________________ ओहि 144 - अभिधानराजेन्द्रः - भाग 3 ओहि मिश्राणि तुमध्यमानीत्यतस्तीव्रमन्दद्वारमिदमित्यदोषः / अपरस्त्वाह। अनुगामुकाप्रतिपातिफड्डकानांकः परस्परं विशेषः। अननुगामुकप्रतिपातिफड् डुकानां चान्योऽन्यं को भेद इत्यत्राभिधीयते अप्रतिपातिफड डुक-मनुगाम्येव भवति अनुगामुकं त्वप्रतिपाति प्रतिपाति च भवतीति विशेषः। तथा प्रतिपातिपतत्येव पतितमपिच देशान्तरे गतस्य कदाचिजायते। न चेत्थमनानुगामिकमिति नियुक्तिगाथाद्वयसंक्षेपार्थ / 737 / विस्तरार्थ तु भाष्यकार एवाहजालंतरत्थदीपप्पहोवमो फड़ डुगावही होइ। तिव्वो विमलो मंदो, मलीमसो मीसरूवो य॥ अपवरकजालकान्तरस्थप्रदीपप्रभोपमः फड्डुकावधिर्भवति। तत्रच विशुद्धक्षयोपशमजन्यफझुडुकप्रभावोऽवधिर्विमलः स च तीव्र उच्यते। अविशुध्दक्षयोपशमप्रवर्तितश्च / मलीमसः / स च मन्दोऽभिधीयते। मध्यमक्षयोपशमाविष्टस्तत्फडकसमुत्थस्तु मिश्ररूपस्तीव्रमन्दस्वरूप इत्यर्थः। अत एव तीव्रमन्दद्वारमिदमुच्यते। “एगफ वगओगे" इत्युत्तरार्ध व्याचिख्यासुराह। उवओगं एगेण, विदितो सो फड एहिं सर्वहिं। उवउज्जइ जुगवंचिय, जह समयं दोहिं नयणेहिं॥ गतार्था / अथ प्रेर्यमुत्थाप्य परिहरन्नाहकिह नोवओबहूया, भण्णइ न विसेसओ स सामण्णो। तग्गहविसेसविमुहो, धावारोवओगोव्व / / नन्वेवं सत्यवधिमतः कथं नोपयोगबहुता अनेकैः फडकैरुपयुज्यमानत्वादत्रोक्तमेवोत्तरमेकस्मिन्समये जीवस्यैक एवोपयोगो भवति / तत्स्वाभाव्यान्नयनद्वयोपयोगवत्तदनेकफडकै रुपयुज्यमानस्यापि न तस्योपयोगबहुता अथवा भण्यते। अत्रोत्तरम्। अनेकवस्तुविषयोपयोगे ह्येतत्स्याद्यथा। एते हस्तिनो दक्षिणतस्त्वमी वाजिनो वामतस्तु रथाः पुरतः पदातय इत्यादि। न चेहानेकवस्तुविशेषोपयोगोऽस्ति किं तर्हिसामान्योपयोग एव ग्राह्यवस्तुगतविशेषवैमुख्यान्नयनद्वयेन स्कधावारोपयोगवदयं चैक एवोपयोग इति नतद्बहुतेति। फ्ड्याआणुगामीत्यादिविवृण्वन्नाहअणुगामिनिययसुद्धा, ई सेयराई य मीसयाई व। एकेक सो विभिन्नाई,फडाई विचित्ताई॥ इह तावत्फड्डानि त्रिधा भवन्ति। तद्यथा अनुगामीनि 1 नियतान्यप्रतिपातीनीत्यर्थः २शुद्धानि तीव्राणीत्यर्थः३(सेयराइयत्ति ) सेतराणि चैतानि भवन्ति। तद्यथा अनुगामिभ्य इतराण्यननुगामीनि 4 अप्रतिपातिभ्य इतराणि प्रतिपातीनि 5 तीब्रेभ्य इतराणि मन्दानि ६(मीसयाईवत्ति) मिश्राणि चैतानि। अनुगाम्यादीनि भवन्ति। तद्यथा। अनुगाम्यननुगामीनि७ प्रतिपात्यप्रतिपातीनि।तीव्रमन्दानीति (एकेक्कसोभि- | ना इति) एतानि चानुगाम्यादीन्येकैकशो विभिन्नानि भवन्ति। तद्यथा। अनुगामीनि / प्रतिपात्यप्रतिपातिमिश्रभेदात्त्रिधा एवमनुगामीन्यपि त्रिधा / अनुगाम्यननुगामीन्यप्येवं पुनरप्यनुगाम्यादीनि / फ डुकानि तीव्रमन्दमध्यमभेदात्प्रत्येकं त्रिधा वक्तव्यानि / तद्यथा अनुगामीनि तीव्रमन्दमध्यमानि / एवमननुगामीन्यपि एवमनुगाम्यननुगामीनीति (विचित्ता इति) एतानि च जघन्यमध्यमादिभेदाद्विचित्राणि नाना प्रकाराणि / अवस्थितानुगामिकयोर्भेदः अत्र प्रेरकः प्राह निययाणुगामियाणं, को भेओ को व तद्विवक्खाणं। नियओ अणुजाइ नियमा, नियओ नियओ व्व अणुगामी॥ चयइचियपडिवाई, अणाणुगामी चुओ पुणो होइ। नरतिरिगहणं पाउं-जत्तेसु विसोहिसंकिलेसा॥ नियतानुगामिनोरप्रतिपात्यनुगामिनोः फड् डुकयोरित्यर्थः। को भेदो न कश्चिदिति पराभिप्रायको वाऽनुगाम्यप्रतिपात्यविवक्षयोरनुगामिप्रतिपातिनोर्भेदः / अत्रोत्तरमाह। यो नियतोऽप्रतिपाती स चलद्दीपिकेव नियमादन्यत्र गच्छन्तमनुयात्यनुगच्छत्येव यो रुच्यनुगामी सनियतो वा स्यादनियतो वा अप्रतिहतलोचनवदप्रतिपाती वा स्यादुपहतलोचनवत्प्रतिपाती वा स्यादित्यर्थः / प्रतिपक्षभेदमाहे ( चयइचियेत्यादि) च्यवत एव प्रतिपात्येव प्रतिपाती च्युतोऽपि च देशान्तरे जायत इत्यत्र संबध्यते। अनानुगामुकस्तुनैवं स्वरूपोयतोऽसौ यत्र देशे तिष्ठतः समुत्पनस्तत्रैव तिष्ठतश्चयवते न वा च्युतोऽपि च देशान्तरे पुनरप्युत्पत्तिप्रदेशे समायातस्य भवतीति प्रतिपात्यनानुगामुकयोभेदः (नरेत्यादि ) इह तीव्रमन्दद्वारमिदंतीव्रमन्दताच फड्डुकानां विशुद्धिसंक्लेशवशाजायते। विशुद्धिसंक्लेशाश्च तथाविधाः। प्रायस्तिर्यमनुष्येष्वितीह फड्याआगुगामीत्यादि गाथा पर्यन्तं ( मणुस्सतिरिच्छेत्तिं ) नरतिर्यग्ग्रहणं कृतमिति। अथ प्रर्यान्तमुत्थाप्य परिहरन्नाहगहणमणुगामिमाईण किंकयतिट्वमंदचिंताए। पायमणुगामिनियता, तिव्वा मंदा य ज इयरे / / ननु चास्यतीव्रमन्दद्वारवर्तितीव्रमन्दचिन्तायां प्रस्तुतायां किमित्यनुगामिकादिफकग्रहणं कृतमप्रस्तुतैव फकप्ररूपणेति भावः। प्रतिवि-- धानमाह (पायमित्यादि) अनुगामीन्यप्रतिपातीनि नफडकानि यस्मात् प्रायस्तीवाणि भवन्ति / इतराणि त्वनुगामीनि प्रतिपातीनि च प्रायो मन्दानि मिश्राणि तूभयस्वभावान्यतः फडकप्ररूपणायामिति तीव्रमन्दद्वारता गम्यत एवेति। अथ मतान्तरमुपदर्थ्य तस्याप्यविरुद्धतामाहअन्ने पमिवाउप्पा, य दारएआणुगामियाईणि। नरतिरियग्गहणेणं, अहवा दोसु पि न विरुद्धं / अन्ये त्वाचार्याः। “फड्डयअसंखेज्जा" इत्यादिगाथया तीव्रमन्दगारमभिधाय अनन्तरमेव वक्ष्यमाणे प्रतिपातोत्पादद्वारमेव। “फङ्ख्याआणुगामीत्यादि " माथोक्तानुगामुकादीनिदानीमाचक्षते केन कारणेन र एवमाचक्षते इत्याह (नरतिरियग्गहणेणंति) इदमुक्तं भवति। प्रतिपातो. त्पादयोस्तिर्यङ् मनुष्यावधेरेव घटनात्तथैघद्विषयमेव प्रतिपातोत्पादद्वारमतो नरतिर्यग्रहणादेतेऽप्यनुगामिकादयो भेदाः। प्रतिपातोत्पादद्वारान्त विन एवेत्याचार्याभिप्रायः। अथवा द्वयोरपि तीव्रमन्दाप्रतिपातोत्पादद्वारयोरिदमनुगामुकादिभेटकथनमर्थतो न किंचिद्विरुद्धम्। तीव्रमन्दस्वरूपे प्रतिपातोत्पादवति चावधौ अनुगामुकादिर्भदाना घटनादिति गाथाष्टकार्थः // 747 / / गतं तीव्रमन्दद्वारम्। अथ प्रतिपातोत्पादद्वारमाहबाहिरलंभे भजो, दवे खेत्ते य कालभावे य। उप्पापडिवाओ विय, तदुभयं चेगसमएणं / /