________________ ओहि 146 - अमिधानराजेन्द्रः - भाग 3 ओहि दिक्षु बुद्ध्या भ्राम्यति। स चालोकालोकप्रमाणमात्राण्यसंखेयान्याकाशखण्डानीति गम्यते। अतीत्य गत्वा स्पृष्ट्वा वा इति तिष्ठत्युपरमते। इदम- | वधेरुत्कृष्टक्षेत्रविषय इति। आहा ननुरूपिद्रव्याण्ये वावधिः पश्यतीति। गीयते क्षेत्रं त्वमूर्तत्वात्कथं तद्विषय इत्याहसामत्थमेत्तमेयं, जई दहवं हविज पिच्छेज। नयतं तत्थ च्छिन्नओसो रूविनिबंधनो भणिओ॥ यदवधेरेतावत्क्षेत्रं विषय उच्यते। तदेतत्तस्य सामर्थ्यमात्रमेवकीर्त्यते। कोऽर्थ इत्याह / यद्येतावत्क्षेत्रे द्रष्टव्यं किमपि भवेत्तत्तदा पश्येदवधिज्ञानी न च तद्रष्टव्यं तत्रालोके समस्ति। यतोऽयमवधिस्तीर्थकरगणधरैः रूपिद्रव्यनिबन्धनो भणितः।तचरूपिद्रव्यमलोके नास्त्येवेति आह। यद्येवं लोकप्रमाणोऽवधिभूत्वा यस्य पुरतो विशुद्धिवशतो लोकादहिरप्यसौ वर्धते। तस्य तद्वृद्धः किंफलं लोकाबहिर्द्रष्टव्याभावात् इत्याशझ्याह। बद्धंतो उण वोहि,लोयत्थं चेव पासइ दव्वं / सुहुमयरं सुहुमयरं, परमोही जाव परमाणुं // लोकात्पुनः बहिर्विशुद्धिवशाद्वर्धमानोऽवधिलॊकस्थमेवाधिकतरं च | पश्यति। कथंभूतं सूक्ष्म सूक्ष्मतरं सूक्ष्मतमंच। यावत्परमावधिः सर्वसूक्ष्मपरमाणुमपि पश्यतीति तदृद्धेस्तात्विकं फलमिति।अलोके तुलोकप्रमाणासंख्येयत्वं खण्डेषु द्रव्यदर्शनसामर्थ्यमेव तस्येति। अन्यकर्तृकीयां प्रक्षेपगाथा सोपयोगेति च व्याख्यातेति। तदेवं जघन्यमुत्कृष्टं वाऽभिहि-- तमवधेर्विषयभूतं क्षेत्रमेतस्माच्चान्यत्सर्वं विमध्यममिति सामर्थ्यात् गम्यत एव। केवलं यद्यत्र विमध्यमे क्षेत्रविशेषे कालमानं भवति। यावति च काले यद्विमध्यमं क्षेत्र भवतीति तदभिधित्सुः प्रस्तावनामाहभणियं जहण्णमुक्कोसयं च खेत्तं विमज्झिम सेसं। एयस्स कालमाणं, वोच्छं जं जम्मि खेत्तम्मि। गतार्थव / नवरमुपलक्षणत्वादिह यावति काले यद्विमध्यमं क्षेत्रं भवतीत्यभिधास्यत इति द्रष्टव्यमिति गाथानवकार्थः। यथा प्रतिज्ञातमेवाह। अंगुलमावलियाणं, भागमसंखिज्ज दोसु संखेजा। अंगुलमावलियंतो, आवलिया अंगुलपुहुत्तं // हत्थम्मि मुहुत्तंतो, दिवसंतो गाउयम्मि बोधव्यो। जोयणदिवसपुहुत्तं, पक्खंतो पण्णवीसाओ॥ भरहम्मि अद्धमासो,जंबुद्दीवम्मि साहिओ मासो। वासं च मणुयलोए, वासपुहुत्तं व रुयगम्मि॥ शङ्खलं क्षेत्राधिकारात् प्रमाणाडलं गृह्यते / अवध्यधिकारादुच्छ्रयाकुलमिति च केचिदिति / असंख्येयसमयसंघातात्मकः कालविशेष आवलिका। अङ्गुलं चावलिका चाङ्गुलावलिके तयोरङ्गुलावलिकयो - गमसंख्येयम् पश्यत्ववधिज्ञानी एतदुक्तं भवति। क्षेत्रमडलासंख्येयभागमात्रं पश्यन् कालत आवलिका असंख्येयमेव भागं पश्यत्यतीतमनागतं चेति क्षेत्रकालदर्शनं चोपचारेणोच्यते / अन्यथा हि क्षेत्रव्यवस्थितानि दर्शनयोग्यानि द्रव्याणि तत्पर्यायांश्च विवक्षितकालान्तर्वर्तिनः पश्यत्यवधिर्न तु क्षेत्रकालौ मूर्तद्रव्यालम्बनत्वात्तस्येति / एवमुत्तरत्रापि सर्वत्र