________________ ओसप्पिणी 113- अभिधानराजेन्द्रः - भाग 3 ओसप्पिणी इव पुरीषोत्सर्गे निर्लेपतया पोसोऽपानदेशो येषां ते तथा। पुंस उत्सर्गे पुरीषमुत्सृजन्त्यनेनोतिव्युत्पत्तेः तथा। पृष्ठभागान्तरे पृष्ठोदरयोरन्तराले पार्श्वे इत्यर्थः / ऊरू च सक्थिनी च इति द्वन्द्वः / एतानि परिणतानि परिनिष्ठितताङ्गतानि येषां ते तथा / क्तान्तस्य परनिपातः सुखादिदर्शनात् / ततः पदद्वयकर्मधारयः / यथोचितपरिणामे तानि संजानातीत्यर्थः। षड्धनुः सहस्त्रोच्छ्रिता अत्रापि मकारोऽलाक्षणिकः। उत्सेधाडलतस्त्रिगव्यूतप्रमाणकाया इत्यर्थः / यच युग्मिनीनां किंचिदूनत्रिगव्यूतमप्रमाणोच्चत्यमुक्तंतदन्यतया न विवक्षितमिति भावः। अथ तेषां वपुषि पृष्ठकरण्डुकसंख्यामाह (तेसिणमित्यादि ) तेषां मनुष्याणां द्वेषट्पञ्चाशदधिके पृष्ठकरण्मुकशते पाठान्तरेण पृष्ठकरण्डकशतेवा प्रज्ञप्ते पृष्ठकर-- पडुकानि च पृष्ठवंशवल्युन्नताः अस्थिखण्डाः पंशुलिका इत्यर्थः / हे श्रमणेत्यादि प्राग्वत् / पुनस्तानेव विशिनष्टि (पउमुप्पलइत्यादि ) ते णमिति पूर्ववत्। मनुजाः पद्यं कमलमुत्पलं च नीलोत्पलम्। अथवा पञ पद्मकाभिधानंगन्धद्रव्यम् उत्पलं कुठं तयोर्गन्धेनपरिमलेन सदृशः समो यो निःश्वासस्तेन सुरभि सुगन्धि वदनं येषां ते तथा प्रकृत्या स्वभावेन उपशान्ता न तु क्रूराः / प्रकृत्या प्रतनवोऽतिमन्दीभूताः क्रोधमानमायालोभा येषां ते तथा। अतएव मृदु मनोज्ञ परिणामसुखावहमिति भावः। यन्मार्दवं तेन संपन्नाः नतु कपटमार्दवोपेताः। अलीना गुरुजनमाश्रिता अनुशासनेऽपि न गुरुषु द्वेषमापद्यन्ते इत्याशयः / अथवा आसमन्तात सर्वासु क्रियासु लीना गुप्ता नोल्वणचेष्टाकारिण इत्यर्थः / भद्रकाः कल्याणभागिनः। भद्रगा वा भद्रहस्तिगतयः। विनीता बृहत्पुरुषविनयकरणशीलाः। अथवा विनीता इव विजितेन्द्रिया इव अल्पेच्छा मणिक्लकादिप्रतिबन्धरहिताः। अत एव न विद्यते सन्निधिः पर्युषितखाद्यादेः संचयो धारणं येषां ते तथा विटपान्तरेषु शाखान्तरेषु प्रासादाद्याकृतिषु परिवसनमाकालमावासो येषां ते तथा / यथेप्सितान् कामान् / शब्दान् कामयन्ते अर्थात् भुञ्जते इत्यर्थः / एवं शीला येषां तेतथा इति / अत्र जीवाभिगमादिषु युग्मिवर्णनाधिकारे आहारार्थप्रश्नोत्तरसूत्रं दृश्यते। अत्र च कालदोषेण त्रुटित संभाव्यते अत्रैवोत्तरत्र द्वितीयतृतीयारकवर्णनकसूत्रे आहारार्थसूत्रस्य साक्षाद् दृश्यमानत्वादिति तेनावस्थापनाशून्यार्थं जीवाभिगमादिभ्यो लिख्यते (तेसिणं भंते ! मणुआणमित्यादि) तेषां भदन्त ! मनुजानां (केवइकालस्सत्ति) सप्तम्यर्थे षष्ठी। कियति / काले गते भूय आहारार्थ समुत्पद्यत इति / यद्यपि सरसाहारित्वेनैतावत्कालं तेषां क्षुद्वेदनोदयाभावात् एवाभक्तार्थता न निर्जरार्थं तपः तथाप्यभक्तार्थत्वसाधादष्टमभक्तमिति / अष्टमभक्तं चोपवासत्रयस्य संज्ञा इति / अथैते यदाहारयन्ति तदाह (पुढवीपुप्फेत्यादि ) पृथिवी भूमिः | फ्लानि च कल्पतरुफलाहारो येषां ते तथा / एवंविधास्ते मनुजाः प्रज्ञप्ताः / हेश्रमणेत्यादि पूर्ववत्। अथानयोराहारयोर्मध्ये पृथिवीस्वरूपं पृच्छन्नाह (तीसेणमित्यादि) तस्याः पृथिव्याः कीदृशः आस्वादः प्रज्ञप्तो वा युग-लधर्मिणामनन्तरपूर्वसूत्रे आहारत्वेनोक्तेत्यध्याहार्य भगवानाह गौतम ! तद्यथा “नामए इत्यादि" प्राग्वत्:गुड इक्षुरस क्वाथ इति। इति वाशब्दः प्राग्वत्।