________________ ओहि १५०-अभिधानराजेन्द्रः - भाग 3 ओहि विषयतया द्वीपसमुद्रास्तेऽपि भवन्ति संख्येयाः। अपिशब्दान्महानेकोऽपि तदेकदेशोपीऽति। तथा काले संख्येये पल्योपमादिलक्षणेऽवधिविषये सति तस्मै वा संख्येयकालपरिच्छेदकस्यावधिः क्षेत्रतः परिच्छेदकतया द्वीपसमुद्राश्च भक्तव्या विकल्पयितव्याः कदाचिदसंख्येयाः यदिह कस्यचिन्मनुष्यस्यासंख्येयद्वीपसमुद्रविषयोऽवधिरुत्पद्यते। कदाचित् महान्तः संख्येया कदाचित्वतिमहनेकः कदाचित्तु तदेकदेशोऽपि स्वयंभूरमणतिरश्चोऽवधि यः स्वयंभूरमणाविषयमनुष्यबाह्यावधि, योजनापेक्षया तु सर्वपक्षेषु असंख्येयमेव क्षेत्रं द्रष्टव्यमिति नियुक्तिगाथार्थः / अथ भाष्यम्। काले असंखए दीवसागराखुड्या असंखेज्जा। भयणिज्जा य महल्ला, खेत्तं पुण तं खेत्तकालाओ / / गतार्थवा एवं तावत्परिस्थूरन्यायमङ्गीकृत्य क्षेत्रवृद्धौ कालवृद्धिरनियता कालवृद्धौ तु क्षेत्रवृद्धिर्भवत्येवेति प्रतिपादितम्।सांप्रतं द्रव्यक्षेत्रकालभावापेक्षया यदृद्धौ यस्य वृद्धिर्भवति। यस्य वा न भवत्यमुमर्थं प्रतिपादयन्नाह। काले चउण्हवुड्डी, कालो भइयव्वखेत्तवुड्डीए। वुड्डीए ट्वपज्जव-भइअव्वा खेत्तकालाओ॥ काले अवधिगोचरे वर्धमाने सतीति गम्यते (चउण्हवुड्डीत्ति) नियमाक्षेत्रादीनां चतुर्णामपि वृद्धिर्भवति। कालात्सूक्ष्मसूक्ष्मतरसूक्ष्मतमत्वात् क्षेत्रद्रव्यपर्यायाणाम् / तथाहि कालस्य समयेऽपि वर्द्धमाने क्षेत्रस्य प्रभूतप्रदेशा वर्धन्ते / तद्वौ चावश्यंभाविनी द्रव्यवृद्धिः प्रत्याकाशप्रदेश देशद्रव्यप्राचुर्याद्रव्यवृद्धौ चपर्यायवृद्धिर्भवत्येवं प्रतिद्रव्यं पर्यायबाहुल्यादिति / यद्येवं काले वर्धमाने शेषस्व क्षेत्रादित्रयस्य वृद्धिर्भवतीत्येवमेव वक्तुमुचितं कथं चतुर्णामप्ययुक्तम् / सत्यं किंतु सामान्यवचनमेतत् तथाहि देवदत्ते भुञ्जानेसर्वमपि कुटुम्बं भुङ्क्ते इत्यादि। अन्यथा ह्यत्रापि देवदत्ताच्छेषमपि कुटुम्ब भुङ्क्ते इति वक्तव्यम् स्यादित्यदोषः (कालो भइयव्यो खेत्तवुड्डीएत्ति) क्षेत्रस्यावधिगोचरस्यावृद्धवाधिक्ये सति कालो भक्तव्यो विकल्पनीयो वर्द्धते वा नवा प्रभृते क्षेत्रवृद्धिगते वर्द्धते कालोन स्वल्प इति भावः / अन्यथा हि यदि क्षेत्रस्य प्रदेशादिवृद्धौ कालस्य नियमेन समयादिवृद्धिः स्यात्तदाङ्गुलमात्रादिकेऽपि वर्धिते क्षेत्रकालस्यासंख्येया उत्सर्पिण्यवसर्पिण्यो वृद्धरस्तथा च वक्ष्यति (अंगुलसेढीमत्ते, उसप्पिणीओ असंखेजत्ति) ततश्च आवलिकया “अंगुलपुहुत्तमि" त्यादि सर्व विरुध्येत। तस्मात् क्षेत्रवृद्धौ कालवृद्धिर्भजनीयैव। द्रव्यपर्यायास्तु तद्वृद्धौ नियमावर्द्धन्ते एवेति स्वयमेव दृश्यमिति (वुड्डीए दव्वपज्जवेत्यादि) द्रव्यपर्याययोवृद्धौ सत्यां क्षेत्रकालौ भक्तव्यौ विकल्पनीयौ वर्द्धते वा न वा / तथाह्यवस्थितयोरपि क्षेत्रकालयोस्तथा शुभाध्यवसायतः क्षयोपशमवृद्धौ द्रव्यं वर्धत एव तदृद्धौ च पर्यायवृद्धिर-वश्य भाविन्येव प्रतिद्रव्यं पर्यायानन्त्या जघन्यतोऽपि वैकैकद्रव्यादप्यबधेः पर्यायचतुष्टयलाभादिति। पर्यायवृद्धौ च द्रव्यवृद्धिर्भाज्या भवति वा न वेति स्वयमेव