________________ ओहावण 131 - अभिधानराजेन्द्रः - भाग 3 ओहावण कल्पिकं यच कल्पनीयमपि सूत्रेण प्रतिविद्धतं तद्विषया।सर्वापिशोधिः द्रव्यत इति भाष्यकारः। संप्रति ज्ञातां द्रव्यशोधिमाह " राया इत्यादि." राजा प्रतीतः तस्मिन्युवराजे अमात्ये पुरोहिते कुमारे कुलपुत्रेद्रव्यशोधिरिति वाक्यशेषः / कथमेतद्विषमा द्रव्यशोधिरत आह। एएतिं रिद्धिं तो, दळु लोभाउ संनियत्तंते / पणगादीया सोधी, बोधव्वा मासलहुअंता // एतेषां राजादीनां ऋद्धिं दृष्ट्वा अहो धर्मस्य फलं साक्षादुपलभ्यते तस्मादहमपि करोमि।धर्ममिति लोभाद्भोगाभिष्वङ्गरूपात् सन्निवर्तमाने षष्ठीसप्तम्योरर्थं प्रत्यभेदात्। सम्यनिवर्तमानस्य बोधव्या शोधिः। पञ्च-- कादिमासलघुपर्यन्ता। तद्यथा राजानं स्फीतिमन्तमुपलभ्य अहो धर्मप्रभावतः कथमेषः स्फीतिमान्। तस्मान्न त्यजामि धर्ममिति प्रतिनिवर्तमानस्य पञ्चरात्रिन्दिनानि। अमात्यं दृष्ट्वा पञ्चदश, पुरोहितं विंशतिः, कुमारं पञ्चविंशतिः। कुलपुत्रं मासलघुकमिति। चोएती कुलपुत्ते, गुरुगतरं राइणो उ लहुगतरं। पच्छित्तं किं कारणं, भणियं सुण चोयग इमं तु // चोदयति परः किं कारणं केन कारणेन कुलपुत्रेऽल्पर्द्धिके दृष्ट निवर्तमानस्य गुरुकतरं प्रायश्चितंभणितं, राज्ञो महर्द्धिकस्य दर्शनेन प्रतिनिवतमानस्य लघुकतरमत्र सूरिराह / चोदकाय येन कारणेनेत्थं प्रायश्चित्तं नानात्वं तत्कारणमिदं वक्ष्यमाणं शृण्वेतदेवाहदीसइ धम्मस्स फलं, पेचत्थं तत्थ उज्जम कुणिमो / इद्वीसु पइणवीसु वि, सञ्जते होइ नाणत्तं / / दृश्यते खलु धर्मस्य फलं साक्षात् तस्मादत्र धर्मे वयमुद्यम कुर्मः। एवमृद्धिषु राजसंबन्धिप्रभृतिषु प्रभूतास्वपि यथाक्रमहीममानतरास्वपि सज्यते सङ्गममुपयाति / यथा यथावाल्पतरा स्वपि ऋद्धिषु सझममुपपद्यते / तथा तथा लक्ष्यते तीव्रातीव्रतरा तस्य भोगासक्तिरित्युक्तप्रकारेण भवति / प्रायश्चित्तनानात्वामिति / अपरे त्वियं भावशोधिरिति प्रतिपन्ना संप्रति क्षेत्रतः शोधिमभिधित्सुराहखेत्ते निवपहनगरद्वारे उजाणा सीमहिकते। पणगातीईआ लहुओ, एएसु च सन्नियत्तंते।। क्षेत्र क्षेत्रविषयां एतेभ्यः सन्निवर्तमाने इत्यत आह ( निवपहेत्यादि) अत्रापि सप्तमी पञ्चम्यर्थे / ततोऽयमर्थः। नृपपथान्नगरद्वारादुद्यानादुद्यानात्परतः सीम्नो तथा सीम्नःसीमातिक्रमतः किंप्रमाणा शोधिरत आह / पञ्चकादिका यावल्लघुको मासः / इयमत्र भावना / राजपथात्पञ्चरात्रिन्दिानानि नगरद्वाराभिवर्तमानस्य दश, उद्यानात्पञ्चदश उद्यानात्परतः सीम्नोर्वा निवर्तमानस्य विंशतिरहोरात्राः सीम्नो मिन्नमासः सीमानमतिक्रम्य मासलघुः। संप्रति कालतः शोधिमाहपढमेदिणनिवत्तंते, लहुओ दसहि सपदं भवे / काले संयोगे पुण, एतो दव्वे य खेत्ते य॥ यदि प्रथमे दिवसे निवर्तते ततस्तस्मिन् प्रथमे दिवसे निवर्तमाने लधुको मासलघु प्रायश्चित्तम् / एवं यावत् दशभिर्दिवसः स्वपदं दशमं प्रायश्चित्तम् भवति / तद्यथा द्वितीये दिवसे निवर्तमानस्य मासगुरु तृतीये दिवसे चतुर्मासलघु। चतुर्थे चतुर्मासगुरु। पञ्चमेषट्लधु षष्ठे षड्गुरु / सप्तमे छेदः / अष्टमे मूलम् / नवमे अनवस्थाप्यम् / दशमे पाराञ्चितमिति / एषा काले कालविषया शोधिः भावतो वक्ष्यमाणा / संप्रत्यत ऊर्वं द्रव्ये क्षेत्रे काले च यः संयोगस्तस्मिन् वक्ष्ये प्रतिज्ञातमेव निहियति। दव्वस्स य खेत्तस्स य, संजोगे होइमा पुण विसोही। रायाणं रायपहे, दर्ल जासीमतिकतो।। पणगादीआ मासो, जुवराय निवपहाइ दट्ठणं / दसराइंदियमाई,मासगुरु होइ अंतमि।। द्रव्यस्य क्षेत्रस्य च संयोगे संबन्धे पुनरियं वक्ष्यमाणा भवति विशोधिस्तामाह। (रायाणमित्यादि) येषां हि राजादिकं द्रव्यं नृपपथादिकं क्षेत्रमधिकृत्योच्यते इतीयं द्रव्यक्षेत्रसंयोगजा विशोधिः। तत्र यदि राजानं राजपथे दृष्ट्वा निवृत्तः। ततस्तस्य पञ्चकं पञ्चरात्रिन्दिवं प्रायश्चित्तमेवं क्षेत्रं राजपथमादिं कृत्वा राज्ञिच द्रव्ये पञ्चकादिप्रायश्चित्तं क्रमेण तावद्वक्तव्यं यावत्क्षेत्रतः सीमातिक्रान्ते राज्ञि प्रायश्चित्तं यावन्मासस्तद्यथा नगरद्वारे राजानं दृष्ट्वा निर्वतमानस्य दशरात्रिन्दिवानि उद्यानान्निवर्तमानस्य पञ्चदश उद्यानस्य सीम्नश्चान्तरा, तु विंशतिकं सीम्नो निवर्तमानस्य मासलघु। युवराजद्रव्यं नृपपथादि क्षेत्रमेतदृष्ट्वा निर्वतमानस्य दशरात्रिन्दिवानि नगरद्वारे पञ्चदश उद्याने विंशतिरुद्यानसीम्नोरपान्तराले पञ्चविंशति सीम्नि मासलघु सीमातिक्रमेण मासगुरु। . सचिवे पण्णदसादि, लधुगतं वीसमादि उपुरोहे। अंतम्मि चउगुरुग, कुमारभिन्नादिआ छेओ॥ सचिवे राजपथादिषु क्रमेण पञ्चदशादि चतुर्लघुपर्यन्तम् / तद्यथा राजपथे सचिवं दृष्ट्वा निर्वतमानस्य पञ्चदश रात्रिन्दिवानि नगरद्वारे विंशतिउद्याने सीम्नोरन्तराले मासलघु। सीम्नि मासगुरु:सीमातिक्रमे चतुर्मासलघु / तथा पुरोधसि विंशत्यादि प्रायश्चित्तमन्ते चतुर्गुरुकम् / तद्यथा राजपथे पुरोधसं दृष्ट्वा निवर्तमानस्य विंशतिरहोरात्रं नगरद्वारे पञ्चविंशतिउ द्याने मासलघु। उद्यानसीम्नोरपान्तराले मासगुरु। सीम्नि चतुर्मासगुरु। कुमारे भिन्नमासादियावत् षट्लघु। तद्यथा राजपथे कुमार दृष्ट्वा निवर्तमानस्य भिन्नो मासः / पञ्चविंशतिरात्रो, रात्रावित्यर्थः / नगरद्वारे मासलघु / उद्याने मासगुरु उद्यानसीम्नोरपान्तराले चतुर्मा-- सलघु। सीम्नि चतुर्मासगुरु। सीमातिक्रमेण मासलघु। कुलपुत्ते मासादी, छग्गुरगं होइ अंतिमेठ्ठाणे। एत्तो य दवकाले, संयोगमिमं तु वोच्छामि / / कुलपुत्रे मासादिमासलध्वादिप्रायश्चित्तं क्रमेण तावद्दष्टव्यं यावद-- न्तिमस्थानं षारुकं भवति। तद्यथा राजपथे कुलपुत्रं दृष्ट्वा निवर्तमानस्य मासलघु। नगरद्वारे मासगुरु। उद्याने चतुर्लघु। उद्यानसीम्नोरपान्तराले चतुर्गुरु। सीम्निषण्मासलघु। सीमातिक्रमेण मासगुरु। तदेव द्रव्यक्षेत्रसंयोग उक्तम् / इत ऊर्व द्रव्ये काले च संयोगमिमं वक्ष्यमाणं वक्ष्यामि यथा प्रतिज्ञातमेव निर्वाहयति। रायाणं तदिवस, दह्रण नियत्ते होइ मासलहुँ। दसहि दिवसेहिं सपयं जुयरण्णादि तवो वोच्छं / राजानं दृष्ट्वा तस्मिन् दिवसे यदि प्रतिनिवर्तते / तेन तु अव