________________ ओहि 147 - अमिधानराजेन्द्रः - भाग 3 ओहि संख्येयभागबाहुल्यश्चायं प्रतरो भवतीत्येष प्रथमसमयव्यापारः / ननु च प्रथमे समये आयामं संक्षिपतीत्येतदेवोक्तं यथोक्तप्रतरकरणं तु कुतो लभ्यत इति चेदुच्यते। अनन्तरं द्वितीयसमये तत्संक्षेपस्य भणनात्तस्य चकरणपूर्वकत्वादिति “वीएत्ति संखिवि उमि"त्यत्रापि संबन्ध्यते ततो द्वितीयसमये तं प्रतरमुभयतः संक्षिप्याकुलासंख्येयभागबाहुल्यं मत्स्यशरीरपृथुत्वायामासूचिं करोतीत्यध्याहारः। अत्राप्यनन्तरतृती-- यसभये सूचिसंक्षेपाभिधानात्तस्यचतत्करणापूर्वकत्वात् सूचीकरणमध्याहियते। (तईएत्ति) ततस्तृतीयसमयेतामपि सूचिंसंक्षिप्याङ्गुलासंख्येयभागमात्रावगाहनो भूत्वा निर्जीर्णमत्स्यभवायुरुदीर्णपरभवायुश्वाविग्रहगत्या मत्स्यशरीरस्यैवैकदेशे पनकःसूक्ष्मवनस्पतिजीवविशेषो भवति / अस्मादुत्पादसमयात् तृतीयसमये यदेहमानमेतस्य पनकस्य तत्किमित्याह (ओहिखित्तं जहण्णं तमिति ) तज्जघन्यमवधेर्विषयभूतं क्षेत्रं किं स्वरूप तत् ज्ञेयम्। द्रव्यभाजनं तस्यावधेयानि ग्राह्याणि यानि द्रव्याणि तेषां भाजनमाधारभूतमतेने तज्ज्ञेयद्रव्याधारत्वेनैव क्षेत्रमवधेविषय उच्यते। ननु साक्षात्तस्यामूर्तत्वादवधेस्तु मूर्तविषयत्वादिति एतद्वाथात्रयव्याख्यातार्थसंवादि चोक्तं वृद्धः “योजनसहस्रमानो, मत्स्यो मृत्वा स्वकायदेशे यः। उत्पद्यते हि सूक्ष्मः,पनकत्वेनेह स ग्राह्यः / / 1 / / संहत्य चाद्यसमये, सह्यायामं करोति च प्रतरम्। संख्यातीताख्याकुलविभागबाहुल्यमानं तु॥२॥स्वकतनुपृथुत्वमात्रं, दीर्घत्वेनापि जीवसामर्थ्यात्। तमपि द्वितीये समये, संहृत्य करोत्यसौ सूचिम्॥३॥संख्यातीताख्याङ्गुलविभागविष्कम्भमाननिर्दिष्टाम् / निजतनुपृथुत्वदैया, तृतीयसमये तुसंहृत्य॥४॥उत्पद्यतेचपनकः, स्वदेहदेशेस सूक्ष्मपरिणामः / / समयत्रयेण तस्यावगाहना यावती भवति॥ 5 // तावज्जघन्य-- मवधे-रालम्बनवस्तुभाजनं क्षेत्रम्। इदमित्थमेव मुनिगण-सुसंप्रदायासमक्सेयम्॥६॥ अत्र परः पृच्छति। किं मच्छोत्तिमहल्लो, किंतिसमयओदकीस वा सहुमो। गहिओ कीस व पणओ, किं व जहण्णावगाहणओ / / किमिति मत्स्योऽतिमहान गृह्यते। किं वा त्रिसमयाहारकः तृतीयसमये निजशरीरदेशोत्पत्तिमात्रो गृह्यते। किं वा सूक्ष्मः किमिति वा पनको जघन्यावगाहनको वा गृहीत इति। अत्रोत्तरमाह। मच्छो महलकाउं, संखित्तो जो य तीहिं समरहिं। सो किर पयतविसेसेण सुहुमो व गाहणं कुणई // सहयरासन्नयरो, सुहुमो पणओ जहन्नदेहो या सुबहु विसेसविसिट्ठो, सण्हयरो सव्वदेहेसु॥ यो हि योजनसहस्रायामो महाकायो मत्स्यस्त्रिभिश्च समयैरात्मानं संक्षिपति / स किल प्रयत्नविशेषादतिसूक्ष्मामवगाहनां कुरुते नान्यः अनेन किमिति। मत्स्यो महान् गृह्यते। तृतीयसमयसंक्षिप्तश्चेत्येतस्योत्त-- सदायि। दूरे च गत्वाऽन्यत्र यद्युत्पद्यते विग्रहेण च गच्छति तदा जीवप्रदेशाः किंचिद्विस्तरं यान्तीत्यवगाहना स्थूलतरा स्यादित्यविग्रहगत्या स्वशरीरदेश एवोत्पादित इत्येतत्स्वयमेव द्रष्टव्यमिति। "कीसवासुहुमो" इत्यादेरुत्तरमाह "सण्णयरा” इत्यादि।