SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ओहवण 135 - अभिधानराजेन्द्रः - भाग 3 ओहावण किं तु स एव तत्र प्रमाणमिति। एतदेव प्रविकटयिषुराहपडिसेविय पडिसेवि, एवं थेराणं होइ उ विवादो। तत्थ वि होइ पमाणं, स एव पडिसेवणा न खलु / / स्थविरा अवेक्षन्तेएष प्रतिसेवीस प्राहा नाहं प्रतिसेवी एवं स्थविरैः सह गाथायां षष्ठी तृतीयार्थे विवादो भवति / तत्रापि प्रतिसेवनाविषयेऽपि भवति। स एव प्रमाणं न पुनः खलु सहायैरूच्यमाना प्रतिसेवना तेषां पुनरगीतार्थानां पुरतः सूरय एतदभिदधति। मछणगंपरिवारणादि जह नेच्छतो अदोसाय। अणुलोमा उवसग्गा, एमेव इमं पिपासाओ। यथा अनिच्छतोऽनभिलषतोऽनुलोमा अनुकूलाः उपसर्गाः के ते इत्याह / मज्जनं स्नानं गन्धः पटवासादिरूपः परिवारणस्त्रिया बलात्कारे-- णोपभोग आदिशब्दादेवंविधान्योपसर्गपरिग्रहः। एते यथा। अदोषास्तद्विषयानुमननाभावात्। एवमिदमप्यधिकृतावधावितसाधुविषयं मजनादिपाश्यमस्तदप्यनुरागाभावतो निर्दोषमिति भावः / एतदेव भावयति। जह चेव य पडिलोमा, अपडुस्संतस्स हॉति दोसाय। एमेव य अणुलोमा, हॉति असायज्झंणे अफला॥ यथेति दृष्टान्तोपन्यासे। चशब्दो दृष्टान्तदा न्तिकयोः साम्यावधा--- रणार्थः। यथा चैवं प्रतिलोमाः प्रतिकूलाः उपसर्गाः प्रद्वेषतः प्रद्वेषमागच्छो भवन्त्यदोषाय एवमेव अनेनैव प्रतिकूलोपसर्गगतेन प्रकारेण अनुलोमा अपिस्वजनैः क्रियमाणा मज्जनादय उपसर्गा"असाइजमाणे" अननुमनने भवन्त्यफला ! अन्यच। सोहीणभोगभागी, अवि महती निजरा उ एयस्स। सुहुमो वि कम्मबंधो,न होइ उ नियत्तभावस्स | अपीति गुणान्तरसमुच्चये स्वजनक्रियमाणमज्जनाङ्गरागाद्यनास्वादनादेष स्वाधीनभोगत्यागी स्वाधीनभोगत्यागाचैतस्य महती निर्जरा पुराणकर्मनिर्जरणं प्रवृद्धप्रवृद्धतरशुभाशयसंभवात्। नचाप्यभिनवकमसंगलनं यत आह। ननु निवृत्तपरिणामस्य सतः सूक्ष्मोऽपि कर्मसंबन्धो भवति / कर्मोपचयहेतो?ष्टाध्यवसायस्याभावात् / व्य० प्र०२ उ०। (आचार्य उपाध्यायो वाऽवधावन्यवदेत्स आचार्यपदेस्थापयितव्य इति आयरियशब्दे उक्तम्) (गणादपक्रम्येच्छेदन्यं गणमुपसंपद्य विहर्तुमिति उपसंपच्छब्दे ) (अवधावितुकामेनाष्टादशस्थानानि प्रत्युपेक्षणीयानीति अट्ठारसट्ठाणशब्दे)। जया ओहाविओ होइ, इन्दो वा पडिओ छमं। सव्वधम्मपरिभट्ठो, सपच्छा परितप्पइ॥२॥ यदा अवधावितोऽपसृतो भवति।संयमसुखविभूतेरुत्प्रव्रजित इत्यर्थः / इन्द्रो वेति देवराज इव पतितःक्ष्मां गतः स्वविभव_सेन भूमौ पतित इति / भावः / क्ष्मा भूमिः सर्वधर्मपरिभ्रष्टः सर्वधर्मेभ्यः क्षान्त्यादिभ्यः आसेवितेभ्योऽपि यावत् प्रतित्तमनमुपालनात् लौकिकेभ्योऽपि वा गौरवादिभ्यः परिभ्रष्टः सर्वतः च्युतः स पतितो भूत्वा पश्चान्मनाम् मोहावसाने परितप्यते। किमिदमकार्य मयानुष्ठितमित्यनुतापंकरोतीति सूत्रार्थः। जया अवंदिमो होइ, पच्छा होइ अवंदिमो। देवया वचुअट्ठाणा, सपच्छा परितप्पई॥३॥ यदा वन्द्यो भवति / श्रमणपर्यायस्थो नरेन्द्रादीनां पश्चाद्भवति।। उन्निष्कान्तः सन्नवन्द्यः। तथा च देवता इव काचिदिन्द्रवर्जा स्थानच्युता सती। स पश्चात्परितप्यत इत्येतत्पूर्ववदिति सूत्रार्थः। तथा। जया य पुइमो होइ, पच्छा होइ अपूइमो। राया व रजपब्मट्ठो, स पच्छा परितप्पई॥४॥ यदा य पूज्यो भवति वस्वभक्तादिभिः श्रामण्यसामर्थ्याल्लोकानां पश्चाद्भवत्युत्प्रव्रजितः सन्नपूज्यो लोकानामेव। तदा राजेव राज्यप्रभ्रष्टः। महतो भोगाद्विप्रमुक्तः स पश्चात्परितप्यत इति पूर्ववदेवेति सूत्रार्थः। तथा। जया य माणिमो होई, पच्छा होइ अमाणिमो। सिट्ठिव्व कवडे छूढो, स पच्छा परितप्पई।।५।। यदा च मान्यो भवत्यभ्युत्थानाज्ञाकरणादिना माननीयः शीलप्रभावेन पश्चाद्भवत्यमान्यस्तत्परित्यागेन तदा श्रेष्ठीव कर्बटमहाक्षुद्रसंनिवेशे क्षिप्तः सन्पश्चात्परितप्यत एतत् समानं पूर्वेणेवेति सूत्रार्थः / जया य थेरओ होइ, समइकंतजुष्वणो। मच्छोव्व गलिंगीलित्ता, य पच्छा परितप्पई॥६॥ जया य कुकुडुंबस्स, कुतत्तीहिं विहम्मई। हत्थीव बंधणे बद्धो, स पच्छा परितप्पई॥७॥ यदा च स्थविरोभवति स त्यक्तसंयमो वयःपरिणामेन एतद्विशेषप्रतिपादनायाहसमतिक्रान्तयौवनः एकान्तस्थविर इति भावः / तदा विपाककटुक टुकत्वाद्भोगानां मत्स्य इव गलं बडिशं गलित्वाभिगृह्य तथाविधकर्मलोहकण्टकविद्धः सन् स पश्चात्परितप्यत एतदपि समानं पूर्वेणेवेति सूत्रार्थः। एतदेव स्पष्टयति। पुत्तदारपरिकिण्णो,मोहसंताणसंतओ। पंकोसण्णो जहानागो, सपच्छा परितप्पई॥८॥ पुत्रदारपरिकीर्णो विषयसेवनात् पुत्रकलत्रादिभिः सर्वतो विक्षिप्तः मोहसन्तानसन्ततो दर्शनीयमोहनीयकर्मप्रवाहेण व्याप्तः / पावसन्नो यथा नागः कर्दमावमग्रोवनगज इव सपश्चात्परितप्यते। हाहा कि मयेदमसमञ्जसमनुष्ठितमिति सूत्रार्थः / कश्चित्सचेतनतर एवं च परितप्यत इत्याहअज याहं गती हुँतो, भाविअप्पा बहुस्सुओ। जइहं रमतो परिआए, सामण्णे जिणदेसिए॥६॥ अद्य तावदहमद्यास्मिन् दिवसे। अहमित्यात्मनिर्देशे गणी स्या माचार्यो भवेयम् / भावितात्मा प्रशस्तयोगभावनाभिः बहुश्रुत उभयलोकहितबवागमयुक्तो यदि किं स्यादित्याह / यद्यहमरमिष्यं पर्याये प्रव्रज्यारुपे सोऽनेकभेद इत्याह। श्रामण्ये श्रमणानां संबन्धिनि सोऽपि शाक्यादिभे-- दभिन्न इत्याह / जिनदेशिते निर्ग्रन्थसंबन्धिनीति सूत्रार्थः / अवधानोत्प्रेक्षिणः स्थिरीकरणार्थमाह - देवलोगसमाणो अ, परिआओ महेसिणं। रयाणं अरयाणं च, महानरयसारिसो // 10 // देवलोकसमानस्तु देवलोकसदृश एव पर्यायः। प्रव्रज्यारूपः। महर्षीणां सुसाधूनां रतानां सक्तानां पर्याय एवेति गम्यते / एतदुक्तं भवति। यथा देवलोके देवाः प्रेक्षणकादिव्यापृता अदीनमनसस्तिष्ठन्त्येवं सुसाधवोऽपि ततोऽधिकं भावतः प्रत्युपेक्षणादि क्रियायां व्यापृता उपादेयविशेषत्वात्। प्रत्युपेक्षणादेरिति। देवलोकसमान एव पर्यायो महर्षीणां रतानामिति / अरतानां च भावतः सामाचार्यामसक्तानां च शब्दाद्विषयाभिला
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy