SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ओहि 143 - अमिधानराजेन्द्रः - भाग 3 ओहि बुड्डीए चिय वुड्डी, हाणीए न उ विवश्वासो। भागे भागो गणणा, गुणो दव्वाइ संयोगे / इह वृद्धिहानी समाश्रित्य द्रव्यक्षेत्रकालभावानां परस्परं संयोगे चिन्त्यमाने एकस्यद्रव्यादेर्वृद्धावेव तदपरस्य वृद्धिर्जायते। एकस्य हानावेव च तदन्यस्य हानिः प्रवर्तते। नच (विवज्जासोत्ति) नतूक्तस्य विपर्यासो | विपर्ययो मन्तव्यः / एकस्य द्रव्यादेझेनौ अपरस्य वृद्धिः / तथैकस्य द्रव्यादेर्वृद्धौ अन्यस्य हानिरित्येवं लक्षणो विपर्ययः / कदाचिदपि न भवतीत्यर्थः / अथवा गाथामिदमन्यथा व्याख्यायते / एवकारस्य भिन्नक्रमेण योजनात्तद्यथा। एकस्य द्रव्यादेवृद्धौ तदपरस्य वृद्धिरेव न तु हानिलक्षणो विपर्यासो भवति / “काले चउण्हड्डित्ति” वचनादेकस्मिन् वर्धमानेऽपरस्यावस्थानं तु स्यादपि “कालो भइयव्वो खित्तवुड्डीएत्ति" वचनात्तथा एकस्य हानिरेव नतु वृद्धिलक्षणो विपर्यासः। अवस्थानं तु स्यादपीति ( भागे भामोत्ति ) एकस्य क्षेत्रादेरसंख्याततमादिकेभागे | वर्द्धमाने तदपरस्यापि भाग एव वर्धते। अवस्थानं वा भवति। न तु गुणकारेण वृद्धिः / तथा गुणकारेणाप्येकस्य वृद्धौ जायमानायामपरस्यापि तेनैवासौ भवत्यवस्थानं वा जायते। न तु भागेन वृद्धिः / प्रायेण चैतत् द्रष्टव्यं क्षेत्रादेगिन वृद्धावपि द्रव्यादेर्गुणकारेण वृद्धिसंभावादिति / अथ परःप्रेरयति। कह खित्तासंखभागाइ संभवे संभवो न दव्वेत्ति। किह वा दव्वाणंते, पज्जवसंखिजभागाइ।। मनु कथं क्षेत्रस्यासंख्येयभागादिवृद्धौ सत्यां तदाधेयद्रव्याणामप्यसंख्येयभागादिवृद्धेर्न संभवः / कथंवा द्रव्यानन्त्ये द्रव्यस्यानन्तभागवृद्धौ जायमानायां पर्यायाणामसंख्येयभागादिवृद्धिर्द्रव्यानन्तगुणवृद्धौ वा पर्यायाणामसंख्यातगुणादिवृद्धिः प्रतिपाद्यते। इदमुक्तं भवति / क्षेत्राधाराणि हि द्रव्याणि द्रव्याधाराश्च पर्यायाः ततो यादृश्येवाधारस्य वृद्धि - निर्वा तादृश्येवाधेयस्यापि युक्ता तत्कथमिह वैचित्र्यं क्षेत्रस्य चतुर्विधे वृद्धिहानी द्रव्यस्य द्विविधे पर्यायाणां तु षड्डिधे इति। अत्र सूरिराह। खेत्ताणुवत्तिणो पोग्गला गुणा पोग्गलाणुवत्तीय। सामन्ना विनेया, न उ ओहिनाणविसयम्मि।। क्षेत्रानुवर्तिनः पुद्गलाः परमाणुस्कन्धादयः गुणास्तत्पर्यायाः पुद्गलानुवर्तिनः इत्येवमेते सामान्याः सामान्येन विज्ञेयाः / कस्य किल हन्त नैतदभिमतम्। अनभिमतप्रपिषेधं त्वाह। नत्ववधिज्ञानविषयत्वेनैवमेते अभिप्रेताः / इदमत्र हृदयम् / अस्त्येवैतत्सामान्येन को वै न मन्यते। यदुत सामान्यतः समस्तलोकाकाशस्यासंख्येयतमादिके भागे समस्तपुद्गलास्तिकायस्याप्यसंख्येयतमादिक एव भागः स्वरुपेण वर्तते समस्तपुद्रलास्तिकायस्यान्त्यतमादिके भागे समस्ततत्पर्यायराशेरप्यनन्ततमादिभागो वर्तते। अतः क्षेत्रस्यासंख्येयादिभागवृद्धिहान्योरपि तदनुवृत्या तथैव वृद्धिहानी स्याताम् / द्रव्यस्यानन्ततमादिवृद्धिहान्योस्तत्पर्यायाणामपि तदनुवृत्या तथैव वृद्धिहानी भवेताम्। परं किं तत्रावधिज्ञानविषयभूतस्य क्षेत्रादेवृद्धिहानी चिन्तयितुमभिप्रते / ननु सामान्येन स्वरूपस्थस्य एव च विशेषिते ये वृद्धिहानी ते अवधिज्ञानावरणक्षयोपशमाधीनत्वादिचित्रे अतो यथोक्तप्रकारेणैवैते अत्र युक्ते नान्यथेति। एतद्गाथोक्तमेवार्थं