________________ ओसप्पिणी 115 - अभिधानराजेन्द्रः - भाग 3 ओसप्पिणी र्यदायत्ता नृपेण चतुरङ्गसेना कृता भवति। सार्थवाहो यो गणिमादिक्रयाणकं गृहीत्वा देशान्तरं गच्छन् सहचारिणामध्वसहाषो भवति। अत्रोत्तरं नायमर्थः समर्थः / व्यपगता ऋद्धिर्विभवैश्वर्यं सत्कारश्च सेव्यतालक्षणो येभ्यस्ते तथा। अस्थि णं भंते ! भरहे वासे दासेइ वा पेसेइ वा सिस्सेइ वा भयगेइ वा भाइल्लाएइ वा कंमारएइ वा णो इणट्टे समढे ववगय आभिओगाणंति मणुआ पन्नत्ता। समणाउसो ! अत्थि णं भंते! तीसे समाए भरहे वासे मायाइ वा पियाइ वा भायभगिणिभजपुत्तधूआसुण्हाइ वा हंता अत्थि णो चेव णं तिव्वो पेमबंधणं समुप्पाइ। आसरणं क्रयः क्रीतः गृहददासीपुत्रो वा प्रेष्यः प्रेषणा) जनो दूतादिः। शिष्य उपाध्यायस्योपासकः शिक्षणीय इत्यर्थः / भृतकानि यत्कालमवधिं कृत्वा वेतनेन कर्मकरणाय धृतः दुष्कालादौ निःश्रितो वा भागिको द्वितीयाचंशग्राही कर्मकरः गणपुञ्जाद्यपनेता। अत्राह नायमर्थः / स०। यतस्ते मनुजा व्यपगतमाभियोगिकं कर्म येभ्यस्ते तथा। अत्राभियोग्यशब्दात् कर्मणि यप्रत्यये व्यञ्जनात्पञ्चमस्थायाः स्वरूपे वा इत्यनेनैकस्य यकारस्य लोप इति (अत्थिणमित्यादि) माता या प्रसूते। पिता यो बीजं निषिक्तवान् / भ्राता यः सहजातः / भगिनी सहजाता। भार्या भोग्या / पुत्रो जन्यः,धूता दुहिता। स्नुषा पुत्रवधूः / अत्र भगवानाहहन्तेत्यादिनेव चः पुनरर्थे तेषां मनुजानां तीव्रमुत्कट प्रेमबन्धनं समुत्पद्यते / तथाविधक्षेत्रस्वभावात् प्रतनुप्रेमबन्धास्ते युग्मिन इति ननु चतुर्दा कुटुम्बमनुष्येषु स्नुषासंबन्धो यथा आपेक्षिकस्तथा भ्रातृव्यभागिनेयादिसंबन्धः कथं न संभवी / उच्यते कुबेरदत्ता स्वकभाववत् सोऽप्युपलक्षणाद्ग्राह्यः। परं स्फुटव्यवहारत्वेनेमे एव संबन्धाः। अत्थि णं भंते ! भरहे वासे अरीइवा घायएइ वा वहएइ वा पडिणीएइ वा पचामित्तेइ वा णो इणट्टे समढे ववगयवेराणुसया णं ते मणुआ पण्णत्ता। समणाउसो! अरिः सामान्यतः शत्रुः वैरिको जातिनिबद्धवैरोपेतः। घातको योऽन्येन घातयति वधकः / स्वयं हन्ता व्यथको वा चपेटादिना तामकः। प्रत्यनीकः कार्योपघातकः / प्रत्यमित्रो यः पूर्व मित्रं भूत्वा पश्चादमित्रो जातः अमित्रसहायो वा। इहाचार्यः नायमिति यतो व्यपगतो वैरजन्यो-- ऽनुशयः पश्चात्तापो येभ्यस्ते तथा / वैरं कृत्वा हि तदुत्थफलविपाके पुमाननुशते इति। अस्थि णं भंते ! भरहे वासे मित्ताइ वा वइंसाइ वा णायएइ वा संघाटिएइ वा सहाइ वा सुहीइ वा संगएइति वा हंता अस्थि णो चेवणं तेसिं मणुआणं तिब्वे रागबंधणे समुप्पज्जइ। अत्र मित्रं स्नेहास्पदवयस्यः समानवयाः गाढतरस्नेहास्पदं ज्ञातकः स्वज्ञातीयः / यद्वा ज्ञातकः संवासादिना ज्ञातसहजपरिचित इत्यर्थ / संघाटिकः सहचारी / सखा समानखाद न पानोदाढतमस्नेहास्पदम् / सुहृद्यः मित्रमेव सकलकालमव्यभिचारी हितोपदेशदायी च। साङ्गतिकः संगतिमात्रघटितः। तेत्यादि पूर्ववत्। न चैवं तेषां मनुजानां