SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ओसप्पिणी 116 - अमिधानराजेन्द्रः - भाग 3 ओसप्पिणी परिहानिरपचयस्तया प्रकारभूतया इत्यर्थः / हीयमानः हीयमानः सुषमा कालविशेष इति योज्यम् / एवमग्रेऽपि योजना कार्या / अथ यथैषामनन्तत्वमनुसमयमनन्तगुणहानिश्च तथा दर्श्यते "तीसेणं समाए उत्तमकछपत्ताए " इति प्रागुक्तबलात् / प्रथमसमये कल्पद्रुमपुष्पफ्लादिगतो यः श्वेतो वर्णः स उत्कृष्टः तस्य केवलिप्रज्ञप्ता छिद्यमाना यदि निर्विभागा भागाः क्रियन्ते तहिं अनन्ता भवन्ति तेषां मध्यादनन्तभागात्मक एको राशिः प्रथमारकद्वितीयसमये त्रुट्यति एवं तृतीयादिसमयेष्वपि वाच्यम्। यावत्प्रथमारकान्तसमयः। एषैव रीतिरवसर्पिणीचरमसमयं यावत् शेया। अत एवानन्तगुणपरिहाणीत्यत्र अनन्तगुणानांपरिहाणिरितिषष्ठीतत्पुरुष एव विधेयो नतु अनन्तगुणा चासौ परिहाणिश्चेति कर्मधारयः। गुणशब्दैश्व भागपर्यायवचनोऽनुप्रयोगद्वारवृत्तिकृता एक गुणकालकपर्यवविचारे सुस्पष्टमाख्यातः आहा एवं सति श्वेतवर्णस्यासन्न एव सर्वथोच्छेदस्तथा च सति श्वेतवस्तुनोऽश्वेतत्वप्रसङ्ग / एतच जातिपुष्पादिषु प्रत्यक्षविरूद्धम् / उच्यते / आगमेऽनन्तकस्यानन्तभेदत्वात् / हीयमानभागानामनन्तकमल्पं ततो मौलराशेः भागानन्तकं बृहत्तरमवगन्तव्यम्। यदि नाम सिद्धस्यापि भव्येषु लोकेषु न तेषामनन्तकालतोऽपि निर्लेपता आगमेऽभिहिता किं पुनःसर्वजीवेभ्योऽनन्तगुणानामुत्कृष्ट वर्णगतभागानां न च ते संख्याता एव सिद्ध्यन्ति इमे तु प्रतिसमयेऽनन्ता हीयन्ते इति महदृष्टान्तवैषम्यमिति वाच्यं यतस्तत्र यथा सिध्यतां भव्यानां संख्याकानां तथा सिद्धेः कालोऽनन्तः। एवमन्यत्रापि यथा प्रतिसमयमनन्तानामेषां हीयमानता / तथा हानिकालोऽवसर्पिणी--प्रमाण एव ततः परमुत्सर्पिणीप्रथमसमयादौ तान्येव क्रमेण वर्द्धन्ते इति सर्व सम्यगेव। पीतादिषु गन्धरसस्पर्शषु च यथासंभवमागमाविरो धेन भावनीयं, तथा अनन्तैः संहननपर्यवैरिति संहननानि अस्थिनिचयरचनाविशेषरूपाणि / वजऋषभनाराचऋषभनाराचनाराचार्द्धनाराचकीलिकासैवार्तभेदात् षट् / प्रस्तुते चारके आद्यमेव ग्राह्यम् / ऋषभनाराचादीनामभावात्। अन्यत्र यथासंभवंतानि ग्राह्याणि तत्पर्यवा अपि तथैव हापयनीयाः / संहननैश्च शरीरे दायमूपजायते / तच सर्वोत्कृष्ट सुषमसुषमाद्यसमये ततः परमनन्तैः पर्यवैः समये समये हीयते इति / तथा संस्थानानि आकृतिरूपाणि / समचतुरस्रन्यग्रोधसा-- दिकुब्जकवामनहुण्डभेदात्षोढा / तच्च तत्र प्रथमं प्रथमे समये सर्वोत्कृष्ट ततः परं तथैव हीयते। इति तथोच्चत्वं शरीरोत्सेधस्तच तत्र प्रथमे समये त्रिगव्यूतप्रमाणमुत्कृष्ट ततः परं तत्प्रमाणतारतम्यरूपाः पर्यवाः अनन्ताः समये समये हीयन्ते। ननु उच्चत्वं हि शरीरस्य स्वावगाढमूलक्षेत्रादुपरितनोपरितननभःप्रदेशावगाहित्वं तत्पर्यवाश्च एकद्वित्रिप्रतरावगाहित्वान्तादयोऽसंख्याता एवमवगाहसंख्या तत्प्रदेशात्मकत्वात्। तर्हि कथमेषामनन्तत्वं कथं चानन्तभागपरिहाण्या हीयन्ते इति चेदुच्यते। प्रथमारके प्रथमसमयोत्पन्नमुत्कृष्टं शरीरोच्चत्वं भवति। ततो द्वितीयादिसमयोत्पनानां यावतामेकनभःप्रतरावगाहि च लक्षणपर्यवाणां हानि-- स्तावत्पुद्गलानन्तकं हीयमानं द्रष्टव्यम्। आधारहीनावाधेयहानेरावश्यकत्वादिति / तेनोचपर्यवाणामप्यनन्तत्वं सिद्धम नभःप्रतरावगाहस्य पुद्गलोपचयसाध्यत्वात् / तथा आयुर्जीवितं तदापि / तत्र प्रथमसमये त्रिपल्योपमप्रमाणमुत्कृष्टं तदनन्तरं तत्पर्यवा