________________ ओसप्पिणी 112- अभिधानराजेन्द्रः - भाग 3 ओसप्पिणी व्याकरणाद्यादर्शेष्वदृष्टोऽपिधवलशब्दो जीवाभिगमवृत्तौ दर्शनाल्लिखितोऽस्ति / अच्छिद्रा अविरला विमला निर्मला दशना दन्ता यासां तास्तथा। रक्तोत्पलयद्रक्तं मृदु सुकुमारमतिकोमलं तालु जिह्वा च यासां तास्तथा / करवीरकलिकावत् नासापुटद्वयस्य यथोक्तप्रमाणतया संवृताकारतया वाऽकुटिला अवक्रा अभ्युद्गता भुजयद्वयमध्यतो विनिर्गता / अत एव ऋज्वी सरला सती तुङ्गाउचान तुगवादिशृङ्गवद् वक्र सती तुङ्गेत्यर्थः। एवंविधा नासा यासांतास्तथा। शरदिभवं शारदं नवं कमलं रविवोध्यं कुमुदं चन्द्रबोध्यं कुवलयं तदेव नीलमेषां यो दलनिकरः पत्रसमूहस्तत्सदृशे लक्षणप्रशस्ते / अजिह्ये अमन्दे भद्रभावतया निर्विकारचपल इत्यर्थः / कान्ते नयने यासांतास्तथा / एतेन तदीयदृशामजितसुभगत्वमायतत्वं सहजचपलत्वं चाह / स्त्रीणामङ्गे हि नयनसौभाग्यमेव परमशृङ्गाराङ्गमिति पुनस्तद्विशेषणेन विशिनष्टि / पत्रले पक्ष्मवती न तु रोगविशेषाद्गतरोमके क्वचित्धवले कर्णान्तवर्तिनी क्वचिक्वचित्ताने लोचने यासां तास्तथा ( आणामिअत्ति ) अल्लीणविशेषणे प्राग्वत्। पीना मांसलतया न कूपाकारा मृष्टाः शुद्धा नतु श्यामच्छायामापन्ना गण्डलेखा कपोलपाली यासां तास्तथा / चतुर्यु अस्त्रेषु कोणेषु दक्षिणोत्तरयोः प्रत्येकमूधिोभागरूपेषु प्रशस्तमहीनाधिकलक्षणत्वात् सममविषमं ललाट यासांतास्तथा। कौमुदी कार्तिकी पौर्णिमा तस्या रजनिकरश्चन्द्रस्तद्वद्विमलं प्रतिपूर्णमहीनं सौम्यमक्रूरं न तु थूककान्तानामिव भीषणं वदनं यासां तास्तथा / ठत्रोन्नतोत्तमाङ्गा इति प्रतीतम्। अकपिलाः श्यामाः सुस्निग्धाः स्थूला भावादभ्यङ्गनिरपेक्षतया निसर्गचिक्वणा सुगन्धा दीर्धा न तुपुरुषकेशा इव निकुरम्बभूताः / नापि धम्मिल्ला विपरिणाममापन्नाः / संयमविज्ञानाभावात् शिरोजा यासां तास्तथा।छत्रं 1 ध्वजः 2 यूपः स्तंभविशेषः 3 स्तूपः पीठः 4 दामिणीति रूढिगम्यं 5 कमण्डलुस्तापसपानीयपात्रं 6 कलसः 7 वापी 8 स्वस्तिकः 1 पताका 10 यवः 11 मत्स्यः 12 कूर्मः 13 रथवरः 14 मकरध्वजः कामदेवस्तत्संसूचकं सूचनीये सूचकोपचाराल्लक्षणमिति। तच सर्वकालमविधवात्वादिसूचकम् 15 अङ्कश्चन्द्रबिम्बान्तर्वर्ती मृगावयवः 16 कृचिदङ्कस्थाने शुक इति दृश्यते। स्थालम् 17 अङ्कुशः 18 अष्टापदं पूतफ लकं 19 सुप्रतिष्ठकं स्थापनकं 20 मयूरः 21 श्रियोऽभिषेको लक्ष्म्यभिषेकः 22 तोरणं 23 मेदिनी 24 उदधिः 25 वरभवनं प्रधानगृह 26 गिरिः 27 वरादर्शो वरदर्पणः 28 सलीलगजोलीलावान् गजः 26 ऋषभोगौः 30 सिंहः३१ चामरं 32 एतान्युत्तमानि प्रधानानि प्रशस्तानि सामुद्रिकशास्त्रेषु प्रशंसास्पदीभूतानि द्वात्रिंशल्लक्षणानि धरन्ति यास्तास्तथा हंसस्य सदृशी गतियासा तास्तथा / कोकिलायाः आम्रमञ्चरीसंस्कृतत्वेन पञ्चमस्वरो द्वारमयी या मधुरा गीस्तद्वत् सुष्ठ शोभनः स्वरोयासांतास्तथा। कान्ताः कमनीयाः सर्वस्य तत् प्रत्यासनवर्तिनोलोकस्यानुमताः समतान कस्यापि मनागपि द्वेष्या इति भावः / बलिः शैथिल्यसमुद्भयश्चर्मविकारः / पलितं पाण्डुरः कचः व्यपगतानि वलिपलितानि याभ्यस्तास्तथा / तथा विरूद्धमङ्गं व्यङ्गं विकारवानवयवः / दुर्वर्णों दुष्टशरीरच्छविः व्याधिदौर्भाग्यशोकाः तैर्मुक्ताः / पश्चाद्विशेषणद्वयकर्मधारयः उच्चत्वेनच नराणां स्वभर्तृणां स्तोकोनं यथा स्यात्तथोच्छिताः। किंचित्ल्यूनत्रिंगव्यूतोव् इत्यर्थः। न हि ऐदंयुगीनमनुष्यपल्य इव स्वभर्तुः समोचत्वादधिकोचत्वा भवेयुः / किमुक्तं भवति तथा हि संप्रति पुरुषस्य अन्यूनोचत्वादयो लोके उपहासपात्रं स्यान्न तथा। तेषां मनुष्याणामिति। तथा स्वभावत एव शृङ्गारः शृङ्गाररूपश्चारूः प्रधानो वेषो यासांतास्तथा। प्रायो निर्विकारमनस्कत्येनादृष्टपूर्वकत्वेन च तासां सीमन्तोन्नयनाद्यौपाधिकशृङ्गाराभावात्। संगतमुचितं गतं गमनं हंसीगमनवत् / हसितं हसनं कपोलविकासिप्रेमसंदर्शि च भणितं भणनं गम्भीरकन्दर्पकोद्दीपि च चेष्टनं सकाममङ्गप्रत्यङ्गोपाङ्गदर्शनादिविलासो नेत्रचेष्टा। संलापः पत्था सह सकामं स्वहृदयप्रत्यर्पणक्षमपरस्परसंभाषणं तत्र निपुणास्तथा युक्ताः संगता ये / उपचारा लोकव्यवहारास्तेषु कुशलाः / ततः पदद्वयकर्मधारयः एवं विधविशेषणाच स्वपति प्रतिद्रष्टव्याः / न तु परपुरुषं प्रति तथा विधकालस्वभावात् प्रतनुकामतया परपुरुष प्रति तासामभिलाषासंभवात् ! एवं च युग्मिपुरुषाणामपि परस्त्री प्रति नाभिलाष इति प्रतिपत्तव्यम् / नन्वेयं सति प्रथमभगवतः सुनन्दापाणिग्रहणं कथमुचितं मृतेऽपिपुंसि तस्याः परसंबन्धित्वाविरोधात् / उच्यते मा ब्रूहि निषिद्धबिरुद्धाचरणस्यः भगवतः श्रवणाश्रव्यमनपवाद कन्यावस्थायामेव तस्याः पाणिग्रहणकरणात्।यतः " पढमो अकालमच्चू, तहिं तालफलेण दारओ पहओ / कण्णा य कुलगरेणं, सिट्ठ गहिआ उसभपत्ती"। एवं तर्हि सहजातयोः सुमङ्गलायाः पाणिग्रहणं कथं सत्यम् / तदानीं तनलोकाचीर्णत्वेन तदानीं तस्या अविरुद्धत्वादिति। पूर्वोक्तमेवार्थ संपीड्याह सुन्दरेत्यादिव्यक्तमेव / नवरं जघन्यं पूर्वकोटीभागः लावण्यमाकारस्य स्पृहणीयताविलासः / स्त्रीणां चेष्टाविशेषः / आह च। “स्थानासनगमनानां, हस्ततालुनेत्रकर्मणां चैव। उत्पद्यते विशेषो, यः श्लिष्टः स तु विलासः स्यात्" / नन्दनवनं मेरोद्वितीयवनं तस्य विचरमवकाशो वृक्षरहितभूभागः तत्र चारिण्य इव अप्सरसो देव्यः। भरतवर्षे मानुषरूपा अप्सरसः आश्चर्यमद्भुतमिति प्रेक्षणीयाः / प्रासादीया इत्यादि। संप्रति स्त्रीपुंससाधारण्येन तत्कालभाविमनुष्यस्वरूपं विवक्षुरिदमाह। (तेणं मणुआ इत्यादि) ते सुषमसुषमाभाविनो मनुष्या ओघः प्रवाही स्वरो येषां ते तथा। हंसस्येव मधुरः स्वरो येषां ते तथा। क्रौञ्चस्येवाप्रयासविनिर्गतोऽपि दीर्धदेशव्यापी स्वरो येषां ते तथा नन्दी द्वादशविधतूर्यसमुदयस्तस्य इव शब्दोऽन्तः तिरोधायी स्वरो येषां ते तथा / नन्द्या इव धोपोऽनुनादो येषां ते तथा। सिंहस्येव बलिष्ठस्वरो येषां ते तथा। एवं सिंहघोषाः उक्तविशेषणानां विशेषणद्वारहेतुमाचष्टे। सुस्वरानि?षाः छायया प्रभयोद्योतितान्यङ्गान्यवयवा यस्य तदेवंविधमङ्गशरीरं येषां ते तथा। मकारोलाक्षणिकः। वज्रऋषभनाराचं नाम सर्वोत्कृष्टमाद्यं संहननं येषां ते तथा !समचतुरस्र संस्थानं सर्वोत्कृष्टा आकृतिविशेषास्तेन संस्थिताः छव्यां त्वचि निरातङ्काः निरोगा दद्रुकुष्ठकिलासादित्वग्दोषरहितवपुष इत्यर्थः / अथवा (जवीत / छविमन्तः / छविछविमतोरभेदोपचारादार्षत्वेनमतुबलोपाद्वा / यथा मरीचिरित्यत्र मलयगिरीयावश्यकवृत्तौ उदात्तवर्णसुकुमारत्वयुक्ता इत्यर्थः / पश्चान्निरातङ्कपदेन कर्मधारयः / अनुलोमोऽनुकूलो वायुवेगः शरीरान्तर्वर्ती वातजवो येषां ते तथा / वायुगुल्मरहितोदरमध्यप्रदेशाः सतिगुल्मे प्रतिकूलो वायुवेगो भवतीति भावः। कङ्कः पक्षिविशेषस्तस्येव ग्रहणी गुदाशयो नीरोगवर्चस्कतया येषांते तथा कपोतस्येव पक्षिविशेषस्येव परिणाम आहारपरिपाको येषां ते तथा / कपोतस्यहि जाठराग्निः पाषाणलवानपि जरयतीति लौकिकश्रुतिरेवं तेषामपि अत्याहारग्रहणेऽपि न जातु कदाचिदपि अजीर्णदोषादयः / शकुनेरिव पक्षिण