________________ ओहि १५१-अभिधानराजेन्द्रः भाग 3 ओहि - भणितं जघन्यादि-भेदं त्रिविधमवधिक्षेत्रप्रमाणम्। विशे०। (9) अवधिविषयस्य द्रव्यस्य मानम्। सांप्रतं तस्य जघन्यादिभेदस्य क्षेत्रस्य यदडलासंख्येयभागादिकं मानं तेन मितं परिच्छिन्नं द्रव्यमत ऊर्ध्वं भणामिाद्रव्यावस्थानापेक्षमेव क्षेत्रस्य भणनात्।अन्यथा हि मूर्तविषये अवधौ प्रक्रान्ते किममूर्त क्षेत्रभणनेनेति भावः / तच द्रव्यमारम्भे प्रस्तावने कीदृशमवधेविषयो भवति / परिनिष्ठानेऽवसाने विमध्ये वा कीदृशमित्येवं भणामि / इति गाथापञ्चकार्थः / स्वप्रतिज्ञातमेवाह। तेयामासादय्वाणमंतरा एत्थ लभइ पट्ठवओ। गुरुलहुआ गुरुलहुयं, तं पिय तेणावतिहाई॥ तैजसं च भाषा च तैजसभाषे तयोर्द्रव्याणि तेषां तैजसभाषाद्रव्याणामन्तरादपान्तराले (एत्थत्ति) अत्रान्यदेवतदयोग्यं द्रव्यं लभतेपश्यति। प्रस्थापकोऽवधिज्ञानप्रारम्भकोऽवधिप्रतिपातीति यावत् / किं विशिष्ट तदित्याह। गुरुलघ्वगुरुलघुवेति। गुरुलघुपर्यायोपेतं गुरुलघु, अगुरुलघुपर्यायोपेतं त्वगुरुलध्विति। तत्र तैजसद्रव्यासन्नं गुरुलघुभाषाद्रव्यास- | गुरुलध्विति। तदपि चावधिज्ञानं तदावरणोदयात्प्रतिपतत्तेनौक्तस्वरुपद्रव्येणोपलब्धेन सता निष्ठां याति प्रतिपततीत्यर्थः / अपि शब्देन चैतज्ज्ञापयति प्रतिपातिन्यवधिज्ञानेऽवंन्यायोनचेतदवश्यं प्रतिपतत्येवेति नियुक्तिगाथार्थः। अथ भाष्यम्। पट्ठवओ नामावहि, नाणस्सारंमओ तयाईओ। उभया जोग्गं पेच्छा, तेयाभासंतरे दव्वं / / गुरुलघुतेयासन्नं, भासासण्णमगुरुंच पासेजा। आरंभे जं दिटुं, दहणं पडइ तं चेव।। गाथाद्वयमपि गतार्थम् / नवरं नामेति शिष्यामन्त्रणे तैजसद्रव्या सन्नं गुरुलधुभाषाद्रव्यासन्नं त्वगुरुलघुपश्येदिति। तैजसभाषाद्रव्याणामन्तरे तद्योम्यं द्रव्यं पश्यतीत्युक्तम्। अतो विनेयः पृच्छति। तेयामासाजोगं, किमजोग्गं वा तयंतराले जं। ओरालियाइतणुवम्गणासम्मेणं तयं सज्जं // यत्तैजसशरीरभाषाया योग्यमुचितं द्रव्यमयोग्यं वा तदन्तराले यदुक्तं तत्किं कतमस्वरूपं कियत्प्रदेशं वेति / कथ्यतामत्रोच्यते / हन्त ? परमाणुढ्यणुकत्र्यणुकादि स्कन्धोपचयादौ नारकादिशरीरवर्गणाप्ररूपणक्रमेणैव तत्साध्यं प्ररूपयितुं शक्यं नान्यथा इत्यर्थः / विशे०। (वाणाशब्दे शरीरवर्गणादिप्ररुपणा) प्रकृतं स्मरयन्नाह। मणियं तेयाभासा, विमज्झदव्वावगाहपरिमाणं / ओहिन्नाणारंभो, परिनिहाणं च तं जेसु॥ तदेवं भणितं प्रतिपादितं किमित्याह / तैजसभाषयोर्विमध्ये अन्तरलि यानि तद्योग्यद्रव्याणि तेषामवगाहपरिमाणमुपलक्षणत्वादनन्तपरमाणु-- प्रचितस्कन्धात्मकत्वादिकं तत्स्वरूपं चोक्तं येषु द्रव्येषु किमित्याह / येष्ववधिज्ञानस्यारम्भः प्रथमोत्पत्तिलक्षणः परिनिष्ठानं च इति पतनं तत्समयप्रसिद्धयेषु इदमुक्तं भवति। "तेयाभासादव्वाणमंतरा एत्थलमा पट्ठवओ" इत्युपजीव्य पूर्वं विनयेन पृष्ट तैजसभाषान्तराले यद्योग्यं द्रव्यं तत्कतमस्वरूपं कतिप्रदेशावगाढं चेति / अस्य शिष्यप्रश्नस्य गुरुणा औदारिकवर्गणाः प्ररूपयता दत्तमुत्तरमिति। इहचगुरुलघ्वगुरुलघु | च द्रव्यमवधेः