिनो देवाः पश्यन्ति। पञ्चमी पृथिवीं तामेवारणाच्युतदेवलोकयोः संबन्धिनो देवा विशुद्धतरां बहुपर्यायां चावधिज्ञानेन पश्यन्तिास्वरूपकथनमेवेदंनतुव्यवच्छेदकमत्रअवधिज्ञानस्यैवेह विचारयितुं प्रस्तुतत्वाद्ध्यवच्छेद्याभावादिति। लोकपुरुषग्रीवास्थाने भवानि विमानानि गैवेयकाणि तत्राधस्त्यमध्यमग्रैवेयका विमानवासिनो देवा अधस्त्यमध्यप्रैवेयका उच्यन्ते। तेतमःप्रभामिधानां पृथिवीं पश्यन्ति तथा सप्तमीच पृथिवीमुपरितनगवेयका देवाः पश्यन्ति। ततः संभिन्नां चतसृष्वपि दिक्षु स्वज्ञानेन व्याप्तां कन्याचोलकसंस्थानां लोकनाडीमवधिना पश्यन्ति / अनुत्तरविमानवासिनो देवाः एष क्षेत्रतो नारकाणां देवानां च भवप्रत्ययावधेर्विषय उक्तः। एतदनुसारतो द्रव्याद-- योऽप्यवसेया इति। तदेवमधो वैमानिकावधिक्षेत्रप्रमाणं प्रतिपाद्य तिर्यगूवंचतत्प्रतिपादयन्नाहएएसिमसंखेजा, तिरियं दीवाय सागराचेव। बहुबहुयरमुवरिमग्गा, उड्डं च सकप्पथूभाई।। एतेषां शक्रादीनामसंख्येयाः तिर्यग्द्वीपाश्च जम्बूद्वीपादयः समुद्राश्च लवणसागरादयः क्षेत्रतोऽवधिपरिच्छेद्यतयाऽवसेया इति वाक्यशेषः / तदेवं द्वीपसमुद्रासंख्येयकं बहु बहुतरकं पश्यति। उपरिमाएवोपरिमकाः उपर्युपरिवर्तिदेवलोकनिवासिनो देवा इत्यर्थः। तथा ऊर्ध्वं स्वकल्पस्तूभादेव यावत् क्षेत्रतेपश्यन्ति न परतः आदिशब्दात्ध्वजादिपरिग्रह इति तदेवं वैमानिकानामवधिक्षेत्रमानमभिधायेदानी सामान्यतस्त-द्वयं देवानां प्रतिपादयन्नाहसंखेडाजोयणा खलु, देवाणं अद्धसागरे ऊगे। तेण परमसंखिज्जा, जहण्णयं पण्णवीसं तु / / देवानामर्धसागरोपमे न्यूने आयुषि सति संख्येयानि योजनानि अवधिपरिच्छेद्यक्षेत्रमवसेयं ततः परं संपूर्णार्धसागरोपमादिके आयुषि सति पुनरसंख्येयानि योजनान्यवधिक्षेत्रमवगन्तव्यम् / उक्तमुत्कृष्टमवधिक्षेत्रमथ जघन्यमाह (जहण्णमित्यादि) दशवर्षसहस्रस्थितीनां भवनपतिव्यन्तराणां जघन्यमवधिक्षेत्रं पञ्चविंशतियोजनं ज्योतिष्कवै-- मानिकानां तु जघन्य भाष्यकार एव वक्ष्यतीति नियुक्तिगाथापञ्चकार्थः। __ अथाऽनन्तरगाथाभाष्यम्। वेमाणियवजाणं, सामन्नमिणं तहा विउ विसेसो। अलमहे तिरियम्मिय, सट्ठाणवसेण विण्णेओ।। इदं च " संख्येज्जयोजणाखल्वित्यादि" कमवधिक्षेत्रप्रमाणं वैमानिकवानां भवनपत्यादिदेवानां सामान्यमविशेषेण द्रष्टव्यम् तथापि तथापि तूर्ध्वमवधिःतिर्यक्त्वं तेषां देवानां कयाचिदिशा हीनाधिकावधिक्षेत्रलक्षणो यो विशेषः स इहैव / “तप्पागारे पल्लगपङ हगेत्यादि" वक्ष्यमाणावधिक्षेत्रसंस्थानवशेन विज्ञेय इति। अत्र यदुक्तम् “जहण्णयं पण्णवीसंतु" तद्विवृण्वन्नुक्तम्। अधुना ज्योतिष्कवैमानिकानां जधन्यमवधिक्षेत्रमभिधित्सुराह पणवीसजोयणाई, दसवरिससहस्सिया ठिई जेसिं। दुविहो वि जोइसाणं, संखेजो ठिइविसेसेणं / / वेमाणियाणमंगुलभागमसंखं जहण्णओ होइ। उववाए परभविओ, तब्मवजो होइ तो पच्छा। पञ्चविंशतियोजनानि यजघन्यमवधिक्षेत्रमुक्तं तद्येषां देवानां दशवर्षसहस्रप्रमाणा स्थितिः तेषामेव विज्ञेयम्। ते च भवनपतिव्यन्तरविशेषा एव ज्योतिष्काणांपुनर्जघन्य उत्कृष्टश्च द्विविधोऽप्यवधिः। स्थितिविशेषेण क्षेत्रतः संख्येयान्येव योजनानि विज्ञेयानि इदमुक्तं भवति।