अपि अनन्ताः प्रतिसमयं हीयन्ते। ननुपर्यवा एकसमयोना द्वितीयोना यावदसंख्यातसमया उत्कृष्टा | स्थितिरिति स्थितिः स्थानतारतम्यरूपा असंख्याता एव आयुःस्थितेरसंख्याते समयात्मकत्वात् तहिं कथं सूत्रेऽनन्तैरायुःपर्यवैरित्युक्तम् / उच्यते प्रतिसमयं हीयमानस्थितिस्थानकारणीभूतानि अनन्तानि आयुःकर्मदलिकानि परिहीयन्ते / ततः कारणहानौ कार्यहानेरावश्यकत्वात् तानि च भवस्थितिकारणत्वादायुःपर्यवा एव। अतस्ते अनन्ता इति / यथा अनन्तैर्गुरूलघुपर्यवैरिति गुरूलघुद्रव्याणि बादरस्कन्धद्रव्याणि / औदारिकवैक्रियाहारकतैजसरूपाणि तत्पर्यवास्तत्र प्रकृते वैक्रियाहारकयोरनुपयोगस्तेनौंदारिकशरीरमाश्रित्योत्कृष्टवर्णादयस्तत्राद्यसमये बोध्याः। ततः परं तथैव हीयन्ते तैजसमाश्रित्य कपोतपरिणामकजाठराग्निरूत्कृष्टस्तत्रादिसमये तदनन्तरं मन्दमन्दतरादिवीर्यकत्वात् रूप इति / तथा अनन्तैरगुरुलधुपर्यवैरिति / अगुरुलघुद्रव्याणि सूक्ष्मद्रव्याणि प्रस्तुते च पौगलिकानि मन्तव्यानि। अन्यथा पौरालिकानां धर्मास्तिकायादीनामपि पर्यवहानिप्रसङ्ग। तानि च कार्मणमनोभायादिद्रव्याणि / तेषां पर्यवैरनन्तैस्तत्र कार्मण्यस्य सातवेदनीयशुभनिर्माणसुस्वरसौभाग्यादेयादिरूपस्य बहु स्थितिमनुगृह्य प्रदेशकत्वेन मनोद्रव्यस्य बहुग्रहणासंदिग्धग्रहणं झटिति ग्रहणबहुधारणादिमत्तया भाषाद्र व्यसोदात्तत्वं गम्भीरोपनी तरागत्वेप्रतिनादविधायितादिरूपतया च तत्रापि समये उत्कृष्टता। ततः परं क्रमेणानन्ताः पर्यवा हीयन्ते / अनन्तैरूत्थानदिपर्यवैः तत्रोत्थानमूर्ध्वभवनं कर्मोत्क्षेपणादि गमनादि वा बलं शारीरं प्राणाः / वीर्य जीवोत्साहः / पुरूषकारः पौरूषाभिमानः पराक्रमश्च स एव साधिताभिमतप्रयोजनः। अथवा पुरूषकारः पुरूषक्रिया सा च प्रिया स्त्री क्रियते प्रकर्षवतीति तत्स्वभावत्वादिति विशेषेण तद्रहणं पराक्रमस्तुशत्रुवित्रासनंतत एते प्राक्तनसमये उत्कृष्टास्ततः परं प्रतिपाद्याः तथैव हीयन्ते / तथा " संघयणं संठाणं, उचत्तं आउअंच मणुआणं / अणुसयं परिहायइ, ओस्सपिणी कालदोसेणं // 1 // कोहमयमायलोभा, उसभं वखए अ मणुआणं / कूडतुलकूडमाणं, तेणाणुमाणेण सव्वं पि॥ 2 // विससा अज्जतुला उ, विसमाणि अजणवएसु माणाणं ।विसमाए य कुलाई, तेण उ विसमाई वासाई / / 3 / / विसमेसु अ वासेसु, हॉतिअ साराई ओसहिवलाई। ओसहिदुव्वल्ले ण य, आउं परिहायइणराणं" || 4 / / इति तण्डुलवैकारिके अवसर्पिणीकालदोषेण हानिरुक्ता / सा बाहुल्येन दुःषमामाश्रित्य शेषारकेषु तु यथासंभव ज्ञेयेति / ननु निर्द्रव्यस्यापिकालस्य कथं हानिरिति परकृतासंभवाशङ्कानिवारणार्थ वर्णादिपर्यवाणां हानिरूक्ता ते च पुगलधर्मास्तर्हि अन्यधम हीयमाने विवक्षितः कालः कथं हीयत इति महदसंगतं तथा सति वृद्धया वयोहानी युवत्या अपि वयोहानिप्रसङ्ग इति चेन्न कालस्य कार्यवस्तुमात्रे कारणत्वाङ्गीकरात् कार्यगता धर्माः कारण उपचर्यन्ते कारणत्वसंबन्धादिति। अथ प्रस्तुतारकस्य रूपप्रश्नायाह। जंबुद्दीपे णं भंते ! दीवे इमीसे ओसप्पिणीए सुसमाए उत्तमकट्ठपत्ताए भरहस्स वासस्स के रिसए आयारभावपडोयारे होत्या गोयमा ? बहुसमरमणिज्जे भूमिभागे होत्था / से जहाणामए आलिंगपुक्खरेइ वा तं चेव जं सुसमसुसमाए पुस्ववण्णि णवरं णाणत्तं चउधणुसहस्सभूसिआ एगे अट्ठावासे पिट्ठकरंडुगसए छट्ठभत्तस्स आहारट्टे चउसद्धिं राइंदिआई संरक्खंति दो पलिओवमाइं आउसेसं तं चे
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy