________________ ओहावण 137 - अभिधानराजेन्द्रः - भाग 3 ओहि यथावद्दृष्ट्वा बुद्धिमान्नरः। सम्यक् बुद्ध्यपेतः। आयमुपायं विविधं विज्ञाय आयः सम्यग्ज्ञानादेः उपायस्तत्साधनप्रकारः कालविनयादिः विविधोऽनेकप्रकारस्तं ज्ञात्वा किमित्याह / कायेन वाचा अथ मनसा त्रिभिरपि करणैर्यथाप्रवृत्तैः त्रिगुप्तिगुप्तः सन् जिनवचनमर्हदुपदेशमधितिष्ठेत्। यथा-- शक्ति तदुक्कै कक्रियापालनपरो भूयात् / भावाय सिद्धौ तत्वतो मुक्तिसिद्धेः / ब्रवीमीति पूर्ववदेवेति सूत्रार्थः। दश०१ चूलि०। / ओहाविय-त्रि० (अवधावित) अपसृते, संयमसुखविभूतेरुत्प्र-व्रजिते,। दश०१ चूलि०। *अपम्राजित-त्रि० / ग्लानिमापादिते, “ओहावितो न कुव्वइ. पुणो वि सो तारिसं अतीयारं" व्य० द्वि०८ उ०। ओहावेत-त्रि० ( अवधावत् ) प्रव्रज्यादेरपसर्पति, ओ०। “ओहवेता दुविहा, लिंगे विहारे य होंति नायव्वा" अवधाविनो द्विविधाः / लिङ्गेन विहारेणच! लिङ्गेनोत्प्रव्रजितुकामा विहारेण पार्श्वस्थविहारेणोत्प्रव्रजितुकामा भवन्ति ज्ञातव्याः।व्य०८ उ01 ओहि-पुं०(अवधि)अव धा० किः। अधो विस्तारभावेन धावतीत्यवधिः / उत्त० 18 अ०। रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तरूपायां मर्यादायाम, कर्म०। स्था०। स०। अभिविधौ, च। अवधिश्च द्विधा। अभिविधिर्मर्यादाचा प्रव०३५ द्वा०। (1) अवधिशब्दस्य व्युत्पत्तिलक्षणं च। (2) अवधिभेदाः संख्यातीताः भवन्ति। (3) चतुर्दशविधौ निक्षेपो द्वारसंग्रहश्च तत्र जघन्यादिभेदाः। (5) नामादिसप्तविधौ निक्षेपः। (5) भवप्रत्यथिकादितो द्वैविध्यम्। (6) अवधेरानुगमिकादि षट् भेदाः। (7) अवधिप्ररूपणे दण्डकः। (8) अवधिक्षेत्रप्रमाणं पनकजीवस्यावगाहना अग्निजीवप्रमाणं च। (9) अवधिविषयस्य द्रव्यस्य मानम्। (10) क्षेत्रकालयोर्विषयत्वमानम्। (11) भवप्रत्ययो देवनारकाणाम् / (12) पृथ्वीसुरादिविषयचिन्तनम्। (13) अवधेः संस्थानम्। .(14) ज्ञानदर्शनविभङ्गलक्षणद्वारद्वयम्। . (15) देशतः सर्वतश्चावधिनिरूपणम्। (16) क्षेत्रगत्यादिद्वाराणि। (17) अवधेः संक्षेपप्ररूपणा प्रस्तावना चा (१)व्युत्पत्तिलक्षणञ्च / अवशब्दोऽधः शब्दार्थः अव अधो विस्तृतं वस्तुधीयते परिच्छिद्यते-- ऽनेनेत्यवधिः / यद्वा अवधिर्मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृतिरूपा तदुपलक्षितं ज्ञानमष्यवधिः / यद्वा अवधानमात्मनोऽर्थः साक्षात्करणव्यापारोऽवधिः। आ० म०प्र०। प्रव० " द्रव्याणि मूर्तिमन्त्येव, विषयो यस्य सर्वतः / नैयत्यरहितं ज्ञानं, तत्स्यादवधिलक्षणमि" त्युक्तलक्षणे मूर्तद्रव्यविषये, / प्रत्यक्षज्ञाने, गच्छ०२ अधि० / स्था०। पा०। अनु०। अथ अवधिव्युत्पादनार्थमाहतणावही य एतम्मि, वावहाणं तओवही सोय। मनाया जंतीए, दवाइ परोपरं मुणइ / / (तओवहि त्ति ) ततःकरणादवधिरित्युच्यते। यतः किमित्याह / (तेणावहीएत्ति ) अवशब्दस्याव्ययत्वेनानेकार्थत्वादधोऽधो विस्तृतं धीयते परिच्छिद्यते रूपिवस्तुतेन ज्ञानेनेत्यवधिः / अथवा अव मर्यादया एतावत्क्षेत्रं पश्यन् एतावन्ति द्रव्याण्येतावन्तं कालं पश्यतीत्यादिपरस्परनियमितक्षेत्रादिलक्षणया धीयते परिच्छिद्यते रूपि वस्तु तेनेत्यवधिः (तम्मिवत्ति) अथवा अवशब्दस्यार्थद्वयम्। तथैवावधीयते जीवेनतस्मिन् वस्त्वित्यवधिः अकारस्य दर्शनाद् ( अवहाणंति) वाशब्दोऽनुवर्तते ततश्च अथवा अवधानमवधिः। साक्षादर्थपरिच्छेदनमित्यर्थः / अथवाऽवधीयते तस्माजीवेन साक्षाद्वस्त्वित्यवधिरित्युपलक्षणव्याख्यानात्स्वयमेव द्रष्टव्यम् (सोय मज्जायत्ति)स चोक्तस्वरूपोऽवधिर्मर्यादयार्थपरिच्छेदने प्रवर्तमानत्वादुपचारतो मर्यादाएतदेवाह (जंतीएतयादि) पुंलिङ्गोऽप्यवधिशब्दः प्राकृतत्वात् स्त्रीत्वे निर्दिष्टस्ततश्च यद्यस्मात्कारणात्तेनानन्तरोक्तेनावधिना जीवो द्रव्यादि (मुणत्ति ) जानाति / कथंभूतं सदित्याह। परस्परनियमितमिति शेषः / वक्ष्यति च। “अंगुलमावलियतो, आवलिया अंगुलप्पुहत्तं हत्थम्मि। मुहत्तंतो दिवसंतो, गाउयम्मि बोधव्वो" इत्यादि तस्मादनया परस्परोपनिबन्धलक्षणया मर्दया यतो जीवस्तेनावधिना द्रव्यादिकं मुणति। ततोऽवधिरप्युपचारान्मर्यादेति भावः / अवधिश्वासौ ज्ञानं चेत्यवधिज्ञानमिति प्रक्रमलब्धेन ज्ञानशब्देन समास इति विशे० / आ० चू०। पं० सं०। अवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययं रूपि द्रव्ये गोचरमवधिज्ञानमिति / अवधिज्ञानावरणस्य विलयविशेषः क्षयोपशमभेदस्तस्मात्समुद्भवति / यतः सुरनारकजन्मलक्षणो गुणः सम्यग्दर्शनादिस्तौ प्रत्ययौ हेतु यस्य तत्तथा।तत्र भवं प्रत्ययं सुरनारकाणां गुणप्रत्ययं पुनर्नरतिरश्वां रूपि द्रव्यादि पृथ्वी आपः पावकपवनान्धकारच्छायाप्रभृतीनि तदालम्बनमवधिज्ञानम्। रत्ना०। (२)तत्रावधिभेदाः संख्यातीता भवन्तीति दर्शयति। संखाइयाओ खलु, ओहिण्णाणस्स सव्वपयमीओ। काइ भव्वपव्वइया, खओवसमियाउ काओ वि।। संख्यानं संख्या तामतीता अतिक्रान्ताः संख्यातीताः असंख्येया इत्यर्थः / प्रकृतोऽशाः भेदाः सर्वाश्च ताः प्रकृतयश्च सर्वप्रकृतयः ततश्च पूर्वोक्तशब्दार्थस्यावधिज्ञानस्य क्षेत्रकालो विषयभूतावाश्रित्य सर्वा अप्यसंख्येयाः प्रकृतयो भेदा भवन्ति / तथा ह्यवधेर्जघन्यतोऽङ्गुलासंख्येयभागादारभ्य प्रदेशान्तरया वृद्ध्या उत्कृष्टतो लोकेऽपि लोकप्रमाणान्यसंख्येयखण्डानि क्षेत्रविषय इति वक्ष्यते / कालोऽपि जघन्यत आवलिकासंख्येयभागादारभ्य समयोत्तरया वृद्धया उत्कृष्टतोऽसंख्येयोत्सर्पिणीलक्षणो विषय इत्यभिधास्यते / एवं च विषयभेदाद्विषयिणोऽपि भेद इति न्यायात् क्षेत्रकाललक्षणविषयस्यासंख्येयभेदत्वादवधेरप्यसंख्येया भेदा भवन्ति / खलुशब्दश्चेह विशेषणार्थः / किंविशिनष्टीति चेदुच्यते / क्षेत्रकालावेवाङ्गीकृत्यावधेरसंख्येयाः प्रकृतयो भवन्ति / द्रव्यभावौ त्वाश्रित्यानन्ता अपि ताः प्राप्यन्ते तद्यथा। " तेयाभासा दव्वाणमंतराएत्थलभइ पट्टवओ" इत्यादि वचनात्तैजसभास्वाद्रव्यापान्तरालवर्तिअनन्तप्रदेशिकात् द्रव्यादारभ्य विचित्रवृद्ध्या सर्वमूर्तद्रव्याण्युत्कृष्टविषयपरिमाणमवधेर्वक्ष्यते। प्रतिवस्तुगतासंख्येयपर्यायरूपंच भावतो विषयमानमभिधास्यते। अतः सर्वमपि पुद्गलास्तिकायमवधिग्राह्यांश्च तत्पर्यायानाश्रित्यानन्तोऽवधिविषयः सिद्धो भवति। ज्ञेयभेदाच ज्ञानभेद इति / द्रव्यभावलक्षणविषयापेक्षया अवधेरन्ता अपि प्र