________________ ओहि 146 - अभिधानराजेन्द्रः - भाग 3 ओहि मये अडलया ऋजुता जायते / तस्मिन्नेव समये तस्या ऋजुताया नाशो भाविवक्रत्वस्य भवनं चेति। एवं हि ऋजुता ऋजुत्वधर्मेणोत्पद्यते। तेनैव च धर्मेण तस्मिन्नेवोत्पत्तिसमये सा विनश्यतीत्यभ्युपगतं भवति / दूरविरुद्धं चैतत्कथमित्याहलद्धत्तलाभनासो, जुजइ लामो य तस्स समएणं / जइ तम्मि चेव नासो, निव्वविणढे कुओ भवणं // सव्वुप्पायाभावो, तदभावे य विगमो भवे कस्स। उप्पायवयाभावे, कावट्टिई सव्वहा सुण्णं // लब्धः आत्मनो लाभः सत्ता येन तल्लब्धात्मलाभ प्राप्तस्वसत्ताकं तस्यैवेत्थंभूतस्य वस्तुनो नाशो युज्यते / न ह्यानासादितसत्ताकस्य खरविषाणस्य विनाश इति वक्तुं युज्यते / आत्मलाभश्च तस्य वस्तुनः समयेन भवति। यदि च यस्मिन्नेव समये ऋजुत्वधर्मेण ऋजुता समुत्प-- द्यते। तस्मिन्नेव समये तेनैव धर्मेण सा विनश्यतीत्यभ्युपगम्यते।तर्हि एवं सर्वदैवोप्यत्त्यभावानित्यविनष्ट कदाचिदष्यनवाप्तात्मलाभे वस्तुनि कुतो भवनं सत्तारूपंन कुतश्चिदित्यर्थः / ततः किमित्याह / “सव्वुपायेत्यादि। तत इत्थं सर्वदैव विनाशाघ्रातत्वान्नित्यमेव वस्तूनामुत्पादाभावः प्रसृजति / तथा च सति कस्य विगमो विनाशो युज्यते। इतरथा तु कस्य विनाश इति भावः / उत्पादव्ययाभावे च ( कावष्ट्ठिइत्ति ) कावस्थितिस्तथा हि / यदुत्पादव्ययशून्यं तस्यावस्थितिरपि नास्ति यथा खरविषाणस्य तच्छूयं च वस्तूक्तयुक्तर्भवतः समापततः कुतस्तस्यावस्थितिरिति / एवं च सति सर्वथा शून्यं जगत्त्रयमिदं प्राप्नोति / तथा [त्पादव्ययधौव्यरहितं वस्तु नास्त्येव सत्वाद्ययोगात् / खरविषाणददिति अग्रेतननियुक्तिगाथासंबन्धं भाष्यकारः स्वत एव कुर्वनाह- / दव्वाईणं तिण्हं, पुव्वं भणिओ परोप्परनिबंधो / इह दव्वस्स गुणेणं, भणइ दव्वासिओ जं सो // अत्रैय पूर्व " संखेजमाणो दव्वे भागो लोगपलियस्स बोधव्वो"। इत्यादिना द्रव्यक्षेत्रकाललक्षणत्रयस्य परस्परनिबन्धोऽभिहितः / इह तूत्पादप्रतिपातद्वारमेव प्रसङ्गतो द्रव्यस्यैव गुणेन सहायमुच्यते / न तु क्षेत्रकालयोर्यतो द्रव्याश्रितोऽसौ / ननु क्षेत्रकालाप्रित इति गाथासप्तकार्यः / तदेवाह 1 757 / दव्वा उ असंखेजे, संखे या वि पञ्जवे लहइ। दो पज्जवे दुगुणिए, लहइ एगाउ दव्वाउ // इह परमाण्वादिद्रव्यमेकं पश्यन्नवधिज्ञानी तत्पर्यायानेक गुणकालकादीनुत्कृष्टतोऽसंखेयान् विमध्यमतः संख्येयान् लभते प्राप्नोति पश्यतीति तात्पर्यम्। जघन्यतस्तुद्वौ पर्यायौ द्विगुणिती एकस्मात् द्रव्यात् लभते / सामान्यतो वर्णगन्धरसस्पर्शलक्षणांश्चतुरः पर्यायान् जधन्यत एकस्मिन् द्रव्ये पश्यति। न त्वेकगुणकालकादीन् बहूनित्यर्थः। एकद्रव्यगतानुत्कृष्टतोऽप्यनन्तपर्यायान्न पश्यति / किं त्वसंख्येयानेव अनन्तेषु अनन्तांस्तान्पश्यत्येवेति नियुक्तिगाथार्थः / अथ भाष्यम्। एग दव्वं पिच्छं, खंध मणुं वा सपज्जवे तस्स / उक्कोसमसंखिज्जे, पेच्छएकोइ संखेजे // दो पज्जवे दुगुणिए, सव्वजहण्णेव पेच्छये ते य। वण्णाईया चउरो, नाणं ते पिच्छइ कया // गतार्था एव / अवसितमुत्पादप्रतिपातद्वारम् विशे० स्था० / (7) अवधिप्ररूपणे दण्डकः। जेरइयाणं भंते ! ओही किं आणुगामिए अणाणुगामिए पवडमाणए हियमाणए पडिवाइए अपडिवाइए अवट्ठिए अणवहिए। गोयमा! अणुगामिएनो अणाणुगामिए नो वड्डमाणए नो पडिवाई अपडिवाई अवहिए नो अणवहिए। एवं जाव थणियकुमाराणं पंचिंदियतिरिक्खजोणियाणं पुच्छा। गोयमा ! अणुगामिए वि जाव अणवट्टिए वि। एवं मणूसाण वि वाणमंतरजोइसियवेमाणियाणं जहाणेरइयाणं। आनुगामिकादिचिन्तायां नैरयिकभवनपतिव्यन्तरज्योतिष्कवैमानिका अनुगामिका प्रतिपात्यवस्थिताऽवधयो न त्वनानुगामिका वर्धमानहीयमानप्रतिपात्यनवस्थितावधयस्तथाभवस्वाभाव्यात् तिर्यक्रपञ्चेन्द्रियाणां त्वष्टधावधिरिति / प्रज्ञा० 33 पद। (6) अवधिक्षेत्रप्रमाणं पनकजीवस्थावगाहना अग्रिजीवप्रमाणं च। अथवाऽवधिक्षेत्रप्रमाणमभिधित्सुर्भाष्यकार एव प्रस्तावनामाह ओहिस्स खेत्तमाणं, जहण्णमुक्कोसमज्झिमं तत्थ / पाएण तदादीए, जं तेण जहन्नओ वोच्छं।। अवधेर्यद्विषयभूतं क्षेत्रंतस्य मानं प्रमाणं जघन्यमुत्कृष्टमध्यमं च भवति। तत्र प्रायो यद्यस्मादादौ प्रथमतस्तजघन्य क्षेत्रं भवति / जघन्यक्षेत्रविषयावधिः प्रायेणादौ समुत्पद्यते। तेन कारणेनजधन्यमेव क्षेत्रप्रमाणमादौ वक्ष्ये इति गाथाषट्कार्थः / यथाप्रतिज्ञातमेवाहजावइया तीसमया-हारगस्स सुमुहस्स पणगजीवस्स / ओगाहणा जहन्ना, ओहीखेत्तं जहन्नं तु || यावती यावत्प्रमाणा त्रीन् समयानाहारयतीति त्रिसमयाहारकस्तस्य सूक्ष्मनामकर्मोदयात्सूक्ष्मस्तस्य पनकश्चासौ जीवश्च पनकजीवो वनस्पतिविशेषस्तदवगाहन्ते यस्यां प्राणिनः सावगाहना तनुरित्यर्थः / जघन्या सर्वस्तोका अवधेः क्षेत्रमवधिक्षेत्रंजघन्यं सर्वस्तोकंतुशब्दोऽवधारणे तस्य चैवं प्रयोगः अवधेर्विषयभूतं क्षेत्रं जघन्यमेतावदेवेति नियुक्तिगाथासंक्षेपार्थः / अथ सांप्रदायिकार्थव्याख्यानपरं भाष्यम्। जो जोयणसाहस्सो, मच्छे नियए सरीरदेहम्मि / उववजंतो पढमे, समए संखिवइ आयाम // पतरमसंखिज्जंगुल-भागतणुं मच्छदेहवित्थिण्णं / वीए तइए सूई, संखि वि उ होइ तो पणओ / / उववायाओ तइए, समए जं देहमाणमेयस्स / तण्णेयदव्वभायण-मोहिक्खित्तं जहण्णं तं / / यो मत्स्यो योजनसहस्रो योजनसहस्रायामः स्वदेहस्यैव बाह्यदेशेऽनुत्पद्यमानः प्रथमे समये आयाम संक्षिपति / तं च संक्षिपन् प्रतरं करोतीतिशेषः / कथंभूतमित्याह (असंखेजंगुलभागतति) बाहुल्येनाङ्गुलांसंख्येयभागसूक्ष्ममित्यर्थः / पुनरपि तत्कथंभूतमित्याह / मत्स्यदेहविस्तीर्णशरीरान्तःसंबन्धत्वादूधिस्तिर्यक् यावान्मत्स्यदेहस्य विस्तरस्तावांस्तज्जीवप्रदेशप्रतरस्यापीत्यर्थः / एवं चायाभतो विष्कम्भतश्च मत्स्यशरीरपृथुत्वतुल्योऽङ्गुला