________________ ओहि 145 - अभिधानराजेन्द्रः - भाग 3 ओहि अवधिमतो बहिः बाह्योऽवधिस्तस्य लाभः प्राप्तिरुत्पत्तिस्तस्मिन् बाह्यावधिलाभे भाज्यो भजनीयः कोऽसावित्याह। उत्पादः प्रतिपातस्तदुभयं चैकसमयेन क्व विषये उत्पादादय इत्याह। द्रव्यक्षेत्रकालेष्विति नियुक्तिगाथासंक्षेपार्थः। अथ भाष्यम्। बाहिरओ एगदिसो, फलोही वाहवा असंबद्धो। दवाइसु भयणिजा, तत्तुप्पायादओ समयं / / इह बाह्यावधिरुच्यते। क इत्याह। योऽवधिमत एकस्यां दिशि भवति। अथवा अनेकास्वपि दिक्षु यः फडकायधेरन्योन्यविच्छिन्नः सान्तरो भवति सोऽपि बाह्यावधिस्तद्यथा। अथवा सर्वतः परिमण्डलाकारोऽ-- प्यवधेर्योऽवधिमतोजीवस्याङ्गुलमानादिना क्षेत्रव्यवधानेन सर्वतोऽसंबद्धः सोऽपि बाह्यावधिस्तद्यथेति। तावत् भाष्यकारचिरन्तनटीकाकृतामभिप्रायः / आवश्यकचूर्णिकारस्त्वाह " बाहिरलंभो नाम जत्थ सेवियस्स ओहिनाणं समुप्पन्नं तम्मिट्ठाणे से ओहिनाणं न किंचि पासइतं पुण वाणं जाहे अंतरिय होइ तं जहां / अंगुलेण वा अंगुलपुहत्तेण वा विहत्थीए वा विहत्थीपुहुत्तेण वा एवं जाव संखेज्जेहिं वा असंखेजेहिं वा जोयणेहिं ताहे पासइएस बाहिरलंभो भण्णइ" अनेन भाष्योक्तस्तृतीयपक्ष एव लिखितः। आद्यपक्षद्वयं तु किमुपलक्षणव्याख्यानाचूर्णी द्रष्टव्यमाहोश्विदन्यत्किञ्चित्कारणमिति केवलिनो विदन्तीति। तत्र चैवंविधे बाह्यावधौ एकस्मिन् समये द्रव्यक्षेत्रकालभावेषु विषये उत्पादादयो भजनीया इति कथं भजनीया इत्याहउप्पाओ पमिवाओ, उभयं वा होज एगसमयेणं / कहमुभयमेगसमये, विभागओ तं न सव्वस्स / / इह कदाचिदेकस्मिन् समये उत्पादो भवति। पूर्वः स्वल्पद्रव्यादिविषयो बाह्यावधेरुत्पन्नः सन् वर्धत इत्यर्थः / अधिकान् द्रव्यक्षेत्रकालभावन् पश्यतीति भावः / कदाचित्त्वेकस्मिन् समये हीयतेऽसौ पूर्वदृष्टेभ्यो द्रव्यादिभ्यो हीनास्तान्पश्यतीत्यर्थः / कदाचित्तूत्पादप्रतिपातलक्षणमुःभयमपिएकस्मिन् समये भवेद्यतो बाह्यावधेर्देशावधिरयं ततश्चयदैवैकतो दिक्त्वे बाह्यावधौ तिरश्चीनं सोचलक्षणः प्रतिपातस्तदैवाग्रतो वृद्धिरूप उत्पादो भवति। यदा वाऽग्रतः सोचस्तदैव तिरश्चीनविस्तरः। एवं सान्तरानेकदिक्त्वेऽपि बाह्यावधौ यदैवेकस्यां दिशि अधिकस्योत्पादस्तदैवान्यस्यां प्रतिपातः। एवं वलयाकारे सर्वतो दिक्त्वेऽपि बाह्यावधौ यत्रैव समय एकस्मिन् देशे वलयस्य विस्तराधिक्यलक्षण उत्पादस्तव समये अन्यस्यां दिशि वलयस्य सङ्कोचलक्षणः प्रतिपात इत्यादिप्रकारणोत्पादादयोऽत्रैकस्मिन् समये भजनीयाः / अत्र परः प्राह (कहमुभयमित्यादि) कथमुत्पादप्रतिपातविरुद्धधर्मद्वयलक्षणमुभयमेकस्यैकस्मिन् समये युक्तं न घटते एव एतदिति पराभिप्रायः / अत्रोत्तरमाह (विभागओ तं न सव्वस्सति) इदमुक्तं भवति। यदि हि सर्वस्याप्यवधे-- युगपदेवोत्पादप्रतिपातावभ्युपगम्येयातांतर्हिस्याद्विरोधः। एतच नास्ति विभागतो देशतस्तदभ्युपगमात्कथमित्याहदावानलोव्व कत्थइ, लग्गइ विज्झाइ समयमंतत्तो। / तहकोइ ओहिदेसो,संजायइ नासए विइओ / / 750 // यथा हि दानावलो यदैवैकतः शुष्ककुशस्तम्बादौ लगति दीप्यते / तदैवान्यतो