________________ ओहि १३८-अभिधानराजेन्द्रः - भाग 3 ओहि कृतयो भवन्ति। तर्हि (संखाइयाओ खल्वित्ति) विरुध्यते इति चेन्नैवम्। अनन्तस्यापि संख्यातीतत्वात् व्यभिचारादतः संख्यातीतशब्देनासंख्याता अनन्ताश्च प्रकृतयो गृह्यन्त इत्यविरोधः / एतासु च प्रकृतिषु मध्ये काश्चनान्यतमा भवप्रत्ययाः भवो नारकादिजन्म स पक्षिणां गगनोत्पतनलब्धिरिवोत्पत्तौ प्रत्ययः कारणं यासांता भवप्रत्ययाः। ताश्च नारकामराणामेव कांश्चन पुनरन्यतमाः क्षयोपशमेन निवृत्ताः क्षायोपशमिकाः / तपःप्रभृतिगुणपरिणामाविर्भूतक्षयोपशमप्रत्यया इत्यर्थः / एताश्च तिर्यङ्मनुष्याणामिति आह / क्षायोपशमिकभावेऽवधिज्ञानं पठ्यते / नारकादिभवश्चौदयिकः स कथं तत्प्रकृतीनां प्रत्ययः स्यादित्यत्रोच्यते / मुख्यतस्ता अपि क्षयोपशमनिबन्धना एव केवलं सोऽपि क्षयोपशमस्तस्मिन्नारकामरभवे सत्यवश्यं भवतीति कृत्वा भवप्रत्ययास्ता उक्ता इति। अथ सामान्यरूपतयोद्दिष्टानां संख्यातीतानामवधिप्रकृतीनांवाचः क्रमवर्तित्वात्। आयुषश्चाल्पत्वाद्यथावद्भदेन प्रतिपादनसामर्थ्यमात्मनोऽपश्यन्नाहकत्तो मे वन्नेउ, सत्ती ओहिस्स सव्वपयडीओ। चउदसविहनिक्खेवं, इड्डीपत्ते य वोच्छामी॥ कुतो मम वर्णयितुं शक्तिरवधेः सर्वप्रकृतीरायुषः परिमितत्वाद्वाचः क्रमवर्तित्वात् / तथापि विनेयगणानुग्रहार्थ चतुर्दशविधश्वासौ निक्षेपश्च चतुर्दशविधनिक्षेपस्तमवध्यादिकं चतुर्दशविधनिक्षेपं वक्ष्यामि। आमपौषध्यादिका ऋद्धिः प्राप्ता यैस्ते प्राप्तर्धयस्तां च वक्ष्यामि / इह गाथाभङ्गभयाद्व्यत्ययोऽन्यथा निष्ठान्तस्य बहुव्रीही पूर्वनिपात एव भवतीति / नियुक्तिगाथाद्रयार्थः / अत्र प्रथमगाथापूर्वार्धव्याख्यानार्थ भाष्यम्। तस्स जमुक्कोसयखेत्तकालसमयप्पएसपरिमाणं। तण्णेयपरिच्छिन्नं, तं चिय से पयडिपरिमाणं // संखाई यमणंतं, च तेण तमणंतपयडिपरिमाणं। पेच्छह पोग्गलकायं, जमणंतं पएसपज्जायं / / तस्यावधेरसंख्येयाः प्रकृतयः कुत इत्याह। यतः (तं चिय से पयडिपरिमाणंति) (से) तस्यावधेस्तदेव प्रकृतीनां भेदपरिमाणं यत्किमित्याहा यदुत्कृष्ट क्षेत्रप्रदेशपरिमाणं यच्चोत्कृष्ट कालसमयपरिमाणमित्येवं यथासंभवं संबन्धः / क्षेत्रस्यैव प्रदेशानां युज्यमानत्वाद्गाथाभङ्गभयाद्य समयनिर्देशादनन्तरप्रदेशनिर्देशः आह / ननूत्कृष्ट क्षेत्रप्रदेशकालसमयपरिमाणमनन्तमपि भवति / नेत्याह / तज्ज्ञेयपरिच्छिन्नं भावप्रधानोऽयं निर्देशस्ततश्च तस्यावधेर्तेयं तद्भावस्तज्ज्ञेयत्वं तेन परिच्छिन्नं नैयत्ये व्यवस्थापितं तच्च वक्ष्यमाणप्रकारेणाकुलासंख्येयभागदारभ्य यावदसंख्येयलोकाकाशप्रदेशास्तथावलिका असंख्येयभागादारभ्य यावदसंख्येयोत्सर्पिण्यवसर्पिणीसमयानीति। एतच्च क्षेत्रप्रदेशकालसमयानामसंख्येयपरिमाणमतः क्षेत्रकालक्षणा ज्ञेयापेक्षयाऽवधेरसंख्येयाः प्रकृतय इति। अथ खलुशब्देन विशेषणार्थेन सुचितास्तस्यानन्ताः प्रकृतीदर्शयति (संखाईत्यादि ) संख्यातीतं न केवलमसंख्येयमुच्यते। किं तर्हि अनन्तं च तस्यापि संख्यातीतत्वाद्ध्यद्यभिचारात्तेन