SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ओसप्पिणी 123 - अभिधानराजेन्द्रः - भाग 3 ओसप्पिणी कुष्ठादयो रोगाः / सद्योद्यातिशूलादयः तदुत्थाया वेदनाया योदीरणा अप्राप्तसमये उदयप्रापणा सैव परिणामः परिपाको यस्य सलिलस्य तत्तथा। तदेवंविधं सलिलं येषां ते तथा / अत एवामनोज्ञपानीयकाः। चण्डाऽनिलेन प्रहतानामाच्छोटितानां तीक्ष्णानां वेगवतीनां धाराणां निपातः। स प्रचुरो यत्र वर्षे सतथा। तंवर्षे वर्षिष्यन्ति करिष्यन्तीत्यर्थः। ग्रन्थान्तरे तुएते क्षीरमेघादयो वर्षशतोनैकविंशतिवर्षसहस्वप्रमाणदुष्षमाकालातिक्रमे वर्षिष्यन्तीति / अतस्तेन वर्षणेनारभ्य मेघादयः किं करिष्यन्तीत्याह (जेणं भरहेत्यादि) येन वर्षणेन करणभूतेन पूर्वोक्तविशेषणा मेघा विध्वंसयिष्यन्तीति संबन्धः / भरतवर्षे ग्रामाद्या आश्रमान्ताः प्राग्व्याख्यातार्थाः / तत्र गतं जानपदं मनुष्यलोकं तथा चतुष्पदा मनुष्यादयो गोशब्देन गोजातीया एडका उरभ्रास्तान् तथा खचरान् वैताढ्यवासिनो विद्याधरान तथा पक्षिसंधान तथा ग्राम्यारण्ययोर्यः प्रचारस्तत्र निरतानासक्तान्। सांश्च प्राणान्द्वीन्द्रियादीन् बहुप्रकारान् / तथा वृक्षानाम्राहीन् गुच्छान् वृन्ताकीप्रभृतीन् गुल्मान् नवमालिकादीन् / लता अशोकलताद्याः वल्लीः वालुक्यादिकाः प्रवालान् पल्लवाखरान् अङ्कुरान् शल्यादिबीजसूचीत्यादीन् तृणवनस्पतिकायिकान् बादरवनस्पतिकायिकान् सूक्ष्मवनस्पतिकायिकानां तैरूपधातासंभवात्। तथा औषधीश्च शाल्यादिकाश्चोऽभ्युच्चये ( पव्वएइत्यादि) यद्यपि पर्वतादयोऽन्यत्रैकार्थतया रूढास्तथापीह विशेषोदृश्यस्तया हि पर्वतनादुत्सवविस्तारणात्। पर्वताः क्रीडापर्वताः। उजयन्तवैभारादयः। गृह्णन्ति शब्दायन्ते जननिवासभूतत्वेनेति गिरयः गोपालगिरिचित्रकूटप्रभृतयः। डुङ्गानि शिलावृन्दानि चोरवृन्दानि वा सन्त्येषु इत्यस्त्यर्थे रप्रत्ययः डुङ्गराः शिलोचयमात्ररूपाः। उत् उन्नतानि स्तलानि धूल्युच्छ्यरूपाणि (भट्ठित्ति ) भ्राष्ट्राः पास्वादिवर्जिताः भूमयः / तत एतेषां द्वन्द्रस्ते आदिर्येषां तेतथा तान् आदिशब्दात्प्रासादशिखरादिपरिग्रहः / मकारोऽलाक्षणिकः चशब्दो मेघानां क्रियान्तरद्योतकः विद्रावयिष्य-- | न्तीति क्रियायोगः / अत्रार्थेऽपवादसूत्रमाह वैताळ्यगिरिवर्जान् पर्वतादीनित्यर्थः / शाश्वतत्वेन तस्याऽविध्वंसात्। उपलक्षणादृषभकूटशाश्वतप्रायश्रीशत्रुजयगिरिप्रभृतींश्च वर्जयित्वा तथा सलिलविलानि भूनिर्झराः विषमगाश्च दुःपूरश्वभ्राणि कश्चिदुर्गपदमपि दृश्यते / तत्र दुर्गाणि च खातवलयप्राकारादिदुर्गमाणि निम्नानि च तान्युन्नतानि निम्नोन्नतानि उचावचानीत्यर्थः / पश्चाद्वन्द्वः। तानि च कर्मभूतानि शाश्वतनदीत्वात् गङ्गासिन्धुवानि समीकरिष्यन्ति। (13) अथ तत्र भरतभूमिस्वरूपप्रश्नमाह। तीसे णं भंते ! समाए भरहस्स वासस्स भूमीए के रिसए / आगारभावपडोआरे भविस्सइागोयमा! भूमी भविस्सइइंगालभूआ मुम्मुरभूआ छारिअभूआ तवेल्लुअभूआ तत्तसमजोइभूआ धूलिबहुला रेणुबहुला पंकबहुला पणयबहुला चलणिबहुला बहूणि धरणिगोअराणं सत्ताणं दुन्निकमाया वि भविस्सइ। तस्यां