SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ओसप्पिणी 116 - अभिधानराजेन्द्रः - भाग 3 ओसप्पिणी ष्याणां परिभोग्यतया कदाचिदागच्छन्ति नैतासांदुग्धादि तेषामुपभोग्य-- मिति यावत्। अस्थि णं भंते ! भरहे वासे आसाइ हत्थिउट्ठगोणगवयअयएलगपसयमिअवराहरूरूसरमचमरसंवरकुरंगगोकण्णमाइआ हंता। अत्थि णो चेवणं तेसिं परिभोगत्ताए हव्वमागच्छंति। अत्राश्वाः हस्तिनः उष्ट्राः प्रतीताः। गोणा गावः गवयोवनगवः। अजैङको स्पष्टौ / प्रश्नया विखुरा आटव्यपशुविशेषाः / मृगवराही व्यक्तौ / रूरवो मृगविशेषाः / शरभा अष्टापदाः / चमरा अरण्यगवा यासां पृच्छकेशाश्चामरतया भवन्ति। शम्बरा येषामनेकशाखे शृङ्गे भवतः। कुरङ्गगोकर्णो मृगभेदौ / शृङ्गवर्णादिविशेषाश्च सामर्थ्याद्गम्याः / अत्रोत्तरं हन्तेति कोमलामन्त्रणे सन्ति न चैव तेषां प्रथमसमाभाविनां मनुष्याणां यथासंभवमारोहणादिकार्येषूपयुज्यन्ते। अथश्वापत्प्रश्नसूत्रमाह! अस्थि णं भंते ! भरहे वासे सीहाइ वा वग्धाइ वा विगदीविगच्छतरच्छसिआलाइ वा वेरालसुणगकोकं तिअकोलसुणगाइ वा हंता अस्थि णो चेवणं तेसिं मणुआणं आवाहं वा पवाहं वा छविच्छेअंवा उप्पाएंति पयडिभद्दयाणं ते सावयगणा पण्णत्ता। समणाअसो! अत्र सिंहाः केसरिणः।व्याघ्राः प्रतीताः / वृकाः ईहामृगाः। द्वीपिनश्चित्रकाः। ऋक्षाः अच्छभल्लाः। तरक्षवो मृगादनाः शृगाला व्यक्ताः। विडाला मार्जाराः / श्वनकाः श्वानः / कोकन्तिका लोमटिका ये रात्रौ कोको इत्येवं रवन्ति / कोलशुनका महासूकराः। अत्रोत्तरं सन्ति परं नैव तेषां मनुजानामाबाधांवा ईषबाधां वा प्रबाधां वा विशेषेण बाधां छविच्छेदं वा चर्मकर्तनमुत्पादयन्ति / यतः प्रकृतिभद्रकास्ते श्वापद्गणाः प्रज्ञप्ताः। अस्थि णं भंते ! भरहे वासे सालीति वा वीहिगोहूमजवजवा कलमसूरमुग्गमासतिलकुलस्थिणिप्फावं आलिसंदगअयसिकुसुंभकोदवकंगुबरगरालगसणसरिसवमूलगवीआइ वा हंता अस्थि णो चेव णं तेसिं मणुआणं परिभोगत्ता ए हट्वमागच्छंति। अत्र शालयः कलमादिविशेषाः / व्रीहयः सामान्यतः / गोधूमयवौ प्रतीतौ / यवयवा यवविशेषाः (कलत्ति) कलास्त्रिपुटाख्या वृहच्चणका वा मसूरा मालवादिदेशप्रसिद्धाः धान्यविशेषाः / मुद्माषतिलाः। कुलत्थाश्च पलकतुल्याश्चिपिटा भवन्तिनिष्पावा वल्लाः ( आलिसंदगत्ति ) चपलकाः अतसी धान्यं यस्य तैलमतसीतैलमिति प्रतीतम् कुसुंभत्ति) लट्टकेणाः यत्पुष्पैर्वस्त्रादिरागः समुत्पाद्यते। कोद्रवाः प्रतीताः। कङ्गवः पीततण्डुलाः। (वरगत्ति) वरगोधान्यविशेषःसपादलक्षादिषुप्रसिद्धः / रालकः कङ्गुविशेष एव स चायं वृहच्छिराः / कङ्गुरल्पशिरालकः / शणं त्वक्प्रधाननालो धान्यविशेषः सर्षपाः प्रतीताः। मूलकवीजकादिकाः रूढितोऽवसेयाः सन्त्येते परंनचते उपभोगमागच्छन्ति कल्पद्रुमपुष्पफ लानाहारकत्वात्तेषामिति। अस्थि णं भंते ! भरहे वासे गत्ताइ वा दरी ओवाय पवायविसमविजालाइ वा णो इणढे समढे भरहे णं वासेबहुसमरमणिले भूमिभागे पण्णत्ते / से जहाणामए आलिंगपुक्खरेइ वा। अत्र गर्ता महाखण्डाः / दरी मूषिकादिकृता लध्वीखण्डा / अवपोतः प्रपातस्थानम् / यत्र चलन् जनः सप्रकाशेऽपि पतति / प्रपातो भृगुः यत्र जनः कांचित्कामनां कृत्वा प्रपतति। विषमं दुरारोहावरोहस्थानम् / जलं स्निग्धकर्दमाविलस्थानं यत्र जनोऽतर्कित एव पतति। नायमर्थः समर्थ इत्यादि न सन्तीत्यर्थः भारते वर्षे बहुसमरमणीयो भूमिभागो यतः प्रज्ञप्तः / " से जहाणामए" इत्यादि वर्णकं प्राग्वत् ज्ञेयम्। अस्थि णं मंते ! भरहे वासे ठाणूइ वा कंटगतणकयवराइ वा पत्तकवयराइ वा णो इणढे समढे ववगयठाणुकंटगभणकयवरपत्तकयवराणं सासमा पण्णत्ता। अत्र स्थाणुरूर्ध्वकाष्ठं कण्टकः स्पष्टः / तृणान्येव कचवरः पत्राण्येव कचवरः। अत्राह नेत्यादि।यतोव्यपगतस्थाणुर्यावत्पत्रकचवरा सा सुषमसुषमानानी समारकः प्रज्ञप्तः। अत्थि णं भंते ! भरहे वासे डंसाइ वा डसगाइ वा जूआइ वा लिक्खाइ वा दिकुणाइ वा पिसुआइ वा णो इणढे समढे ववगयसमसगजूअलिक्खटिंकुणपिसुअउवद्दवविरहिआणं सा समा पण्णत्ता। अत्र देशमशकयूकालिक्षाः स्पष्टाः / ढिङ् कुणा मत्कुणाः यदाहुः / श्रीहेमसूरयो देश्यां "मक्कुणए टिंकुणढंकुणा तहा ढंकणापिहाणीए इति" पिशुकाश्चञ्चटा अत्राचार्यः / व्यपगतदंशमशकयूकालिक्षा तथा ढिकुणा पिशुकोपद्रवविररहिताः पश्चात्कर्मधारयः सा समा प्रज्ञाता / अत्र सूत्रे व्यपगतेत्यादिविशेषणस्य कर्मधारयं विना व्याख्यानं करणे प्रस्तुतमूलादर्श "विरहिअत्ति" पदं प्रमादापतितमिति ज्ञेयम्। तदर्थस्य तत्वतो व्यपगतपदेनैवोक्तत्वात्। अस्थि णं भंते ! भरहे वासे अहाइ वा अयगराइ वा हंता अस्थि णो चेव णं तेसिं मणुआणं आवाहं वा जाव पगइभइयाणं ते वालगणा पण्णत्ता। अत्राहये सामान्यतः सप्र्पाः अजगराः महाकायसर्पाः शेषं पूर्ववत्। यतः प्रकृतिभद्रकास्ते व्यालगणाः सरीसृपजातीयगणाः प्रज्ञप्ता इति / अग्रे ग्रहयुद्धसूत्र जीवाभिगमादिषु साक्षाद् दृष्टमपि एतत्सूत्रादर्शेषुन दृष्टमिति व्याख्यायामप्यलेखि। अस्थि णं भंते ! भरहे वासे डिवाइ वा कलहवोलखारवइर-- महाजुद्धाइ वा महासंगामाइ वा महासत्यपडणाइ वा महापुरिसपडणाइ वा णो इणढे समढे ववगयवेराणुबंधा गं ते मणुआ पण्णत्ता। अत्र डिंबडमरौ पूर्ववत् कलहो वचनादिः। बोलो बहूनामातनिामव्यक्ताक्षरध्वनिकलकलः क्षारः परस्परं मत्सरः / वैरं परस्परमसहमानतया हिंस्यहिंसकताध्यवसायः। महायुद्धानि व्यवस्थाहीनमहारणाः महासंग्रामाश्चक्रादिव्यूहरचनोपेततयासंव्यवस्था महारणाः / महाशस्त्राणि नागबाणादीनि तेषां निपतनानि हिंसाबुध्या वैरिषु मोचनानि / महाशस्त्रत्वं चैतेषामद्भुतविचित्रशक्तिकत्वात् / तथा हि नागबाणा धनुष्यारोपिता बाणाकारा मुक्ताश्वसन्तोजाज्वल्यमानाः सधश्चोल्कादण्ड
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy