________________ ओहावण १३२-अभिधानराजेन्द्रः - भाग 3 ओहावण धानानन्तरं तत्क्षणमेव तदा तस्य मासलघु प्रायश्चित्तम् / एवं क्रमेण तावद्वक्तव्यं यावद्दशभिर्दिवसैः स्वपदं दशमं प्रायश्चित्तं भवति / तद्यथा द्वितीये दिवसे राजानं दृष्ट्वा निवर्तमानस्य मासगुरु तृतीये दिवसे चतुर्गुरु / पञ्चमे षण्मासलघु। षष्ठे षण्मासगुरु। सप्तमे छेदः। अष्टमे मूलं। नवमे-- ऽनवस्थाप्यम्। दशमे पाराञ्चितम्। सांप्रतमत ऊर्ध्वं युवराजादिमधिकृत्य वक्ष्यामि। प्रतिज्ञातमेव करोति। मासगुरु चउलहुया, चउगुरु छलहु छग्गुरुकमादी। नवहिं अट्ठहिं सत्तहिं,छहिं पंचहिं चेव चरमपयं / / युवराजामात्यपुरोहितकुमारकुलपुत्रेषु यथाक्रमं प्रथमदिवसे मासगुरु चतुर्लघुकं चतुर्गुरुकं षट्लघु षट्गुरुकादि कृत्वा यथाक्रमं गवभिरष्टभिः सप्तभिः षड्भिः पञ्चभिश्च दिवसैश्चरमं पाराञ्चितं वक्तव्यम्। तद्यथा प्रथमे दिवसे युवराजं दृष्ट्वा निवर्तमानस्य मासगुरु। द्वितीये दिवसे चतुर्मासलधु। तृतीये दिवसे चतुर्मासगुरु। चतुर्थे दिवसे षण्मासलघु / पञ्चमे दिवसे षण्मासगुरु। षष्ठे छेदः। सप्तमे मूलमष्टमेऽनवस्थाप्यं नवमे पाराश्चितम्। तथा अमात्यं दृष्ट्वा प्रथमे दिवसे निवर्तमानस्य चतुर्मासलघु / द्वितीये दिवसे चतुर्मासगुरु / तृतीये षण्मासलघु / चतुर्थे षण्मासगुरु / पञ्चमे छेदः / षष्ठे मूलं / सप्तमे अनवस्थाप्यम् / अष्टमे पाराञ्चितमिति / तथा पुरोहितं दृष्ट्वा प्रथमे दिवसे निवर्तमानस्य चतुर्मासगुरु / द्वितीये षण्मासलघु / तृतीये षण्मासगुरु 1 चतुर्थे छेदः / पञ्चमे मूलं / षष्ठे अनवस्थाप्यं / सप्तमे पाराञ्चितम् / यथा कुमारं दृष्ट्वा प्रथमे दिवसे निवर्तमानस्य षण्मासलघु। द्वितीये दिवसे षण्मासगुरु। तृतीये छेदः / चतुर्थे मूलम्। पञ्चमे अनवस्थाप्यम् / षष्ठे पाराञ्चितम्। तथा कुलपुत्रकं प्रथमे दिवसे दृष्ट्वा निवर्तमानस्य षण्मासगुरु। द्वितीये छेदः तृतीये मूलम् / चतुर्थे अनवस्थाप्यम्। पञ्चमे पाराञ्चितमिति। उपसंहारमाहदवे खेत्ते काले, भणिया सोही उ भावइणमण्णा / दंमियभूणगसंकंते भोइया विवण्णभुजणे दोसु / / इत्येवमुक्तेन प्रकारेण प्रत्येकं संयोगतश्च दव्ये क्षेत्रे काले च भणिता शोधिरिदानीं भावत इत्ययमन्ये द्रव्यक्षेत्रकालव्यतिरिक्ता भण्यन्ते इति वाक्यशेषः ! प्रतिज्ञातमेव कुर्वन् द्वारसंग्रहमाह / दण्मिते राज्ञा भूणके देशीपदमेतत् बालकेषु पुत्रादावित्यर्थः / मृते इति वाक्यशेषः / तथा संक्रान्ते परपुरुषं गते विपन्ने मृते कलत्रे इति गम्यते। तथा (दोसुत्ति) तृतीयार्थे सप्तमी। यथा “तिसुतेसुअलंकिया पुहवी" इत्यत्र ततोऽयमर्थः। द्वाभ्यां पुरुषाभ्यां स्त्रीभ्यां वा वक्ष्यमाणस्वरूपाभ्यां भोजने भावतः शोधिर्भवति। तत्र यथोद्देशं निर्देश इति प्रथमतो दण्डितादिद्वारत्रयमाहदंडिय सो उ नियत्ते, पुत्तादिमए व चउलहू हुंति। संकंतमयाए वा, भोएते चउगुरू हुंति॥ यत्र स संप्रस्थितः तत्र ते मनुष्याः कस्मिंश्चिदपराधे राज्ञा दण्डिताः। यदिवा तेषां पुत्रादिकं किमपि मृतं अथवा द्वयमपीदं जातं ततो दण्डितवान् यदि वा पुत्रादीन् मृतानथवा उभयमपि श्रुत्वा निवर्तते। ततो निवृत्तिनिवृत्तस्य प्रायश्चित्तं चत्वारो लघुमासा भवन्ति / तथा भोजिका नाम भार्या सान्यपुरुष संक्रान्ता।