________________ ओसप्पिणी 114 - अभिधानराजेन्द्रः - भाग 3 ओसप्पिणी ते भदन्ते ! मनुजास्तमनन्तररोदितस्वरूपमाहारमाहार्य ववसतौ कस्मिन्नुपाश्रये उपयान्ति उपगच्छन्ति।भगवानाह- गौतम! वृक्षरूपाणि गृहाणि आलया आश्रया येषां ते तथा / एवं विधास्ते मनुजाः प्रज्ञप्ताः हे श्रमणेत्यादि पूर्ववत्। अथैते गेहा काराः वृक्षाः किं स्वरूपा इति पृच्छति "तेसिणं भंते!रुक्खाणमि" त्यादिप्रश्नसूत्रपदयोजना सुलभा आकारभावप्रत्यवतारः प्राग्वत्। भगवानाहगौतम! तेवृक्षाः कूटं शिखरं तदाकारसंस्थिताः। प्रेक्षा इति पदैकदेशे समुदायोपचारात्। प्रेक्षागृह नाट्यगृहं द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसंबध्यते इति संस्थितशब्दः सर्वत्र योज्यः। तेनोत्प्रेक्षागृहं संस्थिता इति व्याख्येयप्रेक्षागृहाकारेण संस्थानवन्त इत्यर्थः / एवं छत्रध्वजतोरणस्तूपगोपुरवेदिका चोप्पफालं अट्टालकं प्रासादहवेंगवाक्षवालाग्रपोतिकावलभीगृहसंस्थिताः तत्र छत्राद्याः प्रतीताः / गोपुरं पुरद्वारं वेदिका उपवेशनयोग्या भूमिः / थोप्पफालं नाम मत्तवारणम् / अट्टालकः प्राग्वत् / प्रासादो देवतानां राज्ञां वा गृहम् / उच्छ्यबहुला वा प्रासादाः ते चोभयेऽपि पर्यन्तशिखराः। हर्म्य शिखररहितं धनवतां भवनं गवाक्षः स्पष्टः वालाग्रपोतिका नाम जलस्योपरिप्रासादा वलभी छदिराधारस्तत्प्रधानं गृहम् / अत्रायमाशयः। केचिदृक्षाः कूटसंस्थिताः तदन्ये प्रेक्षागृहसंस्थिताः तदपरेछत्रसंस्थिताः। एवं सर्वत्र भाव्यम्। अन्ये अत्र सुषमसुषमायां भरते वर्षे बहवो वरभवनं सामान्यलो विशिष्टगृहं तस्येव यद्विशिष्ट संस्थानं तेन संस्थिताः शुभा शीतला छाया येषां तेतथा। एवंविधा दुमगणाः प्रज्ञप्ताः।हे श्रमणेत्यादि पूर्ववत् प्राग्गेहाकारकल्पद्रुमस्वरूपवर्णक उक्तेऽपि एते परमपुण्यप्रकृतिका युग्मिन एषु सौन्दर्याश्रयेषु वसन्तीति ज्ञापनार्थं पुनस्तद्वर्णकरसूत्रारम्भः सार्थक इति / ननु तदा गृहाणि न सन्त्यपि वा गृहाणि धानीयन्ति न्ति न तेषामुपभोगाय यान्तीत्याशंकमानः पृच्छति ( अत्थि णमित्यादि ) अस्तीत्यस्य त्यादिप्रतिरूपकाव्ययस्य वचनत्रयसदृशरूपत्वेन सति व्याख्येयं सन्ति भदन्त ! तस्यां समायां भरतवर्षे गेहानि वा प्रतीतानि गृहेषु आतपनानि वा उपभोगार्थमागमनानि उत्तरसूत्रं प्राग्वत् एतेन तदा मनुष्यादिप्रयोगजन्यगृहाभावस्तत एव तेषामुपभोगार्थः तत्रापतनाभावश्चोक्तः। अत्थि णं भंते ! तीसे समाए भरहे वासे गामाइ वा जाव सण्णिवेसाइवा। णो इणढे समटे जहिच्छियकामगामिणो भंते ! मणुआ पण्णत्ता अस्थिणं भंते ! असीइ वा मसीइ वा किसीइवा वणिएत्ति वा पणिएत्ति वा वाणिजेइ वा / णो इणढे समढे ववगयअसिमसिकिसिवणिअपणिअवाणिज्जाणतेमणुआपण्णत्ता समणाउसो ! अत्थि णं भंते ! हिरण्णेइ वा सुवण्णेइ वा कंसेइ वा दूसेइ वा मणिमोत्तिअसंखसिलप्पवालरत्तरयणसावइज्जेइ वा हंता अस्थि णो चेवणं तेसिं मणुआणं परिभोगत्ताए हव्वमागच्छ। उक्तवक्ष्यमाणेषु एषु युग्मिसूत्रेषु प्रश्नोत्तरालापकवाक्ययोजना प्राग्वत् नवरं ग्रामावृत्या वृताः करणा ग्राम्या या यावत् करणान्नगरादिपरिग्रहः तत्र नगराणि चतुर्गापुरोद्भासीनि न विद्यते करो येषु तानि नकराणि वा कररहितानि नखादिनिपातनाद्रूपसिद्धिः निगमाः। प्रमूतवणिग्वर्गावासाः प्रांसुप्राकारनिबद्धानि क्वचिन्नद्यद्रिवेष्टितानि वा खेटानि क्षुलप्राकारवे-- ष्टितानि अभितः पर्वतवृतानि वा खर्वटानि