प्रपञ्चयन्नाह। दव्वाईसंखेत्ता, उणंतगुणो पन्जवासदवाओ। निययाहारा हीणा, तेसिं वुड्डी य हाणी य / / न उनिययाहारवसा, ओहिनिबंधो जओ परित्तो सो। चित्तो तहण हाविय, आणागज्झो य पाएण।। इह स्वरूपेण तावत्समस्तपुद्गलास्तिकायलक्षणानि द्रव्याधारभूतात्स्वक्षेत्रादनन्तगुणा निवर्तन्ते इति लिङ्गव्यत्ययेनात्रापि योज्यते। एककाकाशप्रदेशेऽनन्तस्य परमाणुद्व्यणुकादिद्रव्यस्थावगाहनात्पर्यवापर्यायाः पुनः स्वाश्रयभूतात्द्रध्यादनन्तगुणाः एकैकस्य परमाण्वादेरनन्तपर्यायत्वादित्येवंभूतं क्षेत्रादिनां स्वरूपं वर्तत इति। स्वरूपकथनमात्रं तावत्कृतं प्रकृतोपयोग्याह (निययाहारेत्यादि) द्रव्यस्य निजकाधारः क्षेत्रं पर्यायाणां तु निजकाधारो द्रव्याणि तदधीना च तेषां द्रव्यपर्यायाणां सामान्येन वृद्धि निश्च भवति / क्षेत्रस्य चतुर्विधायां वृद्धौ हानौ वा द्रव्यस्थापि तथैव ते प्राप्नुतः। द्रव्यस्य द्विविधायां वृद्धौ हानौ वा पर्यायाणामपि तथैव ते युज्यते। इत्येवं यथा परः प्रतिपादयति तथा वयमपि स्वरूपस्थितिसामान्यचिन्तायां मन्यामहे / नाऽत्र विवाद इति भावः / परं किन्तु (न उनिययेत्यादि) न तु निजकाधारवशादवधिनिबन्धोऽवधिविषयो वर्धते हीयते वा यतः परीतः प्रतिनियतोऽसौ यथोक्तरूपेण क्षायोपशमनियमितोऽसौ चित्रक्षायोपशमाधीनत्वाचित्रोऽनेकरूपो यथा युक्तया घटते तथैवायं प्रवर्तते / तामुल्लङ्यान्यथापि वा वर्तत इति नाकान्तः आज्ञाग्राह्यश्च प्रायेणायमित्याज्ञैवात्र प्रमाणं किं स्वेच्छाप्र-- वृत्तशुष्कतर्कयुक्त्योपन्यासेन प्रायो ग्रहणाद्यथासंभवं युक्तिरपि वाच्येति गाथानवकार्थः / गतं चलद्वारम्।। अथ तीव्रमन्दद्वारमभिधित्सुराहफड्डा य असंखेजा, संखेन्जेया वि एगजीवस्स। एगप्फडवओगे, नियमा सय्वतत्थ उवउत्तो।। फड्डा य आणुगामी, अणाणुगामी य मीसया चेव। पडिवाइयपडिवाई, मीसा य मणुस्सतेरिच्छे। अपवरकादिजालकान्तरस्थप्रदीपप्रभानिर्गमस्थानानि चावधिज्ञानावरणे क्षयोपशमजन्यान्यवधिज्ञाननिर्गमस्थानानीह फ्ड्डकान्युच्यन्ते। तानि चैकजीवस्य संख्येयान्यसंख्येयान्यपि च भवन्ति। तत्र चैकपडकोपयोगो जन्तुर्नियमात्सर्वत्र सर्वैरपि फडकैपयुक्तो भवत्येकोपयोगत्वाजीवस्यैकलोचनोपयोगे द्वितीयलोचनोपयुक्तवदिति। एतानि च पहुकानि त्रिधा भवन्ति / तद्यथा अनुगमशीलान्यानुगामुकानि यत्र देशे तिष्ठतोऽवधिमतो जीवस्योत्पन्नानि ततोऽन्यत्रापि व्रजतस्तस्यानुयायिनीत्यर्थः / एतद्विपरीतानि त्वनानुगामुकानि आनुगामुकानुगामुकोभयस्वरूपाणि तु मिश्राणि कानिचिद्देशान्तरानुयायीनि कानिचिन्नेत्यर्थः। एतानि प्रत्येकं च पुनस्त्रिधा भवन्ति। तद्यथा प्रतिपतनशीलानि प्रतिपातीनि कियन्तमपि कालं स्थित्वा ततो ध्वंसनस्वभावानीत्यर्थः / तद्विपरीतानि त्वप्रतिपातीनि आमरणान्तभावीनीत्यर्थः / प्रतिपात्यप्रतिपात्यु भयरूपाणि तु मिश्राणि कानिचित्प्रतिपातीनि कानिचिन्नेत्यर्थः / एतानि च मनुष्यतिर्यक्षु योऽवधिस्तस्मिन्नेव भवन्ति / न देवनारकावधाविति / आह / ननु तीव्रमन्दद्वारे प्रस्तुते फडकावधिस्वरूपं प्रतिपादयतः प्रक्र मविरोध इत्यत्रोच्यते / प्रायोऽनुगामुकाऽप्रतिपातीनि फडकानि तीव्रविशुद्धियुक्तत्वात्तीव्राणि भण्यन्ते / अननुगामिप्रतिपातीनि त्वविशुद्धत्वान्मन्दान्युच्यन्ते /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy