SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ओहि 152- अमिधानराजेन्द्रः भाग 3 ओहि भवति। यस्तैजसशरीरं पश्यति स कालतो भवं पृथक्त्वं च द्वाभ्यामार-- भ्यानवभ्यः सर्वत्र द्रष्टव्यम्। इह च य एव हि प्राक् तैजसं पश्यतः पल्योपमसंख्येयभागरूपोऽसंख्येयः कालोऽभिहितः। स एवानेन भवपृथक्त्वेन विशेष्यते। इदमपि च भवपृथक्त्वं तेनासंख्येयकालेन विशेष्यते। भवपृथक्त्वमध्य एव स पल्योपमासंख्येयभागः कालो नाधिकः एतन्मध्य एव च भवपृथक्त्वं न बहिस्तादिति। आहा नन्वेकप्रदेशावगाढस्यपरमाण्वादेरतिसूक्ष्मत्वात्तदुपलम्भे बादराणां कार्मणशरीरादीनामुपलम्भो गम्यतएवेति व्यर्थस्तेषां पृथगुपन्यासोऽथवा एकप्रदेशावगाढमित्ययिन वक्तव्यम्। रूपगतं लभते सर्वमित्यस्य वक्ष्यमाणत्वादत्रोच्यते। यः सूक्ष्म परमाण्वादिपश्यति तेन बादरं कार्मणशरीराद्यवश्यमेव द्रष्टव्यं यो वा बादरं पश्यति तेन सूक्ष्ममवश्यं ज्ञातव्यमित्ययं न कोऽपि नियमो यस्मा " त्तेयाभासा दव्वाणमंतरेत्यादि"। वचनादुत्पत्तावगुरुलघुद्रव्यं पश्यन्नप्यवधिर्मगुरुलघूपलभ्यते। अन्यद्वातिस्थूलमपिघटादिकंचमनः पर्यायज्ञानी मनोद्रव्याण्यपि सूक्ष्माणि पश्यति चिन्तनीयं घटादिस्थूलमपिन पश्यति। एवं विज्ञानविषयवैचित्र्यसंभवे सति संशयव्यवच्छेदार्थमेकप्रदेशावगाढग्रहणे सत्यपि विशेष्यविशेषणोपादानमदोषायैवेति / अथ च एकप्रदेशावगाढग्रहणेन परमाण्वादिद्रव्यं गृहीतम्। शेषं तु कार्मणवर्ग-- णापर्यन्तं कार्मणशरीरग्रहणेनोपलक्षितं कर्मवर्गणोपरितनद्रव्यं तु सर्वमप्यगुरुलधुग्रहणेन संगृहीतम्। च शब्दसूचितागुरुलघुग्रहणे / ननुघटपटभूभूधरादिकं गृहीतमित्येवं समस्तपुद्रलास्तिकायविषयत्वं परमावधेराविष्कृतं भवति। एवं चसतिरूपगतं लभते सर्वमित्येतद्वक्ष्यमाणमस्यैव नियमार्थ द्रष्टव्यमेवेत्येतदेव हि रूपगतं नान्यदित्यलं प्रपञ्चेनेति नियुक्ति गाथार्थः। अथ भाष्यम्। एगपएसोगाढं, पेच्छइ पेच्छइ कम्म यत्तणुंपि। अगुरुलहूदव्वाणि य, वसइओ गुरुलाई पि।। तेय सरीरं पासं, पासइ सो भवपुहुत्तमेगभवे। णेगेसुं बहुतरए, समरिजन उण सई सवे / / गतार्थे एव। नवरम् (एगभवेत्ति ) एकस्मिन् विवक्षितभवे समुपन्नेऽवधौ अतीतमनागतं च पथग्भवपृथक्त्वं पश्यति (णेगेसुमित्यादि) यदि पुनस्तस्याप्यातीतभवपृथक्त्वस्य मध्ये अनेकेषु भवेष्वधिज्ञानमुत्पन्नं स्यात्तदा तेन पूर्वावधिना दृष्टान् भवपृथक्त्वादधिकानपि च बहुतरानतीतानागतभवान् स्मरेत्। स्मृतिज्ञानेन जानीयात्। नतु पृथक्त्यान्तवर्तिन इव तान् सर्वान् साक्षादवधिज्ञानेन पश्यति। भवपृथक्त्वमात्रमेव साक्षात्पश्यतीति भावः। __ अत्र प्रेरकः प्राहएगपएसोगाढे, भणिए कि कम्म यं पुणो भणियं / एगपएसोगाढे, दिटे का कम्मए चिंता।। अगुरुलहुगहणं पि य, एगपएसावगाहओ सिद्ध / सव्ववासिद्धमिओ, रुवगयं भणइ सव्वं पि।। गतार्थव / नवरमेकप्रदेशावगाढे भणिते किमिति / कार्मणशरीरं पुनरप्यवधिविषयत्वेन भणितम् / कुतः कारणात्पुनर्न भणनीयमित्याह (एगपएसोगाढे दिह्र इत्यादि) शेषमनिगूढार्थमेवेति। अत्र गुरुराह एगोगाढे भणिए, विसेसओ सेसएजहारंभे। सहयरं पिच्छंतो, थूलयरं न मुणइ धडाई॥ जह वा मणो विओ नत्थि दंसर्ण सेसए तिथूले वि। एगोगावे गहिए, तहसेसे संसओ होजा।। उपसंहरन्नाहइय नाणविसयवइ चित्त संभवे संसयावणो यत्थ। भणिए वेगोगाढे, केइ विसेसे पयस्संति॥ केचित्कार्मणशरीरागुरुलध्वादीन् विशेषान् प्रदर्शयन्ति भद्रबाहुस्वामिन इति / प्रकारान्तरेण समाधानमाहएगोगाढग्गहणे,णुगादओ कम्मियं तिजा सव्वं / तदुवरि अगुरुलहूई, च सद्दओ गुरुलहूई पि॥ एवं वा सव्वाई,गहियाई तेसि हेवनियमत्थं / सव्वरुयगयंतिय, एवं चिय नावरमउत्थि।। नियममेव दर्शयति ( एवंचिय इत्यादि) एतदेव परमाण्वादिकं रूपगतं परं किमपि रूपगतमस्तीति गाथानवकार्थः। तदेवं परमावधेर्द्रव्यतो विषय उक्तः। अथ क्षेत्रकालौ तद्विषयभूतौ प्राहपरमोहिय संखेजा,लोगमित्ता समा असंखेजा। रुवगयं लहइ सवं,खेत्तोवमियं अगणिजीवा।। परमश्वासाववधिश्च परमावधिः / क्षेत्रतोऽसंख्येयानि लोकमात्राणि खण्डानीति गम्यते। लभत इति संबन्धः। कालतस्तुसमा उत्सर्पिण्यवसर्पिणीरसंखेख्येया एव लभते / द्रव्यतस्तु रूपगतं मूर्तद्रव्यजातं सर्व परमाण्वादिभेदभिन्नं पुद्गलास्तिकायमित्यर्थः / लभते पश्यति। भावतस्त्वसंख्येयांस्तत्पर्यायानिति। यदुक्तमसंख्येयानिलोकमात्राणि खण्डनिपरमावधिः पश्यतीति तदसंख्येयकं नूनमधिकं च संभवेदतो नियतमानार्थमाहा उपमानमुपमितभावे निष्ठाप्रत्ययः क्षेत्रस्योपमितं क्षेत्रोपमितं प्रागभिहिता एवाग्निजीवाः / इदमुक्तं भवति / उत्कृष्टावधेर्विष-यत्वेन क्षेत्रतो येऽसंख्येया लोकाः प्रोक्तास्ते प्रागभिहितस्वावगाहनाव्यवस्थापितोत्कृष्टसंख्येयसूक्ष्मबादराग्रिजीवसूच्यापरमावधिमतो जीवस्य सर्वतो भ्रम्यभाणया यत्प्रमाणं क्षेत्र व्याप्यते तत्प्रमाणाः समवसेया इति। आह / ननु रूपगतं लभते सर्वमित्येतदनन्तरगाथायामर्थतोऽभिहितमेवेति किमर्थं पुनरत्राभिहितमत्रोच्यते / विस्मरणशीलस्य प्रेर्यमिदम् अप्रतिविहितत्वादथवा / अत्र रूपगतमित्येतत्प्रस्तुतक्षेत्रकालद्वयविशेषणतया व्याख्यायते। तद्यथा। लोकमात्रासंख्येयखण्डासंख्यातोत्सर्पिण्यवसर्पिणीलक्षणं प्रस्तुतक्षेत्रकालद्वयं रूपगतं रूपिद्रव्यानुगतमेव लभते। नतु केवलं क्षेत्रकालयोरमूर्तत्वादवधेस्तु रूपिद्रव्यविषयत्वादिति नियुक्तिगाथार्थः / अथ भाष्यम्। खित्तमसंखेज्जाई, लोगसमाइं समा उ कालं च। दव्वं तु सव्वरुवं, पासइ तेसिं वएजाए। क्षेत्रमवधिः पश्यति कियदित्याह। असंख्येयानि लोकसमानि लोकतुल्यानि खण्डानीति गम्यते / कालं चासौ पश्यति / कियन्तमित्याह। समा उत्सर्पिणीः असंख्येया इति लिङ्गव्यत्ययेनात्रापि संबध्यते। द्रव्यं तु सर्वरूपं पश्यति। भावं तु तेषामेव रूपिद्रव्याणां पर्यायान् वक्ष्यमाणसंख्येयान जानाति।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy