________________ ओहि 136 - अभिधानराजेन्द्रः- भाग 3 ओहि कार्यः॥ 14 // एवमनेन प्रकारेणैता अनन्तरोक्ताः प्रतिपत्तयः। प्रतिपादनानि परिच्छित्तय इत्यर्थः / कथं पुनरस्यायं निक्षेपश्चतुर्दशविध इत्याह भाष्यकारः। गइपलत्ता चोइस, रिद्धी व समुचियत्ति पंचदसी। ओहीपयं पि व मोत्तुं, सेयरमणुणामिउं काउं॥ केई चोइसमेयं, भणंति ओहित्ति न पयडिजम्हा। पयडीण य निक्खेवो,जं भणिओ चउद्दस विहोत्ति॥ अवध्यायाः गतिपर्यन्ताश्चतुर्दश निक्षेपाः ऋद्धिस्तु चतुर्दशविधनिक्षे-- पमध्ये न भवति। किंतर्हि "इड्डिपत्तेयवोच्छामी"त्यत्रचसमुचितत्वात्। पृथग्भूता पञ्चदशी। अथवा (ओहीखेत्तपरिमाणे ) इत्यत्राद्यमवधिपदं मुत्वा अनुगमनशीलमनुगामुकं सेतरं सप्रतिपक्षं कृत्वा अनुगामिकमनुगामुकसहितमर्थतो गणयित्वेत्यर्थः / केचनाप्याचार्याश्चतुदर्शविधनिक्षेप पूरयन्ति। किमितिातेएवं व्याख्यानयन्तीत्याह (ओहीत्यादि)अवधियस्मान्न प्रकृतिः किंत्ववधेरेवेह प्रकृतयो विचारयितुं प्रक्रान्ताः कुत इत्याह / यतः प्रकृतीनामेव चतुर्दशविधो निक्षेप उक्तः। अविरुद्धं चैतदपि व्याख्यानमत्र च पक्षेऽवधिशब्दःसर्वत्र विशेषणतयैव योजनीयोऽवधेः क्षेत्रपरिमाणमबधेः संस्थानमित्यादीनीति गाथाद्वयार्थः / विशे०। प्रकारान्तरतो द्वारसंग्रहः। भेदविसयसंठाणे, अभितरवाहिरे य देसोही। ओहिस्सयखयबुड्ढी, पडिवायं चेव पडिवादी॥ अवधिरवधिज्ञानस्य प्रागनिरूपितशब्दार्थस्य प्रथमं भेदतो वक्तव्यस्ततो विषयस्तदनन्तरं संस्थानमवधिना द्योतितस्य क्षेत्रस्य यस्तत्रादिरूप आकारविशेषः सोऽवधिनिबन्धन इत्यवधेः संस्थानत्वेन व्यपदिश्यते। तथा द्विविधोऽवधिर्वक्तव्यस्तद्यथा। आभ्यन्तरो बाह्यश्च / तत्र योऽवधिः सर्वासु दिक्षु स्वद्योत्यक्षेत्र प्रकाशयति।अवधिमता च सह सातत्येन ततः स्वद्योत्यं क्षेत्रं संबद्धं सोऽभ्यन्तरावधिरेतद्विपरीतो बाह्यावधिः। स च द्विधा तद्यथा अन्तर्गतो मध्यगतश्च। प्रज्ञा०३२ पद। यदा अवधिना द्योतितं क्षेत्रमवधिमता संबद्धं भवति। तदा सोऽभ्यन्तरावधिर्मतः। सर्वदिगुपलब्धक्षेत्रमध्यवर्तित्वात्। एष चेहन ग्राह्योऽभ्यन्तरावधावस्यान्तर्भावात्। यदा तु तदुद्योतितं क्षेत्रमपान्तराले व्यवच्छिन्नस्वात् अवधिमता संबन्धं न भवति / तदा ब्राह्योऽवधिरेष चेह ग्राह्यः / प्रस्तुतत्वात् तथा ( देसोहीइत्ति ) देशावधिर्वक्तव्य उपलक्षणमेतत् / प्रतिपक्षभूतसर्वावधिश्च / अथ किंस्वरूपो देशावधिः / किंस्वरूपो वा सर्वावधिरिति / उच्यते इहावधिस्विविधो भवति / तद्यथा सर्वजघन्यो मध्यमः सर्वोत्कृष्टश्चातत्र यः सर्वजघन्यः स द्रव्यतोऽनन्तानि तैजसभाषणान्तरालवर्तीनिद्रव्याणि क्षेत्रतोऽङ्गुलसंख्येयभागं क्षेत्रं कालतोऽतीतमनागतंचावलिकायाः संख्येयं भागम्। इहावधिक्षेत्रं कालंचस्वरूपतः साक्षान्न जानाति। तयोरमूर्तत्वादवधेश्वरूपिविषयत्वात् “रूपिष्ववधिरिति " वचनात् / इह क्षेत्रकालदर्शनमुपचारतो वेदितव्यम् / किमुक्तं भवत्येतावति क्षेत्रे काले चयानि द्रव्याणि तानिजानातीति। भावतोऽनन्तान् पर्यायान् जानाति। प्रतिद्रव्यं जघन्यपदेऽपि चतुर्णा रुपरसगन्धस्पर्शरूपाणां पर्यायाणामवगमात् / " दो पज्जवे दुगुणिए सव्वजहन्नउ पिच्छए