दग्धशुष्कतृणादिके देशे विधमति निर्वाति / तथा अस्यातिबाह्यावधेः सदेशत्वात्कोऽपि देशे जायते वृद्धिमासादयति / अन्यस्तु कोऽपि देशः तस्मिन्नेव समये नश्यति हीयत इति। नेहोत्पादप्रतिपातौ युगपद्विरुध्येते। इति गाथात्रयार्थः / अथैतावेवोत्पादप्रतिपातौ अभ्यन्तरावधौ निरूपयितुमाहअमिंतरलद्धीए, तदुभयं नत्थि एगसमएणं / उप्पापडिवाओ विय, एगयरो एगसमयेणं / / यस्य नैरन्तर्येण सर्वतो भाविनोऽवधेस्तद्वान् जीवोऽभ्यन्तरे वर्तते। असौ अभ्यन्तरावधिरुक्तः तल्लब्धौ तत्प्राप्तौ पुनस्तदुभयं प्रतिपातोत्पादद्वयं युगपदेकसमये नास्ति। अयं हि अभ्यन्तरावधिः प्रदीपप्रभापटलवदवधिमता जीवेन सह सर्वतो नैरन्तर्येण संबन्धो खण्डो देशरहित एकस्वरूपः। अतएवायंसंबन्धावधिर्देशावधिश्चोच्यते। तथा चोक्तंचूर्णी / “तत्थ अभिंतरलद्धि नाम जत्थ सेठियस्स ओहिनाणं समुप्पण्णं ततो ठाणाओ आरब्भ सो ओहिनाणी निरंतरसंबद्ध संखेनं वा असंखेनं वा खित्तओ ओहिणा जाणइ पासइ एस अभिंतरलद्धित्ति"। अस्मिश्चैवंविधे एकस्मिन्नखण्डेभ्यन्तरावधौ एकस्मिन् समये प्रतिपादोत्पातयोरेकतर एव भवति। न तुयुगपदेवोभयं सदेशत्वप्रसङ्गादेकस्यैकदा विरु - द्धधर्मयोगाच्चा तथा हि निरावरणे सर्वतः प्रसृते प्रदीपप्रभापटले एकस्मिन् समये सङ्कोचविस्तरयोरेकतर एव भवति। न त्वेकस्यां दिशि संकोचोऽन्यस्यां तु विस्तर इत्येवं युगपदेकसमये सङ्कोचविस्तरौ भवतः एवमत्रापीति भावः / एतदेवाह ( उप्पापडिवाओ वि येत्यादि ) इति नियुक्तिगाथार्थः। अथ भाष्यमा अभिंतरलद्धीसा, जत्थप्पइ वप्पमव्वसव्वत्तो। संबद्धमोहिनाणं, अभिंतरओवहीनाणी॥ गतार्थव। नवरं संबद्धमिति। अथावधिज्ञानं जीवे संबद्धं सर्वतो भवति। अवधिज्ञानो त्ववधिज्ञानस्याभ्यन्तरतो भवतीति / अथात्रोत्पादप्रतिपातविधिमाहउप्पाओ विगमोवा, दीवस्स व तस्स नोभयं समयं / न भवणनासो समयं, वत्थुस्स जमेगधम्मेणं / अभिहितार्थव। नवरं यद्यस्माद्वस्तुनो द्रव्यस्य एकेन धर्मेण स्वभावेन समकंयुगषत्रैव भवननाशौ उत्पादव्ययौ कदाचनापि भवतः। न ह्यङ्गुलिद्रव्यं येनैव ऋजुत्वधर्मेण ऋजु प्राञ्जलं भवति / तेनैव विनश्यतीति युज्यते। विरुद्धत्वाद्धर्मान्तरेण त्वेकस्यैककालमपियुज्यते। उत्पादव्ययौ यथा तदेवाङ्गुलिद्रव्यं यस्मिन्नेव समये ऋजुतयोत्पद्यते। तस्मिन्नेव समये वक्रतया विनश्यति। द्रव्यतया त्ववस्थितमेवास्त इति तदेवाह। उप्पायव्वयधुवया, समयं धम्मतरेण न विरुद्धा। जह रिउवकंगुलिता, सुरनरजीवत्तणाई वा।। उप्पज्जइ रिउयाए, नासइ वक्त्तणेण तस्समयं / न उचेव तम्मि रिउया, नासो वकत्तभवणं च / / गतार्थे एव / नवरं तत्प्रत्ययः प्रत्येकभिसंबध्यते। तथा ऋजुता वक्रता अडलिताचेत्येतन्त्रितयमपियुगपद्धर्मान्तरेण न विरुद्धं यदिवायथा कोऽपि मृतः साधुर्यस्मिन्नेव समये देवत्वेनोत्पद्यते। तस्मिन्नेव समये नरत्येन विनश्यति। जीवत्वेन पुनरवतिष्ठते। एवमिहापि युगपद्धर्मान्तरेणोत्पादादयो न विरुध्यन्ते। नत्वेकेनैव धर्मेण युगपत्ते युज्यन्ते तदेवाह (न उतम्मि इत्यादि) न पुनरेतत् युज्यते किमित्याह (रिउयेत्यादि) यस्मिन्नेव स