प्रथमं पश्यतीति पूर्वमुक्तम्। तत्र गुरुलघुद्र--व्यारम्भस्य चावधेर्यत्स्वरूपं भवति। तद्दर्शयन्नाहगुरुलघुदद्वारद्धो, गुरुलघुदवाई पिच्छियं पच्छा। इयराई कोइ पेच्छइ, विसुद्धमाणो कमेणेव // अगुरुलघुसमारद्धो, उड्ड वड्डइ कमेण सो नाहो। वळतो चिय कोइ, पिच्छइ इयराइ सयण्हं।। गुरुलघुद्रव्यारब्धोऽवधिस्तैजसप्रत्यासन्नद्रव्यारब्ध इत्यर्थः / किमित्यत्रोच्यते। वर्धमानोऽधस्तात्तान्येव गुरुलघून्यौदारिकादिद्रव्याणि दृष्ट्वा कश्चित्पश्चाद्विशुद्धमानक्रमेणैवागुरुलघूनि भाषादिद्रव्याणि पश्यति। यस्तु न विशुद्धिमासादयति / स तेष्वेव गुरुलघुद्रव्येषु कियन्तं कालं स्थित्वा ततः प्रतिपतति।यस्त्वगुरुलघुद्रव्यव्ययसमारब्धोऽवधिर्भाषाद्रव्यारब्ध इत्यर्थः / सर्वमेव क्रमेण वर्धते नाधस्तादुपरिवर्तीन्येवागु-- रुलघूनि भाषादिद्रव्याणि पश्यति / कश्चित्तथाविधशुद्धमाने वर्धमान एय ( सयण्हमित्ति ) युगपदितराण्यपि गुरुलघून्यौदारिकादीनि पश्यति / विशे०। (अगुरुलधुशब्दे गुरुलघ्वादिप्ररुपणा कृता) (10) क्षेत्रकालयोर्विषयत्वमानमाहननु पूर्व कर्मद्रव्यदर्शिनः प्रत्येकं लोकपल्योपमभागाः संख्येया विषयत्वेनोक्ताः / अत्र तु कार्मणशरीरदर्शिनः किमिति स्तोको क्षेत्रकालौ विषयत्वेनोक्तौ / अत्रोच्यते / पूर्व कर्मद्रव्याणि कर्मवर्गणागतानि जीवेन शरीरतथाऽबद्धान्युक्तानि / अत्र तु तद्रूपतया बद्धानि गृहीतानि अबद्धेभ्यश्च बद्धानि बादराणि भवन्ति। अच्युततन्तुभ्योऽच्युततन्तुषु तथादर्शनादतोऽत्र कार्मणशरीरदर्शिनः स्तोको क्षेत्रकालौ विषयत्वेनोक्ताविति। अत्र भाष्यम्। एयाइं जओ कम्मय, दध्वेहिंतोत्ति थूलतरयाई। तेयाइयाईतम्हा, थोवयरा खित्तकालत्थ॥ एतानि यतस्तैजसादीनि तैजसशरीरकार्मणशरीरतैजसवर्गणाद्रव्य-- भाषाद्रव्याणीत्यर्थः / कार्मणशरीरयोग्यवर्गणाद्रव्येभ्योऽतिस्थूलतराणि बादराणि तस्मात्तौ कतरौ क्षेत्रकालावत्र प्रोक्ताविति। प्रागेव भावितमिति भाष्यनियुक्तिगाथार्थः। आह ननु यथा जघन्यमध्यमावधी निर्दिष्टन्यायेनासर्वरूपिद्रव्यविषयावुक्तौ तथोत्कृष्टावधिरपि आहोश्वित्सर्वमपि रूपिद्रव्यमसौ पश्यतीत्याशङ्क्याहएगपएसोगावं, परमोही लहइ कम्मगसरीरं / लहइ य अगुरुलहुयं, तेयसरीरे भवपुत्तं // एकस्मिन्नाकाशप्रदेशेऽवगाढं स्थितमेकप्रदेशावगाढं परमाणुद्ध्यणुकाधनन्ताणुस्कन्धपर्यन्तं सर्वमपि द्रव्यम् / परमश्वासावधिश्च परमावधिरुत्कृष्टावधिरित्यर्थः / लभते पश्यति। तथा कार्मणशरीरं च लभते। आहैकप्रदेशावगाढमिति। सामान्योक्तौ कथं परमाणुव्यणुकादिकं द्रव्यं गम्यते / यावता एकप्रदेशावगाद कार्मणशरीरमित्युपात्तमेव कस्मान्न योज्यते / नैवं कार्मणशरीरस्यासंख्येयप्रदेशावगाहित्येनैकप्रदेशावगाहत्वासंभषादिति। अगुरुलघुच द्रव्यं सर्वमपि परमावधिः पश्यति। चशब्दात् गुरुलघु च सर्वं पश्यति / जात्यपेक्षं चैकवचनमन्यथा ह्येकप्रदेशावगाढानि कार्मणशरीराण्यगुरुलघूनि गुरुलघूनि च सर्वाण्यपि द्रव्याण्यसौ पश्यतीत्यवगन्तव्यमिति / तथा तैजसशरीरविषयेऽवधौ कालतो भवपृथक्त्वं परिच्छेद्यतयाऽवगन्तव्यम् / एतदुक्त