खण्डं गुडविकारः। शर्करा काशादिप्रभवा। मत्सण्डिका खण्डशर्करा / पुष्पोत्तरापद्मोत्तरे शर्करादावेव अन्ये तु पर्पटमोदकादयः खाद्यविशेषा लोकतोऽवसेयाः / एषां मधुरद्रव्यविशेषाणां स्वामिना निर्दिष्टषु नामसु एतादृशरसा पृथिवी भवेत्। कदाचिदिति विकल्पारूढमतिर्गौतम आहभवेदेतद्रूपः पृथिव्या आस्वादः / स्वाम्याह गौतम ! नायमर्थः समर्थः सा पृथिवी इतो गुडशर्करादेरिष्टतरिका एव स्वार्थे कप्रत्ययः यावत् करणात् कान्ततरिका चेव प्रियतरिका चेवेति परिग्रहः / मन आपत्तरिका एव आस्वादेन प्रज्ञप्ता इति। अथपुष्पफलानामास्वादं पृच्छन्नाहतीसे णं भंते ! पुप्फफलाणं केरिसए आसाएपण्णत्ते ? गोयमा ! से जहा णामए रण्णो चउरंतचक्कवट्टिस्स कल्लाणे भोअणजाए सयसहस्सनिप्पन्ने वण्णेणुववेए आसायणिज्जे विसायणिज्जे भवे एआरूवे णो इणढे समढे तेसि णं पुप्फफलाणं एतो इतरा चेव जाव आसाए पण्णत्ते। तेषां पुष्पफ्लानां कल्पद्रुमसंबन्धिनां कीदृशक आस्वादः प्रज्ञप्तो यानि पूर्वसूत्रे युग्मिनामाहारत्वेन व्याख्यातानीति गम्यम्। भगवानाह-गौतम ! तद्यथा नामराज्ञः सच लोके राजा कतिपयदेशाधीशोऽपि स्यादत आह / चतुर्थं तेषु समुद्रत्रयहिमवत्परिच्छिन्नेषु चक्रेण वर्तितुं शीलमस्येति चतुरन्तचक्रवर्ती अतः समृद्ध्यादौ वेत्यनेन दीर्घत्वम्। अनेन वासुदेवतो व्यावृत्तिः कृता तस्य कल्याणमेकान्तसुखावहं भोजनविशेषः / शतसहस्रनिष्पन्नं लक्षव्ययनिष्पन्नं वर्णेनातिशायिनेति गम्यते। अन्यथा सामान्यभोजनस्यापि वर्णमात्रवत्ता संभवत्येवेति किमाधिक्यवर्णनमुपपेतं युक्तं यावदतिशायिना स्पर्शनोपपेतं यावद्गन्धेनरसेन वातिशायिनोपपेतम् / आस्वादनीयं सामान्येन विस्वादनीयं विशेषतस्तद्रसमधिकृत्य दीपनीयमग्निवृद्धिकरं दीपयति जाठराग्निमिति दीपनीयं बाहुलकात्कर्तर्यनीयप्रत्ययः। एवं दर्पणीयमुत्साहवृद्धिहेतुत्वात्। मदनीयं मन्मथजनकत्वात्। वृंहणीयं धातूपचयकारित्वात्। सर्वाणि इन्द्रियाणि गात्रं च प्रल्हादयतीति सर्वेन्द्रियगात्रप्रल्हादनीयं वैशद्यहेतुत्वात् तेषामेवमुक्तम्। गौतम आह-भगवन् ! भवेदेतद्रूपस्तेषां पुष्पफलानामास्वादः। भगवानाह-गौतम! नायमर्थः समर्थः तेषां पुष्पफलानामितश्वक्रवर्तिभोजनादिष्टतरकादिरेवास्वादः / अत्र कल्याणभोजनसंप्रदायः / एवं चक्र वर्तिसंबन्धिनीनां पुण्ड्रे क्षुचारिणीनामनातङ्कानां गवां लक्षस्यार्द्धिक्रमेण पीतगोक्षीरस्य पर्यन्ते यावदेकस्याः गोः संबन्धि यत् क्षीरं तत्प्राप्तकलमशालिपरमानरूपमनेक-संस्कारकद्रव्यसन्मिश्र कल्याणं भोजनमिति प्रसिद्धं चक्रिणं स्त्रीरत्नंच विना अन्यस्य भोक्तुर्दुर्जर महदुन्मादकं चेति। अथैते उक्तस्वरूपमाहारमाहार्य व वसन्तीति पृच्छति। ते णं भंते ! तमाहारमाहारेत्ता कहिं वसहिं उर्वति? गोअमा! रूक्खगेहालया णं ते मणुआ पण्णत्ता समणाउसो ! तेसि णं भंते ! रूक्खाणं केरिसए आयारभावपडोआरे पण्णत्ते ? गोअमा! कूडागारसंठिआ पेच्छा छत्तज्झयतोरणथूभगोउरवेइआ चोप्फालअट्टालगपासायहम्मिअगवक्खवालग्गपोइआ वलभीघरसंठिआ अण्णे इत्थं बहवे वरभवणविसिट्ठसंठाणसंठिआदुमगणासुहसीअलच्छाया समणाउसो! अत्थिणं भंते ! तीसे समाए भरहे वासे गेहाइ वा गेहावणाइ वा गोयमा ! णो इणढे समढे रूक्खगेहालयाणं ते मणुआ पण्णत्ता समणाउसो ! /