भदन्त! समायां भरतस्य भूमेः कीदृशक आकारभावप्रत्यवतारो भविष्यति / भगवानाह गौतम ! भूमिभविष्यति / अङ्गारभूता ज्वालारहितवहिपिण्डरूपा मुर्मुरभूतविरलाग्निकणरूपाक्षारिकभूता | भस्मरूपा तप्तकवेच्छकभूता वह्निप्रतप्तकवेल्लुकरूपा। तप्तसमज्योतिभूता तप्तेन भावे क्तप्रत्ययविधानात् तापेनसमा तुल्या ज्योतिषा वहिना भूता जाता या सा तथापदव्यत्ययः / एवं समासश्च प्राकृतत्वात् / धूलिबहुलेत्यादौ धूलिः पांसुः रेणुः वालुका पङ्कः कर्दमः / पनकः प्रतलः कर्दमः। चलनप्रमाणकर्दमश्चलनीत्युच्यते। अत एव बहूनां धरणिगोचराणां सत्वानां दुःखेन नितरां क्रमः क्रमणं यस्यां सा / दुनिष्क्रमा दुरतिक्रमणीयेत्यर्थः। चः समुच्चये अपिशब्देन दुर्निषदादिपरिग्रहः / अत्र बहूनामित्यादितः प्रारभ्य भिन्नवाक्यत्वेनोत्तरसूत्रवर्तिना भविष्यति पदेन पौनरूक्तयम्। अथ तत्र मनुष्यस्वरूपं पृच्छति। तीसे णं मंते ! समाए भरहे वासे मणुआणं के रिसए आयारभावपडोयारे भविस्सइ / गोयमा ! मणुआ भविस्संति दुरूवा दुवण्णा दुग्गंधा दुरसादुफासा अणिट्ठा अकंता अप्पिआ असुभा अमणुन्ना अमणोमा हीणस्सरा दीणस्सरा अकंतस्सरा अप्पिअस्सरा अमणुण्णस्सरा अणादेजवयणचायाता णिलज्जा कूडकवडकलहवहबंधवेरनिरया मज्जायातिक्कमप्पहाणा अकअणिचुजाया गुरुणिओगवियणरहिआय विकलरूवा परूढणहकेसमंसुरोमा कालाखरफरूससमावण्णपुट्टसिराकविलपलिअकेसा बहुण्हाउसंपिणद्धदुदंसिणजरूवा संकुडिअवलीतरंगपरिवेट्ठिअंगमंगाजरापरिणयव्वथेरगणरा पविरलपडिसाडिअदंतकेससेढ / उब्भडघडयमुहा विसमणयणा वंकणासा वंकवलिविगयभीसणमुहा दहुकिट्टिभसिध्मफुडिअफरू सच्छवी चित्तलंगमंगा कच्छूखसराभिभूआ खरतिक्खणक्खकंडूअविकयतणू ढोलग्गतिविसमसंधिवंधणा उक्कुडिअस्थिअविभत्तदुव्वलकुसंघयणकुप्पमाणकुसंठिआ कुरूवा कुट्ठाणासणकुसेज्जकुमोइणो असुइणेगव्वाहिपीलिअअंगा खलंतविन्भलगई णिरूच्छाहा सत्तपरिवजिआ विगयचेट्ठा नट्ठतेआ अभिक्खणं सीउण्हरखरफरूसवायविज्झडिअमलिणपंसुरओगुंडिअंगमंगा बहुकोहमाणमायालोमा बहुमोहा असुभदुक्खभागी ओसण्णध-- म्मसण्णसम्मत्तपरिभट्ठा उक्कोसेणं रयणिप्पमाणमेत्ता सोलसवीसइवासपरमाउसो। बहुपुत्तणत्तुपरिवालपणयबहुला गंगासिंधूओ महाणईओ वेअळंच पव्वयं नीसाए वावत्तरिणिगोआवीअंवीअमेत्ता विलवासिणो मणुआ भविस्संति। (तीसेणमित्यादि) प्रश्नसूत्रं प्राग्वत् निर्वचनसूत्रे गौतम! मनुजा भवन्ति कीदृशा इत्याह / दुरूपाः दुःस्वभावा / दुर्वर्णाः कुत्सितवर्णाः / एवं दुर्गन्धाः / दूरसाः रोहिण्यादिवत् कुत्सितरसोपेताः / दुःस्पर्शाः / कर्कशादिकुत्सितस्पर्शाः / अनिष्टा अनिच्छाविषयाः / अनिष्टमपि किं चित्कमनीयं स्यादित्यत आह / अकान्ताः अकमनीयाः। अकान्तमपि किंचित् कारणवशात्प्रीतये स्यादतोऽप्रिया अप्रीतिहेतवः / अप्रियत्वं च तेषां कुत इत्याह / अशुभा अशोभनभावरूपत्वात्। अशुभत्वं च विशेषत आहानमनसा सातवेदनेनशुभतयाज्ञायन्तेइत्यमनोज्ञाः।अमनोज्ञतया अनुभूतमपि स्मृतिदशायां दशाविशेषेण किंचिन्मनोझं स्यादत आह / अमनोमाः न मनसा अम्यन्ते गम्यन्ते पुनः स्मृत्या इत्यमनोमाः। ए
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy