________________ ओहि 148 - अभिधानराजेन्द्रः - भाग 3 ओहि क्षेत्रमनन्तरव्यावर्णितं प्रभूतानलजीवप्रमितमङ्गीकृत्य निर्दिष्टः / प्रतिपादितो महामुनिभिः। ततश्चावधेः पर्यायेणैतावत्क्षेत्रमुत्कृष्टतो विषय-- मित्युक्तंभवति। इति नियुक्तिगाथाक्षरार्थः / भावार्थं तु सांप्रदायिकार्थप्रतिपादकभाष्यमुखेन भाष्यकार एवाहअव्वाघाए सव्वासु कम्मभूमीसु जंतदारम्भा। सव्ववहवो मणुस्सा, हॉति अजियजिणिंदकालम्मि॥ अव्याघातेऽनलजीवोत्पत्तेमहावृष्ट्यादिव्याघाताभावे सर्वासु समस्तमरतैरावतविदेहणलक्षणासु पञ्चदशसु कर्मभूमिषु सर्वबहवो वादराग्निजीवा भवन्ति / इति प्रक्रमाल्लभ्यते / किमविशेषेण सर्वदैव एतास्वेते भवन्ति नेत्याह! अजितजिनेन्द्रकाले अजितजिनेन्द्रस्योपलक्षणत्वादवसर्पिण्या द्वितीयतीर्थङ्करकाले इत्यर्थः। किमिति तत्रैते बहवो भवन्तीत्याह। (जमित्यादि ) यद्यस्मात्तदारम्भात्तेषां बादराग्निजीवानां संधुक्षणज्वालनाद्या रम्भपराः सर्वबहवः सर्वेभ्योऽप्यतीतानागतेभ्यो बहवः प्रचुरागर्भजमनुष्याः स्वभावादेवेति आह। किमेतैरेव बादराग्निजीवैः सर्वबह ग्निजीवपरिमाणं पूर्यते। आहोश्वित् सूक्ष्माग्निभिः सह यदि तैः सह सदा ते अविशिष्टा अपि गृह्यन्ते। आहोश्वित्कचिदेव विशिष्टा इत्याहउक्कोसया य सुहुमा, जया तया सव्वबहुगमगणीणं। परिमाणं संभवओ, तं छट्ठा पूरणं कुणइ / / उत्कृष्टाश्च सूक्ष्माग्निजीवाः स्वभावत एव कथमपि यदा संभवन्ति / तदैवतैदिराग्निजीवैः सह सर्वबहग्निजीवानां परिमाणं भवति / इदमत्र हृदयम्। अनन्तानन्तास्ववसर्पिणीषु मध्ये स एव कश्चिद्धि तीर्थकरकालो गृह्यते। यत्र सूक्ष्माग्निजीवा उत्कृष्टपदिनः प्राप्यन्ते। ततश्च तैर्बादरैः सूक्ष्मैश्वाग्निजीवैरुत्कृष्टपदिभिर्मीलितैः सर्वबहग्निजीवानां परिमाणं भवति। तच्च संभवमात्रमाश्रित्य बुद्ध्या षोढाषट्प्रकाररचनया व्यवस्थाप्यन्ते। ततश्च बहुतरक्षेत्रपूरणं करोति तत्र पञ्चानादेशाः। षष्ठः श्रुतादेश इति एतदेवाहएकेकागासपएसे जीवरयणाए सावगाहे य। चउरं संघणपयरं, सेड्डीछट्ठो सुयाएसो॥ तैः सर्वैरप्यग्निजीवैः समचतुरस्रो घनो द्विभेदः स्थाप्यते। कथमित्याह। एकैकाकाशप्रदेशे एकैकाग्रिजीवरचनया स्वावगाहे च देहासंख्येयाका शप्रदेशलक्षण एकैकाग्निजीवरचनयेति। अत्र स्थापना। एतेषांनवानामग्रिजीवानां प्रत्येकमेकैकाकाशप्रदेशैर्व्यव 000 स्थापितानामधस्तादुपरिष्टाच्चान्योऽपि नव नव जीवा इत्यमेव स्थाप्यन्ते। 'एष कल्पनया सप्तविंशत्या | 0 सद्भावतस्त्वसंख्येयैरग्निजीवैरेकै काकाशप्रदेशव्यवस्थापितैर्घनोमन्तव्यः / द्वितीयोऽपिधन इत्थमेव द्रष्टव्यः / केवलमिहासंख्येयाकाशप्रदेशेष्वेकैकजीवो व्यवस्थाप्यते / एवमेकै काकाशप्रदेश एकैकजीवस्थापनया असंख्येयप्रदेशात्मकस्वावगाहस्थापनया च प्रतरोऽपि द्विभेदः / सूचिरपि द्विभेदा तत्र घनप्रतरपक्षश्चतुर्भेदः / पञ्चमश्चैकाकाशप्रदेशस्थापितैकैकजीवलक्षणसूचिपक्षोऽपि न ग्राह्यो दोषद्वयानुषङ्गात् / तथा हि पञ्चविधयाऽप्यनया स्थापनया स्थापिता अग्निजीवाः षट्ष्वपि दिक्ष्वधिज्ञानिनोऽसत्कल्पनया भ्राम्यमाणाः स्तोकमेव क्षेत्रं स्पृशन्तीत्येको दोषः। एकैकाकाशप्रदेशे