________________ ओसप्पिणी 122 - अभिधानराजेन्द्रः - भाग 3 ओसप्पिणी स्तो रविरुक्तस्तथापि समपरिभाषया पूर्ण इति ते मनुजा जघन्यतोऽन्तर्मुहूर्त उत्कर्षेण सातिरेकं त्रिंशदधिकं वर्षशतमायुः पालयन्ति। अप्येका नैरयिकगतिगामिनः यावत् सर्वदुःखानामन्तं कुर्वन्ति। अत्र चान्तक्रिया चतुर्थारकजातपुरूषजातमपेक्ष्य तस्यैवं पञ्चसमये सिद्ध्यमानत्वाजम्बूस्वामिन इवनच संहरणं प्रतीत्येदं भावनीयम्। तथा च सति प्रथम-- षष्ठारकादावपि एतत् सूत्रपाठ उपलभ्यत एवेति आह / अत्र पालयन्ति अन्तं कुर्वन्तीत्यादौ भविष्यत्कालप्रयोगे कथं वर्तमाननिर्देशः / उच्यते सर्वासु अवसर्पिणीषु पञ्चमसमासु इदमेव स्वरूपमिति नित्यप्रवृत्तवर्त-- मानलक्षणप्रयोगः / यथा द्वे सागरोपमे शत्रो राज्यं कुरुते इत्यादौ तर्हि दुषमा समा कालः प्रतिपत्स्यते इत्यादि प्रयोगः कथमिति चेदुच्यते। प्रज्ञापकपुरूषापेक्षयैतत्प्रयोगस्यापि साधुत्वात्। पुनरपि तस्यां किं किं वृत्तमित्याह। तीसे णं समाए पच्छिमे तिमागे गणधम्मे पाखंडधम्मे रायधम्मे जायतेए अधम्मचरणे अ वोच्छिनिस्सइ। तस्या दुष्पमानाम्न्याः समायाः पश्चिमे त्रिभागे वर्षसहस्त्रसप्तकप्रमाणे अतिक्रामति सतिन तुअवशिष्टतथा सति एक विंशतिसहस्त्रवर्षप्रमाणश्रीवीरतीर्थस्याव्युच्छित्तिकालस्यापूर्तेः गणः समुदायो निजजातिरिति यावत्। तस्य धर्मः स्वस्वप्रवर्तितो व्यवहारो विवाहादिकः / पाखण्डाः शाक्यादयस्तेषां धर्मः प्रतीत एव / राजधर्मो निग्रहानुग्रहादिः। जाततेजा अग्निसहितोऽतिस्निग्धे सुषमसुषमादौ, नातिरूक्षे दुष्षमदुष्षमादौ चोत्पद्यत् इति चकारादग्निहेतुको व्यवहारो रन्धनादिरपिचरणधर्मश्चारि धर्मः / चशब्दादच्छव्यवहारश्च / अत्र धर्मपदव्यत्ययः / प्राकृतत्वात्। विच्छेत्स्यति विच्छेदं प्राप्स्यति सम्यक्त्वधर्मस्तु केषांचित्संभवत्यपि विलवासिनां हि अतिक्लिष्टत्वेन चारित्रभावः अतएवाह! प्रज्ञप्तौ " उसण्णं धम्मसन्नप्पभट्टा" इति उसन्नमिति प्रायो ग्रहणात् / कचित् सम्यक्त्वं प्राप्यतेऽपीति भावः गतः पञ्चमोऽरकः। (12) अथषष्ठारकः उपक्रम्यते। तीसे णं समाए एकवीसाए वाससहस्सेहिं काले वीइकते अणंतेहिं वण्णपजवेहिं गंधरसफासपनवेहिं जाव परिहीयमाणे परिहीयमाणे एत्थणं दूसमदूसमाणामंसमा काले पडिवजिस्सइ समणाउसो!। तस्यां समायामेकविंशत्या वर्षसहस्त्रैः प्रमिते काले व्यतिक्रान्ते अनन्तैर्वर्णपर्यवैरेव गन्धरसस्पर्शपर्यवैर्यावत्परिहीयमाणः परिहीयमाण: दुष्षमदुष्षमानाम्ना समा कालः प्रतिपत्स्यते। हे श्रमण ! हे आयुष्मान्! अथ तत्र भरतस्वरूपप्रश्नायाह। तीसे णं मंते ! समाए उत्तमकट्ठपत्ताए भरहस्स के रिसए आयारभावपडोआरे भविस्सइ / गोअमा ! काले भविस्सइ हाहाभूए भंभाभूए कोलाहलभूए समाणुभावेणं य खरफरूसधूलिमइलादुट्विसहा वाउला भयंकराय वाया संवट्टगायवोहित्ति इह अभिक्खणं धूमाहिति अदिसा समंतारअस्सला रेणुकलुसतमपडलणिरालोआ समयरूक्खयाए णं अहि चंदा सीअं मोच्छिहिंति अहिअंसूरिआतविस्संति। तस्यां समायामुत्तमकाष्ठाप्राप्तायामुत्तमावस्थागतायामित्यर्थः परमका- / ठाप्राप्तायां वा भरतस्य कीदृशः क आकारमावस्याकृतिलक्षण-पर्यायस्य प्रत्यवतारोऽवतरणम् आकारभावः प्रत्यवतारः प्रज्ञप्तः / भगवानाह। गौतमेत्यामन्त्र्य वक्ष्यमाणविशिष्टः कालो भविष्यति कीदृश इत्याह / हाहाभूतः हाहा इत्येतस्य शब्दस्य दुःखार्तलोकेन करणं हाहोच्यते। तदभूतः प्रायो यः कालः स हाहाभूतः। भम्मा इत्यस्य दुःखार्तगवादिभिः करणं भम्मोच्यते। तद्भूतो यः सभम्भाभूतः द्वावप्यनुकरणशब्दाविमौ / भम्मा वा भेरी सा वान्तःशून्या ततो भम्भे च यः कालो जनक्षयात्तच्छून्यः स भम्भाभूत इत्युच्यते / कोलाहल इहार्तशकुनसमूहध्वनिः / तं भूतः प्राप्तः कोलाहलभूतः समानुभावेन कालविशेषसामर्थ्येन च चकारोऽत्र वाच्यान्तरदर्शनार्थः / णमित्यलङ्कारे खरपरूषा अत्यन्तकटोरा। धूल्या चमलिना ये वातास्तेतथा। दुर्विषहा दुस्सहाः ।व्याकुलाः असमञ्जसा इत्यर्थः। भयङ्कराः चः विशेषणसमुचयसूचकः।वास्यन्तीत्यनेन संबन्धः / संवर्तकाश्च तृणकाष्ठादीनामपहारका वातविशेषाश्च तेऽपि वास्यन्तीति इहास्मिन् काले अभीक्ष्णं पुनः पुनधूमायिष्यन्ते च।धूममुदमिष्यन्तीति दिशः किंभूतास्ता इत्याह / समन्तात् सर्वतो रजस्वला रजोयुक्ताः अत एव रेणुना रजसा कलुषा मलिनास्तथा। तमः पटलेनान्धकारवृन्देन निरालोका निरस्तप्रकाशा निरस्तदृष्टिप्रसरा वा! ततः पदद्वयकर्मधारयः / समया रूक्षतया च कालरूक्षतया चेत्यर्थः अहितं अधिकं चापथ्यं चन्द्राः शीतं हिम मोक्ष्यन्ति स्रक्ष्यन्ति। तथैव सूर्यास्तपन्तितापं मोक्ष्यन्तीत्यर्थः। कालरौक्ष्येण शरीररौक्ष्यं तस्माचाधिकशीतोष्णपराभव इति। अथपुनस्तत्स्वरूपं भगवान् स्वयमेवाह। अदुत्तरं च णं गोअमा ! अभिक्खणं अरसमेहा विरसमेहा खारमेहा अग्गिमेहा विजमेहा विसमेहा अजवणिजोदगा वाहिरोगवेदणोदीरणपरिणामसलिला अमणुण्णपाणिअगा चंडानिलयपहत्ततिक्खधाराणिवातपउरवासिहित्ति जे णं भरहे वासे गामागारणगरखेडकव्वडमडंवदो णमुहपट्टणा समगयभणवयचउप्पयगवेलए खहयरेखहसंघे गामारण्णप्पयारणिरए तसे अ पाणे बहुप्पयारे रूक्खगुच्छगुम्मलयवल्लिप्पवालं कुरमादीए तणवणस्सइकाइए ओसही ओ अ विट्ठ सेहित्ति पव्वयगिरिडंगरूत्थलभट्ठिमाढीए। वेअडगिरिवजे विरावेहिंति सलिलविलविससमगडणिगुण्णयाणि अगंगासिंधुवज्जाइ समीकरेहिति। अथापरं च हे गौतम ! अभीक्ष्णं पुनः पुनः अरसा अमनोज्ञा रसवर्जितजला ये मेघास्ते तथा विरसा विरुद्धरसाये मेधास्तेतथा। एतदेवाभिव्यज्यते। क्षारमेघाः सर्जादिक्षारसमानजलोपेतमेघाः / करीषसमानरसजलोपेतमेघाः। (खट्टमेहत्ति ) क्वचिदृश्यते। तत्राम्लजला मेघाः। अग्निमेघाः अग्निवद्दाहकारिजला इत्यर्थः / विद्युत्प्रधाना एव जलवर्जिता इत्यर्थः / विद्युन्निपातवन्तो वा विद्युन्निपातकार्यकारिजलनिपातवन्तो वा मेघाः / विषमेघाः / जनमरणहेतुजलाः / अत्र " असणि मेहा" इत्यपि पदं क्वचित् दृश्यते / तत्रायमर्थः / करकादिनिपातवन्तः पर्वतादिदारणसमर्थजलत्वेन वा वज्रमेघाः / अयापनीयं न यापना प्रयोजकमुदकं येषां ले तथा / असमाधानकारिजला इत्यर्थः / क्वचिदपि ( वणिजोदगा इति) तत्रायातव्यजला इत्यर्थः / एतदेव व्यनक्ति / व्याधिरोगवेदनोदरणापरिणामसलिलाः / व्याधयः स्थिराः।