द्रष्टव्यम् / अवस्थितेऽपि द्रव्ये तथाविधक्षयोपशमवृद्धौ पर्याया वर्धन्त इति नियुक्ति गाथार्थः। अथ भाष्यम्। काल पवड्डमाण, सव्व दय्वादआ पवति। खेत्ते कालो भइओ, वडंति उदध्वपज्जाया।। भयणाए खेत्तकाला, परिवळतेसुदव्वभावेसु। दव्वे वड्डइ भावो, भावे दव्वं तु भयणिज्जा / / द्वे अपि व्याख्यातार्थे / अत्रोत्तरगाथासंबन्धनार्थ विनेयमुखेन प्रश्नं कारयति। अण्णोण्णनिबद्धाणं, जहण्णयाईणखित्तकालाणं। समयप्पएसमाणं, किं तुलं होज हीणहियं / / अन्योन्यनिबद्धयोर्जधन्यादिरूपयोः क्षेत्रकालयोः समयप्रदेशमानं किं तुल्यं भवेद्धीनमधिकं वेति। इदमुक्तंभवति। "अंगुलमावलियाणंतागमसंखेज्जेत्यादि" ना ग्रन्थेन परस्परसंबन्धत्वेनावधिविषयतया प्रोक्तयोजघन्ययोर्मध्यमयोरुत्कृष्टयोश्च क्षेत्रकालयोः संबन्धिनां प्रदेशानां च समयानां संख्यामाश्रित्य यन्मानं तत्परस्परं किं तुल्यमधिकं हीनं वा भवेदिति प्रश्नः। अत्रोच्यतेसर्वत्र प्रतियोगिनः खल्चावलिकासंख्येयभागादेः कालादसंख्येयगुणमेव क्षेत्रं यतः प्राहसुहुमो य होइ कालो, तत्तो सुहमयरं हवइ खेत्तं / अंगुलसेढीमित्ते, उसप्पिणीओ असंखेजा। सूक्ष्मस्तावत्कालो भवतिं यस्मादुत्पलपत्रशतभेदे प्रतिपत्रभेदमसंख्येयाः समया लगन्तीत्यागमे प्रतिपाद्यते। न चातिसूक्ष्मत्वेन ते पृथग्विभाव्यन्ते। तथापिततः कालात्सूक्ष्मतरं भवति। क्षेत्रं यस्मादङ्गुलश्रेणिमात्रे क्षेत्रे प्रतिप्रदेशं समयगणनया प्रतिप्रदेशपरिमाणमवसर्पिण्योऽसंख्येयास्तीर्थकृद्भिरुक्ताः / इदमुक्तं भवति अङ्गुलश्रेणिमात्रे क्षेत्रे यः प्रदेशराशिः स प्रतिसमयं प्रदेशापहारेणापह्रियमाणोऽसंख्येयावसर्पिणीभिरपहियते। इति नियुक्तिगाथार्थः।। अथ भाष्यम्। खेत्तं बहुयरमंगुलसेढीमित्ते पएसपरिमाणं / जमसंखेज्जासप्पिणि, समयसमंथोवओ कालो।। गतार्थव आह / ननु कालात् क्षेत्रं सूक्ष्ममित्यवगतम्। क्षेत्रात्तु द्रव्यभावौ कथंभूताविति। कथ्यतामित्याशक्य कालात् क्षेत्रद्रव्यभावानां यथोत्तरं सूक्ष्मत्वोपदर्शनार्थमाह - कालो खित्तं दध्वं, भावो य जहुत्तरं सहमभेया। थोवा असंखाणंता, संखाइजमोहि विसयम्मि।। कालादयो यथोत्तरं सूक्ष्मभेदाः समनुमीयन्ते। कुतो यतः सर्वत्रावधिविषयस्वप्रतियोगिक्षेत्राद्यपेक्षया स्तोकः कालो भणितः। ततः क्षेत्रमसंख्येयगुणं ततोऽपिद्रव्यमनन्तगुणं पर्यायास्तु“दव्वाओसंखेने, संखेजाये विपज्जेव लहइ” इति वचनात्। द्रव्यादसंख्येयगुणावेति। एतदेव व्यक्तीकृत्य भावयति। सव्वमसंखेज्जगुणं, कालाओ खेत्तमोहिविसयम्मि। अवरोप्परसंबद्धं, समयपएसप्पमाणेणं // खेत्तप्पएसेहिंतो, दव्वमनंतगुणियं पएसेहिं। दवेहिंतो भावो, संखगुणो संखगुणिओ वा।। गाथाद्वयमपि गतार्थम् / नवरं यस्मात्सर्वमप्यकुलासंख्येयभागादिकं क्षेत्र प्रदेशैरावलिकासंख्येयभागादेः कालादेस्तत्समयानाश्रित्यासंख्येयगुणमवधिविषये प्रोक्तम्। क्षेत्रप्रदेशेभ्यस्तद्दव्यं प्रदेशैरनन्तगुणमित्यादि। तस्मात्कालादयः स्तोकादितया अनुमेया इति / अथ पूर्वोक्तस्य निर्गमनार्थमुत्तरस्य च प्रस्तावनामाहभर्णिर्य खेत्तपमाण, तम्हाणमिर्य भणामि दवम / तं केरिसमारंभे, परिणित्थणे वि मज्झेव / /