ज्योतिष्काणां जघन्यतोऽपि पल्योपमाष्टभागस्थितिर्न तु दशवर्षसहस्राणि / उत्कृष्टतस्तु वर्षलक्षाधिकं पल्योपममतो बह्वायुष्कत्वेन महर्द्धिकत्वादुत्कृष्ट तजघन्योऽप्यवधिस्तेषां संख्येयान्येव योजनानि भविष्यन्ति / केवलं जघन्यक्षेत्रादुत्कृष्ट वृहत्प्रमाणं द्रष्टव्यम्। “संखेज्जजोयणा खलु देवानामित्यादि"नैवामीषामुत्कृष्टमवधिक्षेत्रमुक्तं केवलं जघन्यभणनप्रस्तावात् पुनरपि तदुक्तमित्यदोषः ! वैमानिकानां तु जघन्योऽवधिः क्षेत्रतोऽडलासंख्येयमानो भवति / अयं चोत्पादसमय एव पारभाविको विज्ञेयः। ततः पश्चात्तावद्भाविक इतिगाथात्रयार्थः। 701 / अथायमेवावधिर्येषामुत्कृष्टादिभेदभिन्नो भवति। तानुपदर्शयन्नाहउक्कोसो मणुएसुं, मणुस्सतेरिच्छिएसु य जहण्णो। उक्कोसलोगमित्तो,पडिवाइपरं अपडिवाइ॥ इह द्रव्यतः क्षेत्रतः कालतो भावतश्चोत्कृष्टोऽवधिर्मनुष्येष्वेव न देवादिषु / तथा मनुष्यास्तिर्यञ्चश्व तेष्वेव जघन्यो न तु सुरनारकेषु तत्र चोत्कृष्टोऽवधिर्दिविधो लोगगतोऽलोगगतश्च तत्र योऽसौ समस्तलोकमात्रदर्शी उत्कृष्टः मात्रशब्दोऽलोकव्यवच्छेदार्थः स प्रतिपतनशीलः प्रतिपाती अप्रतिपाती च भवति / ततः परं येनालोकस्यैकोऽप्याकाशप्रदेशो दृष्टः / सोऽप्रतिपात्येव भवति / क्षेत्रपरिमाणद्वारेऽपि प्रस्तुते प्रसङ्गतो विनेयानुग्रहार्थं प्रतिपात्यप्रति-पातिस्वरूपाभिधानमित्यदोषः। इति नियुक्तिगाथार्थः।। 702 // उक्तं क्षेत्रपरिमाणद्वारम्। विशे०। (13) अथ संस्थानद्वारमभिधित्सुराहथिबुगागारजहन्नो, वट्टो उकोसमायओ किंचि। अजहण्णमणुक्कोस य,खेत्तओ अणेगसंठाणो / स्तिबुको बिन्दुरुच्यते / तदाकारो जघन्यावधिर्भवति / एतदेवाह (वट्टोत्ति) सर्वतो वृत्त इत्यर्थः / “जावइया तिसमयाहारगस्सेत्या दिना" प्रतिपादितस्य पनकावगाहनाक्षेत्रस्य एतदाकारत्वादिति / उत्कृ-- ष्टावधिस्तु परमावधिः किंचिदायतः किमपि प्रदीर्घो न तु सर्वथा वृत्त इत्यर्थः अग्निजीवसूचेरवधिमच्छरीरस्यापादमस्तकान्तं भ्रम्यमाणाया एतदाकारभावादिति / अजघन्योत्कृष्टो न जघन्यो नाप्युत्कृष्टो मध्यम इत्यर्थः / अयं पुनः क्षेत्रतः अनेकानि संस्थानानि यस्येत्यनेकसंस्थानो भवतीति नियुक्तिगाथार्थः / / 703 // अथ भाष्यम्। पणओ थिवुयागारो, तेण जहन्नावही तयागारो। इयरो सेढिपरिक्खे, व ओवउसद्दाणुवत्तीए।। 704 / / इतर उत्कृष्टः अवधिमत्म्वदेहानुवृत्याग्निजीवश्रेणिपरिक्षेपात्किंचिदायत इति शेषः। शेषं सुगमम्॥७०४ // विशे०। अथ मध्यमावधेर्यदनेकसंस्थानत्वमुक्तं तद्विशेषतो दर्शयन्नाह