________________ ओसप्पिणी 120- अभिधानराजेन्द्रः - भाग 3 ओसप्पिणी प्रायः सूत्रं गतार्थमेव नवरं केवलं नानात्वं भेदः स चायं चतुर्धनु:सहस्रोच्छ्रिताः क्रोशद्रयोच्चास्ते मनुजाः इति योगः मकारोऽलाक्षणिकः अष्टाविंशत्यधिकमेकं पृष्ठकरण्डुकशतं प्रथमाकरोक्तपृष्ठकरण्डुकानामर्द्धमिति यावत् तेषां मनुजानामिति योगः षष्ठभक्तेऽतिक्रान्ते आहारार्थः समुत्पद्यते इति योगसूत्रे सप्तम्यर्थ षष्ठी सूत्रत्वात् चतुःषष्टिं रात्रिन्दिवानि यावत् संरक्षन्ति / अपत्यानि ते मनुजा इति योगः तत्र सप्तावस्थाक्रमः पूर्वोक्त एव नवरमेकैकस्या अथाऽवस्थायाः कालमानं नव दिनानि अष्टौ घट्यश्चतुस्त्रिंशत्पलानि / सप्तदश चाक्षराणि किंचिदधिकानीति चतुःषष्टी सप्तमिाग एतावत एव लाभात्। यच पूर्वेभ्योऽधिकोऽपत्यसंरक्षणकालस्य हीयमानत्वेनोच्छादीनां हीयमानत्वादभूयसाऽनेहसा व्यक्तताभवनादिति एवमग्रेऽपि शेयम् द्वे पल्योपमे आयुः तेषां मनुजानामिति योगः एवमन्यत्रापि यथासंभवमध्याहारेण सूत्राक्षरयोजना कार्या / अन्यत्सव सुषमसुषमोक्तमेवेति। अत्रापि यथोक्तमायुःशरीरोच्छ्रायादिकं सुषमायामादौ ज्ञेयं ततः परं क्रमेण हीयमानमिति / अथात्र भगवान् स्वयमेवापृष्टानपि मनुष्यभेदानाह। तीसे णं समाए चउव्विहा मणुस्सा अणुसंजित्था तं जहा एका १पउरजंघा 2 कुसुमा 3 सुसमणा / अत्रान्वययोजना प्राग्वत्। एकाः 1 प्रचुरजङ्घा 2 कुसुमाः 3 सुशमनाः 4 एतेऽपिं प्राग्वजातिशब्दा ज्ञेयाः / अन्वर्थता चैवम् / एकाः श्रेष्ठाः संज्ञाशब्दात्वान्न सर्वादित्वं / प्रचुरंजडाः पुष्टजङ्घा न तु काकजङ्घा इति भावः / कुसुमसदृशत्वात् सौकुमार्यादिगुणयोगेन कुसुमाः पुंस्यपि कुसुमशब्दः / सुष्वतिशयेन शमनं शान्तेभावो येषां ते तथा प्रचुरतनुकषायत्वात् / अत्र पूर्वोक्तषट्प्रकारमनुष्याणां भावादेतेऽन्ये जातिभेदाः गतो द्वितीयारकः / (6) अथ तृतीयारकव्याख्या। तीसे णं समाए तिहिं सागरोवमकोडाकोडीहिं काले वीइकते अणंतेहिं वण्णपनवेहिं जाव अणंतगुणपरिहाणीए परिहायमाणी परिहायमाणी एत्थ णं सुसमदुस्समाणामं समा कालेपभिवजिंसु समणाउसो!। व्याख्या पूर्ववत् / नवरं परिहायमाणी इत्यत्र स्त्रीलिङ्गनिर्देशः समाविशेषणार्थस्तेन समाकाले इतिपदद्वयं पृथक् मन्तव्यम् / अयमेवाशयः सूत्रकृता " साणंसमे" त्युत्तरसूत्रं प्रादुश्चके इति। अथास्या एव विभाग-- प्रदर्शनार्थमाह। साणं समा तिहा विभाइ तं पढमे तिभाए 1 मज्झिमे तिभाए २पच्छिमे तिभाए 3 / सा सुषमदुष्षमानाम्नी समा तृतीयारकलक्षणा त्रिधा विभज्यते त्रिभागीक्रियते। तद्यथा प्रथमतृतीये भागे मयूरव्यंसकादित्यात् पूरणप्र--- त्ययलोपः। एवमग्रेऽपि अयं भावः द्वयोः सागरोपमकोटाकोट्योः त्रिभिर्भागे यदागतं तदैकेकस्य भागप्रमाणं तच्चेदं षट्षष्टिः कोटीलक्षाणां षट्षष्टिः कोटीसहस्त्राणां षट्कं कोटिः शतानि षट्षष्टिः कोटीनां षट्षष्टिः लक्षाणां | षट्षष्टिः सहस्राणां षट्कशतानां षट्षष्टिश्च सागरोपमाणां द्वौ च सागरोप- | मत्रिभागौ स्थापना चेयम्। 