अथवा मृता श्रुताततोऽन्यपुरुषसंक्रान्तायां मृतायां वा भोजिकायां निवर्तमानस्य चत्वारो गुरुका गुरुमासा भवन्ति। संप्रति (भुंजणे दोसुत्ति ) व्याख्यानयति। अह पुण भुंजेज्जाही, होहि उ वग्गेहि तवो समयं तु / इत्थीहिं पुरिसेहि, तवोहियं आरोवणा इणमो / / अथ पुनस्तत्र गतः सन् द्वाभ्यां वर्गाभ्यामेतदेव व्यक्तमाचष्टे / स्त्रीभ्यां पुरुषाभ्यां वा समकं साधं तु शब्दो वाल्पप्रमाणं समस्तविशेषसूचकः। भुशीत तत्र इयमनन्तरमुच्यमाना आरोपणा प्रायश्चित्तं / तमेवाहलहुगा य दोसु दोसु य, गुरुगा छम्मासगुरु लहूछेदो। निक्खिवणं चिय मूलं,जं सेवइ तं समावजे // सेव्यते स्त्रीनपुसकादिकं तन्निष्पन्नमपि प्रायश्चित्तं तस्य भवति एष गाथासंक्षेपार्थः / सांप्रतमेनामेव विवरीषुः प्रथमतो “लहुगा य दोसुस गुरुगा" इति व्याख्यानयति। पुरिसे य नालबद्धे, अणुव्वतो पासएण चउलहुगा। एयासुं वि य थीसु, अनालबद्धे य चउगुरुगा।। अत्रापि सर्वत्र सप्तमीतृतीयार्थे पुरुषेण नालबद्धेन तुशब्दो विशेषणार्थः। स चैतद्विशिनष्टिः / मिथ्यादृष्टिना अथवाऽणुव्रतोपसकेन नालबद्धेन एताभ्यां द्वाभ्यां पुरुषाभ्यां चशब्दस्यानुक्तसमुच्चयार्थत्वात्। दर्शनामात्रश्रावकेण च सार्धं भुधानस्य प्रायश्चित्तं चत्वारो लघुका व्याख्यातम् "लधुकायदोसु तिगुरुगा" इति ध्याख्यानयति / “एयासु वि य थीसुमिति" / एताभ्यामेव स्त्रीभ्यां किमुक्तं भवति / नालबद्धमिथ्यादृष्टिस्त्रिया नालबद्धाणुव्रतोपासकस्त्रिया वा सार्धं भुजानस्य चतुर्गुरुका 'अनालबद्ध य चउगुरुगा' इति / अनालबद्धमिथ्यादृष्टिपुरुषेण अनालबद्धाणुव्रतोपासकेन वा समं भुजानस्य चतुर्गुरुका इति व्याख्यापनार्थमाह। अनालदंसणित्थिसु, दिट्ठभट्ठपुरिसे छलहुया। दिहित्ति पुन अदिडे, मेहुणभोजीए छग्गुरुगा य / / अनालबद्धा दर्शनमात्रश्राविका यश्च पूर्व दृष्टः सन् तदानीमाभाषितः पुरूषस्तेन च समं भुजानस्य षट्लघुकाः। तथा (दिट्ठित्ति) पदैकदेशे पदसुमदायोपचारात् / पूर्व या दृष्टा भाषिता तथा अदृष्टाऽभाषिता तेन पुरुषेण तथा ( मेहुणत्ति) मैथुनवया मैथुनजीक्या वेश्यया इत्यर्थः / तथा भोजिकया भार्यया एतैः चतुर्भिः सह भुजानस्य षण्मासगुरुवः। संप्रति छेद इति व्याख्यानार्थमाहअदिहभट्ठासुंथीसुं, संभोइए संजती छेदो। अमणुण्ण संजतीए, मूलं थीभावसंबंधो॥ पूर्वमदृष्टाभिस्तदानीमाभाषिताभिः स्त्रीभिः सह तथा सांभोगिके संयत्याऽपि च समं भुजानस्य छेदः / तथा असांभोगिकसंयत्या सह भोजने। तथा स्त्रीस्पर्शसंबन्धे च मूलं प्रायश्चित्तम्। सांप्रतमत्रैव व्याख्यानान्तरमाह। अहवा वि पुटवसंथुय-पुरिसेहिं सिद्धचउलहू हुति। पुरिसं थुहइत्थीए, पुरसेयरदोसु वि गुरुगा। अथवेति प्रकरान्तरोपदर्शनेन पूर्वसंस्तुतपुरुषैः सह पूर्वसंस्तुतस्त्रिया च समं भुजानस्य चत्वारो लघुका लघुमासा भवन्ति / एतेन (लहुगा य दोसुत्ति ) व्याख्यातम्। तथा पुरुषतराभ्यां पुरुषस्त्रीभ्यां द्वाभ्यामपि च भुञ्जानस्य गुरुकाश्चत्वारो गुरुमासाः। अनेन “दोसु य गुरुगा" इति व्याख्यातम्।