अर्द्धतृतीयगव्यूतान्तामरहितानि ग्रामपञ्च शत् उपजीव्यानि वा मडम्बानि पत्तनानि जलस्थल पथयुक्तानि रतयोनिभूतानि वा सिन्धुवेलावलयपर्यन्तानि द्रोणमुखानि आकराः हिरण्याकरादय आश्रमास्तापसाश्रयाः / संबाधाः शैलशृङ्गस्थायिनो निवासाः यत्र समागतप्रभूतजननिवेशा वा राजधान्यो यत्र नगरे पत्तने अन्यत्र वा स्वयं राजा वसति संविनेशो यत्र सार्थकटकादेरावासाभवन्ति। अत्रोत्तरम्नायमर्थः समर्थः / अत्रार्थे विशेषणद्वारहेतुमाह। यथेप्सित इच्छामनतिक्रम्य काममत्यर्थ गामिनोगमनशीलास्ते मनुजाः अत्रात्यर्थ कथनेन तेषां सर्वदा स्वातन्त्र्यमुक्तम् / ग्रामनगरादिव्यवस्थायां तु नियताश्रयत्वेन तेषामिच्छानिरोधः स्यात्।जीवाभिगमेतु"जहिच्छिअकामगामिनो" इत्यस्य स्थाने “जनेच्छिअकामगामिणो" इति पाठस्तत्रायमर्थः / यद्यस्मान्नेच्छितकामे गामिनः न इच्छितमिच्छाविषयीकृतं नेच्छितं नायं नञ् किंतु नशब्द इत्यनादेशाभावः यथा नैकेषस्य पर्याया इत्यत्र नेच्छितमिच्छाया विषयीकृतं कामं स्वेच्छां गच्छतीत्येवंशीला नेच्छितकामगामिनस्तेमनुजाः इति यद्यपि गृहसूत्रेणेवार्थापत्या ग्रामाद्यभावः सूचितः तथाप्यव्युत्पन्नविनेयजनव्युत्पत्त्य-- र्थमेतत्सूत्रोपन्यासः (अत्थिणमित्यादि)अत्रासिः खङ्गो यमुपजीव्य स न सुखवृत्तिको भवति / अस्याः साहचर्यलक्षणाया असिशब्देनात्र अस्युपलक्षिताः पुरूषागृह्यन्ते एवमग्रेतनविशेषणेष्वपि यथायोग्यं ज्ञेयम्। यदुपजीवनेन लेखककला, कृषिः कर्षणं, वणिक् पण्याजीयः, पणितं क्रयाणकं, वाणिज्यं सत्यानृतमर्पणग्रहणादिषु न्यूनाधिकार्पणमित्यर्थः / अत्राह नायमर्थः समर्थः / यतस्ते व्यपगतानि असिमषीकृषिवणिक्प-- णितवाणिज्यानि येभ्यस्ते तथा मनुजाः प्रज्ञप्ताः / इति ( अस्थिणमित्यादि) हिरण्यं रूप्यमघटितसुवर्ण वा सुवर्ण घटितं कांस्य प्रतीतं, दूष्यं वस्वजातिः / मणिश्चन्द्रकान्तादिः / मौक्तिकं व्यक्तं, शङ्को दक्षिणादिः, शिला गन्धपेषणादिका, प्रवालं प्रतीतं, रक्तरत्नानि पद्मरागादीनि / स्वापतेयं रजतसुवर्णादिद्रव्यम्। ननु यदि हिरण्यं रूप्यं तदा रूप्यखानी तत्संभवः यदि वा घटितसुवर्ण तदा सुवर्णखानौ परं घटितं सुवर्ण,तथा ताम्रनपुसंयोगजं कांस्यं तथा तन्तुसन्तानसंभवं दुष्यं, तत्र कथं संभवेयुः। शिल्पिप्रयोगजन्यत्वात्तेषां न च तान्यत्रातीतोत्सर्पिणीसत्कनिधानगतानि संभवन्तीति वाच्यं सा हिसपर्यवसितप्रयोगबन्धस्यासंख्येयं कालं स्थितेरसंभवात्। एगोरुगोत्तरकुरुसूत्रयोरेतदालापकस्याकथनप्रसङ्गात। उच्यते संहरणप्रवृत्तक्रीडाप्रवृत्तदेवप्रयोगात् / तानि संभवन्तीति संभाव्यते / इहोत्तरं हन्तीति वाक्यारम्भे कोमलामन्त्रणे वा अस्ति हिरण्यादिकमिति शेषः / नैव तेषां मनुजानां परिभोग्यतया (हव्वमिति) कदाचिदागच्छति। अत्थि णं भंते ! भरहे राया इइ वा जुवराया ईसरतलवरमाडंविअकोदुविअइब्भसेडिसेणावइसत्थवाहाइ वा णो इणढे समढे ववगयइट्ठिसकाराणं ते मणुआ। अस्ति राजा इति वा चक्रवर्त्यादिः / युवराजा राज्याई इति यावत्। ईश्वरो भौगिकादिः / अणिमाद्यष्टविधैश्वर्ययुक्तो वा तलवरः सन्तुष्टनरपतिप्रदत्तसौवर्णपट्टालङ्कृतशिरस्कश्चौरादिशुद्ध्यधिकारी "मांडविय" पूर्वोक्तमडम्बाधिपः कौटुम्बिकः कतिपयकुटुम्बप्रभुः इभ्यो यद् द्रव्यनिचयंतैरिभो हस्त्यपि न दृश्यते। इभो हस्तीतत्प्रमाणं द्रव्यमर्हतीति निरुक्तादिभ्यः। श्रेष्ठी देवताध्यासितसौपर्णपट्टाल कृतशिराः पुरा ज्येष्ठो वणिग्विशेषः / सेनापति