द्रष्टव्यम् / क्रिया चेह गाथात्रयेणाध्याहारा दृश्यते ( दोसु संखेजत्ति ) द्वयोरङ्गुलावलिकयोः संख्येयौ भागौ पश्यति / अङ्गुलसंख्येयभागमात्र पश्यन्नावलिकायाः संख्येयमेव भागं पश्यतीत्यर्थः / (अंगुलमावलियतोत्ति) अङ्गुलं पश्यन् क्षेत्रतः कालतः आवलिकान्तर्भिन्नामावलिका पश्यतीत्यर्थः / ( आवलिया अंगुलपुहु-तंति ) कालतः आवलिकां वीक्ष्यमाणः क्षेत्रतोऽङ्गुलपृथक्त्वं पश्यति / पृथत्क्वं च समयपरिभाषा द्विप्रभृत्या नवभ्यः सर्वत्र द्रष्टव्यमिति ( हत्थंमि मुहुत्तंतोत्ति ) क्षेत्रतो हस्तप्रमाणक्षेत्रविषयोऽवधिः कालतो मुहूर्तान्तभिन्नं मुहूर्तं पश्यतीत्यर्थः (दिवसंतो इत्यादि) कालतो दिवसान्तभिन्नं दिवसं वीक्ष्यमाणः क्षेत्रतो गव्यूतविषयो बोद्धव्यः (जोयणदिवसपुतंति) योजनक्षेत्रविषयोऽ-वधिः कालतो दिवसपृथकक्त्वं पश्यति ( पक्खंतो इत्यादि ) कालतः पक्षान्तर्भिन्न पक्षं पश्यन् क्षेत्रतः पञ्चविंशतियोजनानिपश्यति (भरहम्मि इत्यादि) भरतक्षेत्रविषयेऽवधौ कालतोऽर्द्धमासस्तद्विषयत्वेन बोद्धव्यः / जम्बूद्वीपविषये तुसाधिको मासः अर्धतृतीयद्वीपसमुद्रलक्षणे मनुष्यलोके तु वर्ष संवत्सरःरुचकाख्यबाह्यद्वीपविषयेऽवधौ वर्षपृथक्त्वं तद्विषयत्वेनावगन्तव्यम्। वर्षसहस्रमित्यन्ये। इति नियुक्तिगाथात्रयार्थः / अथ भाष्यम्। खेत्तमसंखेजंगुलभागं पासत्तमेव कालेण। आवलिए भागं भूयमणागयं च जाणाइ॥ तत्थेव यजे दवा, तेसिं चिय जेहवनिपजाया। इय खेत्ते कालम्मिय, जोएज्जा दय्वपज्जाए। संखेजंगुलमाए, आवलियाए वि मुणइ तइ भाग। अंगुलमिह पेच्छंतो, आवलियंतो मुणइ कालं // आवलियं मुणमाणो, संपुण्णं खेत्तमंगुलपुहुत्तं / एवं खेत्ते काले, काले खेत्तं च जोएडा। गतार्था एव।नवर "मणागयं" चेत्यनागम्। आह। नन्वमूर्ती क्षेत्रकालौ कथमवधिः पश्यति। मूर्तालम्बनत्वात्तस्येत्याह। (तत्थेव ये इत्यादि) इदमत्र हृदयम्। अङ्गुलासंख्येयभागादिकं क्षेत्रं पश्यतीति कोऽर्थस्तत्रैवैतावति क्षेत्रप्रस्तुतावधिदर्शनयोग्यानि पुद्गलद्रव्याणि तान्येवासौ पश्यति। आवलिकासंख्येयभागादिकं कालं पश्यतीत्यत्रापि च कोऽर्थस्तेषामेव पुद्गलद्रव्याणां ये प्रस्तुतावघेर्दर्शनयोग्याः पर्यायास्तान भूतेऽनागते चैतावति कालेऽसौ वीक्ष्यते। इत्येवं सर्वत्र क्षेत्रे काले चावधेर्विषयत्वेनोक्तम्। यथासंख्यं क्षेत्रगतानि योग्यरूपिद्रव्याणि कालगतांस्तधोग्यास्तत्पर्यायानायोजयेत् / क्षेत्रकालौ तु मन्दाः क्रोशन्तीत्यादिन्यायेनोपचारत एवोच्यते। इति भाष्यगाथाचतुष्टयार्थः।। संखेजम्मि उ काले, दीवसमुद्दा वि हॉति संखेजा। कालम्मि असंखेजा, दीवसमुद्दा वुभइयव्वा॥ संख्यायत इति संख्ये यः स च संवत्सरमासादिरूपोऽपि भवत्यतस्तु शब्दो विशेषणार्थः कृतः / किं विशिनष्टि / संख्येयोऽत्र वर्षसहस्रात्परतो गृह्यते / अत एव पूर्वगाथायां " वाससहस्सं व रुयगमिति" पाठान्तरं तस्मिन् वर्षसहस्रात्परतो वर्तिनि संख्येये कालेऽवधिविषयप्राप्ते सति क्षेत्रतस्तस्यैवावधे