________________ ओहि 142 - अभिधानराजेन्द्रः - भाग 3 ओहि ताक्षयं यावद्यत्र क्वापि (खेत्तेत्ति ) शयनीयाक्रान्तक्षेत्रे देवोऽवगाढोऽवतिष्ठते (तर्हिति)।तत्र क्षेत्रे अस्यावधिः त्रयस्त्रिंशत्सागरोपमाण्यवस्थानं द्रष्टव्यम्। क्षेत्रस्योपलक्षणत्वाइव्येषु च देहशयनीयेष्ववधेरेतावन्तं कालमवस्थानमवसेयमिति / अथोपयोगतो द्रव्यगुणपर्यायेष्ववधेरवस्थानमाहदव्वे भिन्नमुहुत्तं, तत्थ णत्थ हविज खेत्तम्मि। उवओगो न उपरओ, सामत्थाभावतो तस्स। दवे तत्थेव गुणा, संचरओ सत्तवट्ठवासमया। अण्णे पुण अगुणा, भणंति तप्पज्जवे सत्त॥ गतार्थव / नवरं तत्र विवक्षिते क्षेत्रे अन्यत्र वा गतस्यावधिमतो द्रव्यविषयेऽन्तर्मुहूर्तमेवोपयोगो भवति (दव्वेत्यादि) तत्रैव विवक्षिते द्रव्ये ( / गुणत्ति ) गुणेष्वपरापरेषु सञ्चरतः सप्ताष्टौ वा समया नावधेरूपयोगो भवति। अन्ये त्वाहुगुणेष्वष्टौ पर्यायेषु सप्त समयानिति किमित्येवमि-त्याहजह जह सुहुमं वत्थु, तह तह थोवोवओगया होइ। दव्वगुणपजवेसुं, तह पत्तेयं पिनायव्वं / / गताथैवं / अथ लब्धितोऽवस्थानमाहनत्थ णत्थ य खित्ते, दवे गुणपजवोवओगे य। चिट्ठइ लद्धीसा पुण, नाणावरणक्खओवसमो॥ सा सागरोवमाई, छावहिं होइ साइरेगाई। विजयाइ सुदो वारे, गयस्स नरजम्मणा समयं / / गतार्थे / अथोपलब्धिविषयं जधन्यमवस्थानमाह। सध्वजहण्णो समओ, दव्वाईसु होइ सध्वजीवाणं / अत्र नरतिरश्चां समयादूर्ध्वमवधेः प्रतिपातादनुपयोगाद्वा / उभयोप--- लब्ध्यो समयमवस्थानं परोऽवगच्छत्येव। अतः सुरनारकविषयमेतत्पृच्छन् गाथार्द्धमाहस पुण सुरनारगाणं, हविज किह खित्तकालेसु // स पुनः सुरनारकाणां द्रव्यादिष्ववधिलब्ध्युपयोगयोर्जघन्यतः कथं समयावस्थानं क्वतिष्ठतांसुरनारकाणामित्याह (खेत्तकालेसुत्ति) तयोरेव निजक्षेत्रकालयोः तिष्ठतामिदमुक्तं भवति ! अन्यत्र नरतिर्यसंबन्धिन्याधारभूते क्षेत्रे स्वायुष्करूपेच कालेगतानाममीषामपि भवति। द्रव्यादिष्ववधेः समयावस्थानं केवलम्। ते तत्र गताः सुरनारका नभवन्त्येव। किंतु नरतिर्यश्चएवेत्यत उक्तम् / तस्मिन्नेव स्वाधारभूते क्षेत्रे स्वायुष्कचक्षणे च काले तिष्ठतामिति। तत्र हि तिष्ठतां सुरनारकाणामवधेः प्रतिपाताभावात्समयमात्रावस्थानासंभव एवेति भावः। अत्र सूरिराह। चरमसमयम्मि सम्मं, पमिवज्जं तस्स जं चिय विभंग / तं होइ ओहिनाणं,गयस्स वीयम्मि तं पमइ॥ व्याख्याताथैवेति गाथानवकार्थः / 726 / उक्तमवस्थितद्वारम्। अथ चलद्वारमभिधित्सुराहवुड्डी वा हाणी वा, चउविहा होइखेत्तकालाणं / दव्वेसु होइ दुविहा, छविह पुण पञ्जवे होइ।। चलद्वारमिदमुच्यते। चलश्चावधिव्यादिविषयमङ्गीकृत्य वर्धमा नको हीयमानको वा भवति / वृद्धिहानी च षड्विधे सामान्येनागमे प्रोक्ते / तद्यथा / अनन्तभागवृद्धिः 1 असंख्यातभागवृद्धिः 2 संख्यातभागवृद्धिः 3 असंख्यातगुणवृद्धि 4 संख्यातगुणवृद्धिः 5 अनन्तगुणवृद्धिः 6 | अनन्तभागहानिः 1 असंख्यातभागहानिः 2 संख्यातभागहानिः 3 संख्यातगुणहानिः 4 असंख्यातगुणहानिः 5 अनन्तगुणहानिः 6 एतयोश्च षद्विधवृद्धिहान्योश्च मध्यादवधिविषयभूते क्षेत्रकालयोराद्यन्तपदद्वयवर्जिता चतुर्विधा वृद्धि निर्वा भवति। अनन्तभागवृद्धिरनन्तगुणवृद्धि तथा अनन्तभागहानिरनन्तगुणहानिर्वा क्षेत्रकालयोन संभवति / अवधिविषये विषयभूतक्षेत्रस्यानन्त्याभावात् कालस्याप्यवधिविषयभूतस्यानन्तत्वाप्रतिपादनात्तदिदमत्र हृदयं यावत्क्षेत्रं प्रथमावधिज्ञानिना दृष्टं ततः प्रतिसमयमसंख्यातभागवृद्धिं कश्चित्पश्यति कोऽपि संख्यातभागवृद्धिमन्यस्तुसंख्यातगुणवृद्धिम्। अपरस्तु असंख्यातगुणवृद्धि क्षेत्रं पश्यति / एवं हीयमानमपि वाच्यम् / एवं क्षेत्रे वृद्धि हानिर्वा चतुर्धा भवति। इत्थं कालेऽपि चतुर्धा वृद्धिहान्योश्चातुर्विध्यं भावनीयम्। द्रव्येषु पुनरवधिभूतेषु द्विविधा वृद्धि निर्वा भवति / इदमुक्तं भवति / अवधिज्ञानिना यावन्तिद्रव्याणि उपलब्धानि प्रथमंततः परंतेभ्योऽनन्तभागाधिकानि कश्चित्पश्यति / अपरस्तु तेभ्योऽनन्तगुणान्येव तानि पश्यति। न त्वसंख्यातभागाधिक्यादिना वृद्धानि वस्तुस्वाभाव्यादपरस्ततः परं पूर्वोपलब्धेभ्योऽनन्तभागहीनानिद्रव्याणि पश्यत्यन्यस्त्वनन्तगुणहीनान्येव तानि तेभ्यः पश्यति / न त्वसंख्यातभागहीनत्वादिना हीनानि पश्यति। तथा स्वाभाव्यादिति पर्यायेषु पुनः पूर्वोक्ता षड्विविधापि वृद्धि निर्वा भवतीति नियुक्तिगाथासंक्षेपार्थः / 727 / अथ विस्तरार्थ भाष्येणाहवुड्डी वा हाणी वा, णंतासंखिज्जसंखभागाणं / संखिजासंखिज्जाणंतगुणा वेति छन्भेया॥ अनन्तश्चासंख्येयश्च संख्येयश्च ते तथा। तेच ते भागाश्च तेषां वृद्धि - निर्वेत्येवं त्रिविधे प्रत्येकं वृद्धिहानी भवतोऽपरमप्यनयोः प्रत्येकं त्रैविध्यमित्याह ( संखिज्जेत्यादि) गुणशब्दः प्रत्येकमभिसंबध्यते / ततश्च संख्यातगुणा अनन्तगुणाश्चेत्येवं त्रिविधे प्रत्येकंवृद्धिानिश्चेत्थं वृद्धिहान्योः प्रत्येकं पूर्वदर्शितं षड्डिधत्वं भावनीयमिति / तदेवं वृद्धिहान्योः प्रत्येकं षड्विधत्वं सामान्येनोपदर्थेदानी क्षेत्रकालयोवृद्धिहान्योश्चातुर्विध्यस्य भावार्थ दर्शयन्नाहपइसमयमसंखिज्जइ, भागहियं कोइ संखभागहियं / अन्नो संखेजगुणं, खित्तमसंखिजगुणमण्णो॥ पेच्छह विवड्डमाणं, हायंतं वा तहेयकालं पि। नाणंतवुड्डिहाणी, पेच्छइ जं दो वि नाणं तं / / गतार्थे इव। नवरं क्षेत्रकालयोनिन्ते वृद्धिहानीकुत इत्याह (पेच्छ इत्यादि) यद्यस्मात् द्वावपि क्षेत्रकालौ नानन्तौ अवधिज्ञानी पश्यति / पूर्वोक्तयुक्ते रिति / अथ द्रव्यविषये प्रत्येकं द्विविधवृद्धिहानी पर्यायविषयां तु वृद्धि हानिच प्रत्येकं षडिधामाह “दव्यमणतं सहियं, इति अनन्ततमोऽशो भागोऽनन्तांशस्तेनाधिकं द्रव्यं कश्चितपश्यतीति / एतेषां च द्रव्यक्षेत्रकालभावानां परस्परसंयोगे चिन्त्यमाने एकस्य वृद्धवेवापरस्य वृद्धिर्न त्वैकस्य हानौ अन्यकस्य वृद्धिः / एकस्य हानावेवापरस्य हानिन त्वेकस्य वृद्धौ अपरस्यहानिर्भवति / अपरं चैकस्य द्रव्यादेर्भागेन वृद्धौ हानौ वा जायमानायामपरस्यापि भङ्गेनैव वृद्धिहानी प्रायो न तु गुणकारेण गुणकारेणाप्येकस्य वृद्धिहान्योः प्रवर्तमानयोरपरस्यापि प्रायस्तेनैव ते प्रवर्तते इति दर्शयन्नाह