________________ ओहि 141 - अमिधानराजेन्द्रः - भाग 3 ओहि पसंहारहेतवो भानवः स्वावपातदेशास्पदं द्रव्यमुद्योतयन्ति। तथा प्रकृतिभासुरस्यात्मनो मिथ्यात्वादिहेतूपचयोपजनिताऽवधिज्ञानावरणपटलतिरस्कृतस्वरूपस्य संसारे परिभ्रमतः कथञ्चिदेवमेवतथाविधशुभाध्यवसायप्रवृत्तितोऽवधिज्ञानावरणसंबन्धिनां सर्वघातिरसस्पर्द्धकानां देशघातिरसस्पर्धकया जातानामुदयावलिकाप्राप्तस्यांशस्य परिक्षयतोऽनुदयावलिकाप्राप्तस्योपशमतः समुद्भूतेन क्षयोपशमरूपेण रन्ध्रण विनिर्गतोऽवधिज्ञानालोकः प्रसाधयति / स्वकार्य कदाचित्पुनविशिष्टगुणप्रतिपत्तितः सर्वधातीनिरसस्पर्द्धकानिदेशघातीनि भवन्ति। तथा चाह ( अहवेत्यादि) अथवेति प्रकारान्तरोपदर्शनेन प्रकारान्तस्ता च गुणप्रतिपत्तिमन्तरेणेत्यपेक्ष्य द्रष्टव्या / गुणाः मूलोत्तररूपाः तान् प्रतिपन्नो गुणप्रतिपन्नः। अथवा गुणैः प्रतिपन्नः पात्रमिति कृत्वा गुणैराप्रितो गुणप्रतिपन्नः अनेन पात्रतायां सत्यां स्वयमेव गुणा भवन्तीति। प्रतिपादयति उक्तञ्च / " नोदन्वानर्थितामेति, न चाम्भोभिर्न पूर्यते / आत्मा तु पात्रतां नेयः, पात्रमायान्ति संपदः / 11 अगारं गृहं न विद्यते अगारं यस्यासावनगारः। परित्यक्तद्रव्यभावग्रह इत्यर्थः / तस्य प्रशरतेष्वध्यवसायेषु वर्तमानस्य सर्वघातिरसस्पर्द्धकेषु देशघातिरसस्पर्धकतया जातेषु पूर्वोक्तक्रमेण क्षयोपशमभावतोऽवधिज्ञानमुपजायते / मनःपर्यायज्ञानावरणीयस्यतु विशिष्टसंयमाप्रमादादिप्रतिपत्तावेव सर्वघातीनि रसस्पर्धकानि देशघातीनि भवन्ति ! तथा स्वभाव्यात्तच तथा स्वभाव्यं बन्धकाले तथा रूपाणामेव तेषां बन्धनात् ततो मनःपर्यवज्ञानं विशिष्टगुणप्रतिपन्नस्यैव वेदितव्यम्। मतिश्रुतावरणाचक्षुर्दर्शनावरणान्तरायप्रकृतीनां पुनः सर्वधातीनि रसस्पर्द्धकानि। येनतेन वाध्यवसायेनाध्यवसायानुरूपं देशघातीनि स्पर्धकानि भवन्ति / तेषां तथा स्वभाव्यात् ततो मतिज्ञानावरणादीनांसदैव देशघातिनामेव रसस्पर्द्धकानामुदयः। सदैव च क्षयोपशमः / उक्तञ्च / पञ्चसंग्रहमूलटीकायाम् मतिश्रुतावरणाचक्षुर्दर्शनावरणान्तरायप्रकृतीनांच सदैव देशघातिरसस्पर्द्धकानामेवोदयः। ततस्तासां सदैवौदयिकक्षायोपशमिको भावाविति कृतं प्रसङ्गेन। नं०। स्था० / प्रज्ञा० / भ०। (6) आनुगामिकादि षट् भेदाः। तं समासओ छव्विहं पण्णत्तं / तं जहा आणुगामियं 1 अणाणुगामियं 2 वड्डमाणयं ३हीयमाणयं 4 पडिवाईयं 5 अप्पडिवाईयं 6 / एतेषां षण्णां भेदानामर्थाः। सभेदाः अनुगामिकादिशब्देषूक्ताः वक्ष्यन्ते च नवरमिह। अणुगामिओय ओही, नेरइयाणं तहेव देवाणं / अणुगामि अणणुगामी, मीसो य मणुस्सतेरिच्छे॥ अनुगमनशील आनुगामुको यःसमुत्पन्नोऽवधिः स स्वामिनं देशान्तममिव्रजन्तमनुगच्छति। लोचनवदसौ आनुगामुक इत्यर्थः। ईदृश एवावधिर्भवति केषामित्याह / नारकाणां तथादेवानां चेति। तथा आनुगामुक उक्तस्वरूपः अनानुगामुकस्त्ववस्थितशृङ्खलानि यन्त्रितप्रदीपवद्विपरीतः यस्य तूत्पन्नस्यावधेर्देशो व्रजति / स्वामिना सहान्यत्र देशस्तु प्रदेशान्तरचलितपुरूषस्योपहतैकलोचनवदन्यत्र न व्रजति असौ मिश्र उच्यते। एष त्रिविधोऽप्यवधिर्मनुष्यतिर्यक्षुध भवतीति। नियुक्तिगाथार्थः / अथ भाष्यम्। अणुगामिओणुगच्छंवं लोयणं जहा पुरिसं इयरो य नाणुगच्छइ ठियपइय्यो य्व गच्छंतं / उभयसहावो मीसो देसो जस्साणुजाइ नो अन्नो कासइ गयस्स कत्थइ एगं उवहम्मइ जहत्थिं / गतार्थे एव उक्तमानुगामुकद्वारम्। अथावस्थितद्वारमुच्यते। अवस्थितं चावधेराधारभूतक्षेत्रत उपयोगतो लब्धितश्च चिन्तनीयम्। तत्र क्षेत्रत उपयोगतश्चाहखित्तस्स अवट्ठाणं, तेत्तीसं सागराउ कालेणं। दवे मिन्नमुहुत्तो, पञ्जवलंभे य सत्तट्ठ। अवधेराधारपर्यायेण क्षेत्रस्यावस्थानं त्रयस्त्रिंशदेव सागरोपमानि कालेन कालमाश्रित्य भवन्ति / इदमुक्तं भवति / अनुत्तरसुरा यत्र क्षेत्रे जन्मसमये अवगाढास्तत्रैवाभवक्षयमवतिष्ठन्तेऽतस्तत्संबन्धिनोऽवधेरेकत्र क्षेत्रे त्रयस्त्रिंशत्सागरोपमलक्षणकालमवस्थानं संपद्यते।उपयोगस्त्ववधेःसुरनारकपुद्गलादिके द्रव्ये द्रव्यविषयमुपयोगमाश्रित्य तत्रान्यत्र वा क्षेत्रे भिन्नमुहूर्तमेवावस्थानं न परतः सामार्थ्याभावादिति। तत्रैव द्रव्ये ये पर्यवाः पर्यायधर्मास्तल्लाभे पर्यायात्पर्यायान्तरं च सञ्चरतोऽवधेस्तदुपयोगे सप्ताष्टौ वा समयानवस्थानंन परतः। अन्येतुव्याचक्षते। पर्यायात् द्विधा गुणाः पर्यायाश्च तत्र सहवर्तिनो गुणाः शुक्लादयः क्रमवर्तिनस्तु पर्याया नवपुराणादयस्तत्र गुणेष्वष्टौ समयानवध्युपयोगावस्थानं पर्यायषु सप्तसमयानीति स्थूलं हि द्रव्यं तेन तत्रान्तर्मुहूर्तं तदुपयोगस्थितिगुणास्ततः / सूक्ष्मास्तेनैतेष्वष्टौ समया न गुणेभ्योऽपि पर्यायाः सूक्ष्मा इति। तेषु सप्तसमयान्यावदिति भावः। अथ लब्धितोऽवध्यवस्थानमाहअद्धाए अवट्ठाणं, छावडिं सागराउ कालेणं। उकोसगं तु एयं, एकोसमओ जहन्नेणं / / इहाद्धाशब्देनावधिज्ञानावरणक्षयोपशमलाभरूपा या लब्धिरभिप्रेता सा च तत्रान्यत्र वा क्षेत्रे तेष्वन्येषु वा द्रव्यादिषु युक्तस्य वा भवति / अथैतस्यावधिज्ञानावणक्षयोपशमलाभरूपाया लब्धेर्निरन्तरमवस्थानं वक्ष्यमाणभाष्ययुक्त्या षट्षष्टिः सागरोपमाणि कालेन कालमाश्रित्य भवन्ति / तुशब्दस्य विशेषणार्थत्वान्नरभवसंबन्धिना कालेनैतान्यधिकानि द्रष्टव्यानि। इदं चाबाधद्रव्यादिषूपयोगस्य लब्धेश्चान्तमुहूर्तादिकमवस्थानमुत्कृष्टं द्रष्टव्यम् / जघन्यतस्त्वेक एव समयो मन्तव्यः / तत्र नरतिरश्चां समयादूर्ध्वमवधिः प्रतिपातादनुपयोगाद्वाऽसौ विज्ञेयो देवनारकाणां तु येषां भवस्य चरमसमये सम्यक्त्वलाभाद्विभङ्गज्ञानमवधिरूपतया परिणमति। ततः परं च मृतानां तदविधज्ञानं च प्रच्यवते तेषामेष द्रष्टव्यः। इति नियुक्तिगाथाद्वयार्थः। 717 / अत्र भाष्यम्। आहारे उवभोगे,लद्धीए वा हविज्ज वत्थाण। आहारो से खित्ते, तेत्तीसा सागरा तत्थ विजयाइसूववाए, जत्थो गाढो भवक्खओ जाव। खित्ते व तिट्ठइतहिं, दव्वेसु देहसयणेसु // आधारोपयोगलब्धिविषयमवधेरवस्थानं भवेत्तत्राधारः ( से ) तस्यावधेः क्षेत्रं मन्तव्यं (तत्थत्ति ) तत्राधारभूते क्षेत्रे त्रयस्त्रिंशत्सागरोपमाण्यवधेरवस्थानमिति शेषः / कः पुनः क्षेत्रे एतावन्तं कालमवधिरवतिष्ठत इत्याह / विजयादिष्वनुत्तरविमानेषूपपा