तेउवन्नाइया चउरो" इति वाचनात् / द्रव्याणां चानन्तत्वात्। अत ऊर्ध्वं तु प्रदेशवृद्ध्यासमयवृद्ध्या च प्रबर्द्धमानोऽवधिर्मध्यमो | वेदितव्यः / स च तावत् यावत् सर्वोत्कृष्ट परमावधिन भवति सर्वोत्कृष्टपरमावधिद्रव्यतः सर्वाणि रूपिद्रव्याणि जानाति क्षेत्रतो लोकालोकमात्राणि खण्डानि / कालतोऽतीतानागताश्वासंख्येया उत्सर्पिण्यवसर्पिणीभावतोऽनन्तान् पर्यायान् / प्रतिद्रव्यं संख्येयानामसंख्येयानां च पर्यायाणामवगमात् / " एग दव्वं पेच्छं, खंधमणुं वा पज्जवे तस्स / उक्कोसमसंखेज्जे, संखेजे पेच्छ एक्कोइ " इति वचनात् / तत्र सर्वजधन्यो मध्यमश्च देशावधिः सर्वोत्कृष्टस्तु परमावधिः सर्वावधिः तथाविधे क्षयवृद्धी वक्तव्ये। किमुक्तं भवति। हीयमानकः प्रवर्द्धमानकश्चावधिर्वक्तव्य इति प्रज्ञा०३३ पद। (4) पुनर्नामादिसप्तविधौ निक्षेपः। अथ प्रथमव्याख्याभिमताद्यद्वारव्याचिख्यासया प्राह / नामं ठवणा दविए, खेत्ते काले भवे य भावे य। एसो खलु ओहिस्स, निक्खेवो होइ सत्तविहो।। नामस्थापनाद्रव्यक्षेत्रकालभवभावभेदादेष खल्ववधिनिक्षेपः / सप्तविधो भवतीति। नियुक्तिगाथासंक्षेपार्थः। अथ विस्तरार्थं विभणिषुर्भाष्यकार: प्राह ओहित्ति जस्सनामं,जह मजायावहित्ति लोगम्मि। ठवणाविहिनिक्खेवो, होइ जहक्खाइ विनासो // यस्य जीवादिपदार्थस्यावधिरिति नाम क्रियते / असौ नाम्ना नाममात्रेणावधिर्नामावधिरुच्यते / यथा लोके मर्यादावधिरभिधीयते / स्थापनया स्थापनामात्रेणावधिः स्थापनावधिर्भवति। कोऽयमित्याह। निक्षेपो विन्यासोऽवधेरेव वस्त्वन्तरे इतिगम्यते। क यथेत्याह। यथाऽक्षादौ विन्यासो निक्षेपोऽवधिरक्षादिविन्यास इति। प्रकारान्तरेण नामस्थापनावधी प्राहअहवा नामं तस्सेव जमभिहाणं सपज्जओ तस्स। ठवणागारविसेसो, तद्दट्टा खित्तसामीणं / अथवा (नामंति) नामावधिरुच्यते। यत्किमित्याह। तस्यैव प्रकृतस्यावधिज्ञानस्य यदवधिरिति वर्णावलीमात्ररूपमभिधानं संज्ञेति / नामैवावधिर्नामावधिरिति कृत्वा तच्चावधिरित्यभिधानं तस्यावधिज्ञानस्य वचनरूपःस्वपर्याय इति मन्तव्यम्।स्थापनावधिस्त्वाकारविशेषो भण्यते। केषामित्याह / तस्यावधिज्ञानस्य द्रव्यं विषयभूतं भूभूधरादिक्षेत्रंतु भरतादिस्वामित्वाधारभूतसाध्वादिरेतेषामाकारविशेषः स्थापनावधिः / विषविषयभावादिसंबन्धित्वेनैतेषामाकारेऽवधिः / स्थाप्यत इति भावः। पूर्वं मर्यादाऽक्षादाववधिज्ञानासंबन्धेऽपि नामस्थापने प्रोक्ते। अत्र त्यभिधानद्रव्याद्याकारयोरवधिज्ञानसंबन्धयोस्ते अभिहिते इति विशेष इति / अथ द्रव्यावधिरुच्यते। सच द्विविध आगमतो नो आगमतश्च / तत्रागमतोऽवधिपदार्थज्ञस्तत्र चानुपयुक्तोऽनुपयोगो द्रव्यमिति वचनात् द्रव्यावधिः / नो आगमतो ज्ञशरीरद्रव्यावधिश्च ज्ञशरीरभव्यशरीरव्यतिरिक्तं तु द्रव्यावधिं भाष्यकारः स्वयमेवाह। दव्वोही उप्पज्जइ, जत्थ तओ जंच पासए तेणं। जंवोबगारि दव्वं, देहाइ तदुद्भवे होइ॥ तद्रव्यं द्रव्यावधिर्भण्यते (उपज्जइ जत्थ तओयंत्ति ) यत्र विपुला अचलशिलादौ कायोत्सर्गादिस्थितस्य साध्वादेस्तत्कोऽसौ अवधिरूत्पद्यते / यद्वा भूभूधरादिकं रूपि द्रव्यं तेनावधिना साध्वादिः पश्यति तत् द्रव्यावधिरुच्यते / यद्वा तस्यावधेरुद्भवे