एकैकजीवस्थापनायाभागमविरोधश्च द्वितीयदोषः / असंख्येयाकाशप्रदेशानन्तरेणागमे जीवावगाहनिषेधादसत्कल्पनया प्रदेशावगाहोऽप्यस्त्विति चेन्नैवं कल्पनापि सति संभवेऽविरोधिन्येव कर्तव्या। किं विरोधेनेत्यालोच्याह (छट्ठोसुयाएसोत्ति) असंख्येयाकाशप्रदेशलक्षणस्वावगाहे पत्यामेकैकजीवस्थापनेन यः सूचिलक्षणः षष्ठः पक्षोऽयं श्रुते आदिष्टत्वागाह्यः शेषास्तु पञ्चानादेशाः सम्भवोपदर्शनमात्रेणोक्तत्वात्परिहार्याः इयं हि यथोक्तसूचिरेकैकजीवस्यासंख्येयाकाशप्रदेशावगाहे व्यवस्थायितत्वाद्बहुतरं क्षेत्रं स्पृशतीत्येको गुणः अवगाहविरोधाभावस्तु द्वितीयः / ततश्चैषाग्निजीवसूचिरवधिज्ञानिनः षट्ष्वपि दिक्ष्यसत्कल्पनया भ्रामिता सती अलोके लोकप्रमाणान्यसंख्येयखण्डानि स्पृशत्यत एतावदुत्कृष्ट क्षेत्रमवधेविषय इत्युक्त भवतीत्यादि स्वयमेव वक्ष्यतीति। अत्र कश्चिदाहघणपयरसेढिगणियं, ननु तुल्लं चिय विगप्पणा कीस। छट्ठा कीरइ भण्णइ, पुरिसपरिक्खेवओ भेओ॥ नन्येकैकाकाशप्रदेशावगाढजीवघनप्रतरश्रेण्याक्रान्ताकाशप्रदेशशानां संख्यारूपंगणितंतुल्यदेव तथाऽसंख्येयाकाशप्रदेशावगाढजीवधनप्रतरश्रेण्याक्रान्ताकाशप्रदेशानामपि गणितं स्थाने परस्परंतुल्यमेव। तथा हि। यावत एवैकैकाकाशप्रदेशावगाहिनां जीवानां घनाकाशप्रदेशानाक्रामन्ति प्रतरोऽपि तेषां तावत एव नाक्रामति सूचिरपि तेषां तावत एव तान् स्पृशति। संवृत्तप्रसारितनेत्रपट्टाक्रान्ताकाशप्रदेशवदित्येवमसंख्येयाकाशप्रदेशावगाढजीवघनप्रतरश्रेण्याक्रान्ताकाशप्रदेशानामपि स्वस्थाने गणिततुल्यता भावनीयेत्यतोऽवगाहभेदद्वयभिन्नो घन एवास्तु। प्रतरो वा सूचिर्वेति ! षोढा तु विकल्पना षट्भेदानां कल्पनं किमिति / क्रियतेनयुक्तेयमित्यभिप्रायः। अत्र सूरिराहाभण्यते उत्तरं किमित्याह / (पुरिसपरिक्खेवओ भेओत्ति ) अस्त्यस्याः षट्टिधकल्पनायाः भेदः कथमित्याह। पुरुषपरिक्षेपतः इदमुक्तं भवतिनेह घना द्यक्रान्ताकाशप्रदेशानां संख्यासमत्वविषयत्वे चिन्त्ये। इति किं तर्हि धनादीनां मध्याद्यः कश्चिद्वचनाविशेषोऽवधिज्ञानिनः सर्वासु दिक्षु भ्रम्यमाणो बहुतरं क्षेत्रं स्पृशतिसएवेह ग्राह्यः। एवं चसत्यस्त्यमीषां भेदस्तथा ह्येकैकप्रदेशावगाढजीवघनोभ्रम्यमाणो यावत्क्षेत्रं स्पृशति।तस्मादसंख्येयप्रदेशावगाढजीवधनोऽसंख्येयगुणं स्पृशति। ततोऽप्येकैकप्रदेशावगाढजीवप्रतरो-- ऽसंख्येयगुणं, तस्मादप्यसंख्येयप्रदेशावगाढजन्तुप्रतरोऽसंख्येयगुणं, ततोऽप्येकैकप्रदेशावगाढं जीवसूचिरसंख्येयगुणं, तस्मादप्यसंख्येयाकाशप्रदेशावगाढेकैकाग्निजीवसूचिरयधि ज्ञानिनःसर्वासु दिक्षु भ्रम्यमाणा असंख्येयगुणं क्षेत्रं स्पृशति। तचालोके लोकप्रमाणान्यसंख्येयाकाश-- खण्डानि / अत एव तावदवधिरुकृष्ट क्षेत्रविषय इत्युक्तमेवार्थ भाष्यकारः प्राह। निययावगाहणाग्गि-जीवसरीरावली समतेणं। भामिजइ ओहिन्नाणि देहपज्जतओ साइ॥ अइगंतूण अलोग,लोगागासप्पमाणमित्ताइ। ठाई व अंसंखेज्जाइं इमो हि खेत्तमुक्कोसं // निजका आत्मीया एकै कस्यासंख्येयप्रदेशात्मिकाऽवगाहना येषां तानि तथा तानि च तानि अग्निजीवशरीराणि च तेषामवली पङ्क्तिः / सूचिरवधिज्ञानिनो देहपर्यन्तात्समन्तात्सर्वासु | 00