तीव्र रागरूपं / बन्धनं समुत्पद्यते। अस्थि णं भंते ! भरहे वासे आवाहाइवा वीवाहाइवा जणाइवा सद्धाइवा थालीपागाइ वा मितपिंडनिवेदणाइवाणो इणढे समढे ववगयआवाहवीवाहजणसद्धथालीपागमितपिंडनिवेदणा णं ते मनुआ पण्णत्ता समणाउसो!। अत्र चाह / आहूयन्ते स्वजनास्ताम्बूलदानाय यत्र स आवाहः / विवाहात्पूर्व ताम्बूलदानोत्सवः / विवाहः परिणयनं / यज्ञः प्रतिदिवसं स्वस्वेष्टदेवतापूजा / श्राद्धं पितृक्रिया / स्थालीपाकः संप्रदायगम्यः / मृतपिण्डनिवेदनानिमृतेभ्यः श्मशाने तु तृतीयनवमादिषु दिनेषु पिण्डसमर्पणानि। अत्रोत्तरं नायमर्थः समर्थः। व्यपगताऽऽवाहविवाहयज्ञश्राद्धस्थालीपाकमृतपिण्डनिवेदनास्ते मनुजाः प्रज्ञप्ताः / अस्थि णं भंते ! भरहे वासे इंदमहाइ वा खंदणागजक्खभूअअवडतडागदहणदीरूक्खपव्वयथूभचेइअमहाइ वा णो इणढे समढे ववगयमहिमा णं ते मणुआ पण्णत्ता। इन्द्रः प्रतीतः तस्य महः प्रतिनियतदिवसभावी उत्सवः। एवमग्रेऽपि। स्कन्दः कार्तिकेयः / नागो भवनपतिविशेषः / यक्षभूतौ व्यन्तरविशेषौ। (अवडत्ति) अवटः कूपः। तडागः सरः। हृदनदीवृक्षपर्वताः प्रतीताः। स्तूपः पीठविशेषः। चैत्यं चेष्टदेवतायतनम्।अत्राह। व्यपगतमहिमानस्ते मनुजाः प्रज्ञप्ताः। अस्थि णं भंते ! भरहे वासे णडपेच्छाइवा णट्टजल्लमल्लमुट्ठिअवेलंवगकहगपवगलासगपेच्छाइ वा णो इणढे समढे ववगयकोउहल्लाणं ते मणुआ पण्णत्ता समणाउसो!। नटा नाटयितारः तेषां प्रेक्षणकं कौतुकदर्शनोत्सुकजनमेलकः / एवमग्रेऽपि। नृत्यन्ति स्म नृत्ताः कर्तरिक्तप्रत्ययः नृत्तविधायिनः / जल्लावरनाखेलकाः / मल्ला भुजयुद्धकारिणः / मौष्टिका मल्ला एव ये मुष्टिभिः प्रहरन्ति। विडम्बका विदूषकाः मुखविकारादिभिर्जनहास्योत्पादकाः। कथकाः सरसकथाकथनेन श्रोतृरसोत्पत्तिकारकाः।प्लवका ये जम्पादिभिर्गादिकमुत्प्लवन्ते गर्तादिलङ्घनकारिण इत्यर्थः / अथवा तरन्ति नद्यादिकं ये इति लासका ये रासकान् ददति तेषां प्रेक्षा उपलक्षणादाख्यायकप्रेक्षादिग्रहः। अत्रोत्तरं नायमर्थः समर्थः। यतो व्यपगतकुतूहलास्ते मनुजाः प्रज्ञप्ताः। अत्थि णं भंते ! भरहे वासे सगडाइ वा रहाइ वा जाणाइदा जुग्गगिल्लिथिलिसिविअसंदमाणीआइ वा णो इणढे समढे पायचारविहाराणं ते मणुआ पण्णत्ता समणाउसो। अत्र शकटानि प्रतीतानि / रथाः क्रीडारथादयः / यायन्ते गम्यन्ते एभिरिति व्युत्पत्या यानानि उक्तवक्ष्यमाणातिरिक्तानिगन्त्र्यादीनि। युग्यं पुरूषोत्क्षिप्तमाकाशयानं जम्पानमित्यर्थः (गिल्लित्ति) पुरूषद्वयोरिक्षप्ता डोलिका (थिल्लित्ति) वेसरादिद्वयनिर्मितो यानविशेषः शिबिका प्रतीता। स्यन्दमानिका पुरूषायामप्रमाणा शिबिकाविशेषः / अत्र प्रतिवचनं नायमित्यादि पादचारेण न तु शकटादिचारेण विहारो विचरणं येषां ते तथा / मनुजा इति। अत्थि णं भंते ! भरहे वासे गावीइ वा महिसीइ वा अयाइ वा एलगाइ वा हंता अस्थि णो चेव णं तेसिं मणुआणं परिभोगतए हव्वमागच्छति। अत्र गोमहिष्यजाः स्पष्टाः। एडका उरभ्रा आह। न च तेषां मन