666666666666662 इति। अथाद्यभागयोः स्वरूपप्रश्नायाह जंबुद्दीवे णं भंते ! दीवे इमीसे ओसप्पिणीए सुसमदुस्समाए समाए पढममज्झिमेसु तिभाएसु भरहस्स वासस्स के रिसए आयारभावपडोआरे पुच्छा, गोअमा! बहुसमरमणिज्जे भूमिभागे होत्था सो चेव गमो अय्वो णाणत्तं दो धणुसहस्साई / उड्नं उच्चत्तेणं तेसिंणं च मणुआणं चउसटिपिट्ठकरंडुगा चउत्थमत्तस्स आहारत्थे समुप्पज्जइ ठिई पलिओवमएगूणा-सीइराइंदिआइं संरक्खंति संगोवेति जाव देवलोगपरिग्गहिआणं ते मणुआ पण्णत्ता समणाउसो!| "जंबुद्दीवेणमित्यादि" सर्वे गतार्थं नानात्वमित्ययं विशेषः। द्वेधनुःसहस्रे अर्वोचत्वेन क्रोशोच्चा इत्यर्थः / तेषां च मनुष्याणां चतुःषष्टिपृष्ठकरण्डुकानि अष्टाविंत्यधिकशतस्यार्थीकरणे एतावत एव लाभात् / चतुर्थे भक्तेऽतिक्रान्ते आहारार्थः। समुत्पद्यते। एकदिनान्तरित आहार इत्यर्थः / स्थितिः पल्योपमैकोनाशीतिरात्रिंदिवानि संरक्षन्ति संगोपायन्ति अपत्ययुगलकमित्यर्थः / तत्रावस्थाक्रमः तथैव नवरमेकै कस्या अवस्थायाः कालमानमेकादश दिनानि सप्तदशघट्यः अष्टौ पलानि / चतुस्विंशचाक्षराणि किंचिदधिकानि। एकोनाशीतेः सप्तभिर्भागे एतावत एव लाभात् / अस्यां च भिन्नजातिमनुष्याणामणुष्यंजना नास्ति तदा तेषामसंभवादिति संभाव्यते। तत्वं तु तत्वविद्वेद्यम्।यत्तु " उग्गामोगारायन्नखत्तिअ संगहो भवे चउहा" इत्युक्तम् / तदरकान्त्यभागभावित्वेन नेहाधिक्रियते। न त्वस्याः समायाः त्रिधा विभजनं किमर्थमुच्यते। यथा प्रथमारकादौ त्रिपल्योपमायुषस्त्रिगव्यूतोच्छ्रयास्त्रिदिनान्तरितभोजना एकोनपञ्चाशदिनानि कृतापत्यसंरक्षणास्ततः क्रर्मण कालपरिहाण्या द्वितीयारकादौ द्विपल्योपमायुषः द्विगव्यूतोच्छ्र या द्विदिनान्तरितभोजनाश्चतुःषष्टिदिनानि कृतापत्यसंरक्षणा स्ततोऽपि तथैवं परिहाण्या तृतीयाकारदौ एकपल्योपमायुष एकगव्यूतोच्छ्राया एकदिनान्तरितभोजना अशीतिदिनानि कृतापत्यसंरक्षणास्तदनन्तरमपि त्रिधा विभज्य तृतीयारकप्रथमत्रिभागद्वयं यावत् तथैव नियतपरिहाण्या हीयमानयुग्मिमनुजा अभूवन्नन्तिमत्रिभागेषु सा परिहाणिरनियता जातेति सूचनार्थ त्रिभागकरणं सार्थकमिति संभाव्यते / अन्यथागमसंप्रदायविभागकरणे हेतुरखगन्तव्य इति अथ तृतीयारकस्वरूपप्रश्नायाह / तीसे णं भंते ! समाए पच्छिमे तिभागे भरहस्स वासस्स केरिसए आयारभावपडोयारे यहोत्था गोयमा! बहुसमरमणिजे भूमिभागे होत्था से जहाणामए आलिंगपुक्खरेइ वा जाव मणीहिं उवसोमिए तं जहा कित्तिमेहिं चेव अकत्तिमेहिं चेव। (तीसेणमित्यादि ) यदेव दक्षिणार्धभरतस्वरूपप्रतिपादनाधिकारे व्याख्यातं तदत्रसूत्रे निरवशेष ग्राह्यं नवरमत्र कृष्यादिकर्माणि प्रवृत्तानीति कृत्तिमैस्तृणैरकृत्तिमैर्मणिभिरित्युक्तम् / अथाव मनुजानां स्वरूपं पृच्छन्नाहतीसे णं भंते ! समाए पच्छिमे तिभागे भरहे वासे मणुआणं के रिसए आयारभावपडोआरे होत्था गोयमा ! तेसिणं मणुआणं छविहे संघयणे छविहे संठाणे बहूणि धणुसयाणि उड्डं उचतेणं जहण्णेणं संखिजाणि वासाणि उक्कोसेणं असंखिज्जाणि वासाणिं आउ पालें ति पा