तदवधिज्ञानमनन्तप्रकृतिपरिमाणमपि भवति। यद्यस्मात्तत्प्रेक्षते पश्यति। समस्तमपि पुगलास्तिकायं कथंभूतमित्याह। अनन्तदेशमनन्तपर्यायं च सत्यनन्तद्रव्यपर्यायलक्षणक्षयापेक्षयाऽवधेरनन्ताः प्रकृतय इति! अथ प्रथमनियुक्तिगाथोत्तरार्धं व्याचिख्यासुराह / भवपबइया नारयभुराण पक्खीण वा नभोगमणं। गुणपरिणामनिमित्ता, सेसाणखओवसमियाओ। गताथैव नवरं ( पक्खीणवत्ति ) वाशब्द इवार्थे नभोगमनमिवेत्यत्र -संबध्यते। अथाक्षेपपरिहारायाह ओहीखओवसमिए, भावे भणिओ भवो तहोदइए। तो किह भवपचइओ, वोत्तुं जुत्तोवही दोण्हं / / सो विहु खओवसमिओ, किंतुं स एव ओवसमलाभो। तम्मिसअहोअवस्सं, भण्णइ भवपचओ तो सो॥ व्याख्यातार्थे एव नवरं (दोण्हत्ति) सुरनारकाणां सोऽपि सुरनारकावधिः (खओवसमओत्ति ) क्षयोपशमादेव स च तस्मिन् सुरनारकभवे सत्यवश्यं भवत्यतोऽसौ सुरनारकावधिर्भवप्रत्ययो भण्यते। ननु कर्मणः क्षयोपशमादयः किं भवादिनिमित्ता भवन्तीत्याहउदयखयखओवसमो-वसमा विय जंच कम्मणो भणिया। दव्वं खित्तं कालं, भवं च भावं च संपप्पा / / यतः सक्चन्दनाहिविषादिद्रव्यादीनि प्राप्य प्राणिनां सुखदुःखोदयादयस्तीर्थकरगणधरैरागमे भणिताः प्रत्यक्षतो दृश्यन्तेच। अतः सुरनारकाणां तद्भवमपेक्ष्यावधिः क्षयोपशमिकोऽप्यवश्यं भवतीति। अथ द्वितीयनियुक्तिमाथाव्याख्यानभाष्यम्।। इयसव्वपयडिमाणं, किह कमवसवण्णवत्तिणीवाया। वोच्छित्ति सव्वं सव्वा-उणाइसंखिनकालेण / / गताथैवेति गाथा सप्तकार्थः आह(३) चतुर्दशविधो निक्षेपो द्वारसंग्रहश्च तत्र जघन्यादिभेदाः। अथ चतुर्दशविधं निक्षेपं दर्शयामि। ओहिखेत्तपरिमाणे, संठाणे आणुगामिए। अव्वहिए चले तिव्व-मंदपयभि वाउप्पयाइय॥ णानदंसणविन्भंगे, देसे खित्ते गई इय। इडिपत्ताणुओगे य, एमेया पडिवत्तिओ। इहावध्यादीनि गतिपर्यन्तानि चतुर्दश द्वाराणि / ऋद्धिस्तु चशब्दसमुचितत्वात् पञ्चदशचतुर्दश विधिनिक्षेपस्योपरिष्टात्पश्चाद्रक्ष्यते। तत्रावधिर्नामस्थापनादिभेदभिन्नो वक्तव्यः।। 1 / / तथा अर्थवशाद्विभक्तिविपरिणाम इत्यवधिजघन्यमध्यमोत्कृष्टभेदभिन्न क्षेत्रपरिमाणं वक्तव्यम् // 2 // तथाऽवधेः संस्थानं वाच्यम् // 3 // तथाऽनुगमनशील आनुगामिकोऽवधिः सप्रतिपक्षो वाच्यः॥ 4 // तथा द्रव्यादिषु कियन्तं कालमप्रतिपतितः सन्नुपयोगतो लब्धितश्चास्ते इत्येवमवस्थितोऽवधिर्वक्तव्यः 1 // 5 // तथा वर्धमानतया हीयमानतया चञ्चलोऽनवस्थितोऽवधिर्वक्तव्यः // 6 // तथा तीव्रो मन्दो मध्यमश्चावधिर्वक्तव्यः॥७॥तथा तीव्रो विशुद्धः मन्दोऽविशुद्धः इतरस्तूभयप्रकृतिः। तथा द्रव्याद्यपेक्षया एककाले प्रतिपातोत्पादौ अवधेर्वक्तव्यौ॥८|| तथा ज्ञानदर्शनविभङ्गा वाच्याः॥६ // किमत्र ज्ञानं किं वा दर्शनं को वा विभङ्गः परस्परतश्वामीषामल्पबहुत्वं चिन्तनीयम् // 10 / / ततश्च ज्ञानदर्शनविभङ्गैरित्रयम् // 11 // तथा (देसेत्ति) कस्यादेशविषयः सर्वविषयोऽवधिर्वक्तव्यः।।१२॥ गतिरिति चेत्तत्र इतिशब्द आद्यर्थस्ततश्च “गइइंदियकाए" इत्यादिद्वारकलापोऽवधिर्वक्तव्यः / / 13 / / तथा प्राप्त्यर्यनुपयोगश्च व्याख्यानरूपः