श्लक्ष्णादपि श्लक्ष्णतरस्तावद्वदति कः पनकः कथंभूतः सूक्ष्म जघन्यदेहश्च जघन्यावगाहनश्चेत्यर्थः / वस्तुतोऽर्थतात्पर्यमाह (सुबहु इत्यादि)"जो जोयण- | साहस्सो" इत्याद्युक्तप्रकारेण सुबहुविशेषणविशिष्टो गृह्यमाणपनकजीवः सूक्ष्मतरः सूक्ष्मतमश्च सर्वदेहेभ्यो भवति इति। अथ किं त्रिसमयाहारक इत्यस्योत्तरमाह - पढमविईए अतिसझण्हो, जमइत्थूलो चउत्थयाईसु / तइयसमयम्मि जोगो, गहिओ तो तिसमयाहारो॥ यस्मात्प्रथमद्वितीययोः समययोरतिसूक्ष्मो भवति / चतुर्थादिषु च अतिस्थूलः संपद्यते। तृतीयसमयेतु योग्योऽतस्त्रिसमयाहारकग्रहणमिति। अत्र केषांचिन्मतमुद्रावयन्नाह - केई दो झससमया, तइओ पणगत्तणोववायम्मि। अह तिसमइओ आहारओय सहुमो य पणओ य॥ उववाए चेव तओ, जहन्नोन सेससमएसु। तो किर तदेहसमा, णमोहिखित्तं जहन्नं तु / / त्रिसमयाहारकत्वविषये केचनाचार्या व्याचक्षते। यदुत द्वौ तावज्झष-- स्य मत्स्यसंबन्धिनौ आद्यसमयौ गृह्यते / आयामसंहारप्रतरकरणलक्षणः प्रथमः सूचिं तुयत्र करोति स द्वितीयः। तृतीयसमयस्तुतां संक्षिप्य पनकत्वेनोत्पादो भवति / ततश्च त्रयः समया यस्यासौ त्रिसमयः अविग्रहेणोत्पत्तेराहारकश्च / एवं च सति प्रत्युतातिसूक्ष्मश्च पनकश्चायं सिद्धो भवति। तथा चस“तिसमयाहारगस्ससुहमस्स पणगजीव स्सेति" नियुक्तिकारवचनमाराधितं भवति / किं चेह यथा सूक्ष्मः सूक्ष्मतरोऽसौ भवति / तथा कर्तव्यम् एतचास्मिन् व्याख्याने स विशेष सिद्धयतीति दर्शयति ( उववाए चेवेत्यादि) उत्पादसमय एव यतो यस्मात्तत्कोऽसौ पनकजीवो जघन्य इति / जघन्यावगाहनो भवति / न शेषेषु समयेषु द्वितीयादिष्वीषन्महत्वाजघन्यावगाहनाश्च नियुक्तौ प्रोक्तास्ततोऽतिसूक्ष्मत्वसिद्धेस्तस्यानन्तरोक्तस्वरूपस्य देहस्तद्देहस्तत्समानमेवमेतद् किलावधिविषयभूतंजधन्यं क्षेत्रं भवतीति। अत्र भाष्यगाथामन्तरेणापि पूर्वटीकाकारलिखितं प्रतिविधानमुच्यते / तचैवं न युक्तमिदं केषांचिद्व्याख्यानं त्रिसमयाहारकत्वस्य पनकविशेषणत्वेनोक्तत्वान्मत्स्यसमयद्वयस्य च पनकसमयत्वायोगाद्योऽपीत्थमपि जघन्यावगाहनालाभलक्षणो गुण उद्भाव्यते। सोऽपिन युक्तो यस्मान्नेहातिसूक्ष्मेणातिमहता वा किंचित्प्रयोजनं किं तर्हि योग्यो न योग्यश्च स एव तद्धेतभिर्दृष्टो यः प्रथमं जघन्यावगाहनस्तस्मिन्नेव भवे समयत्रयमाहारं गृह्णातीत्यलं विस्तरेणेति गाथानवकार्थः / तदेवमवधिविषयभूतस्य जघन्यक्षेत्रस्य परिमाणमुक्तमथोत्कृष्टस्य तदाहसव्वबहुअगणिजीवा, निरंतरं जत्तियं भरिशंसु। खेत्तं सवदिसागं, परमोही खेत्तनिद्दिट्ठो॥ सर्वेभ्यो विवक्षितकालावस्थायिभ्योऽनलजीवेभ्य एव बहवः सर्वबहवः / नतुभूतभाविभ्यो नापि च शेषजीवेभ्यः कुतोऽसंभवादेवेति। अग्रयश्च ते जीवाश्च अग्निजीवाः सर्वबहवश्च ते अग्निजीवाश्च सर्वबह ग्रिजीवा निरन्तरं सततं नैरन्तयणेत्यर्थः / यावदिति यत्प्रमाणं क्षेत्रमाकाशं वक्ष्यमाणविशिष्टसूचीरचनया रचिताः सन्तो भृतवन्तो व्याप्तवन्तः कालभूतनिर्देशश्चाजितस्वामिकाल एव वक्ष्यमाणयुक्तया प्रायः सर्वबहवोऽनलजीवा भवन्त्यस्यामवसर्पिण्यामित्यस्यार्थस्य ख्यापनार्थः / इदं चानन्तरोक्तविशेषणं क्षेत्रमेकदिशमपि भवत्यत आह (सव्वदिसागंति) सर्वदिशो यत्र तत्सर्वदिशम् अनेन वक्ष्यमाणन्यायेन सर्वतः सचीभ्रमणप्रमितं तदाह / परमश्वासाववधिश्च परमावधिः