________________ ओसप्पिणी 111 - अभिधानराजेन्द्रः - भाग 3 ओसप्पिणी ध्वणविलासकलिआ णंदणवणविअरचारिणा उव्वअच्छरा ओ भरहवासमाणुमच्छाओ अच्छेरगपेच्छणिज्जाओ पासाईआओ जाव पठिरूवाओ तेणं मणुआ ओहस्सरा हंसस्सरा कों चस्सरा गंदिस्सरा णंदिघोसा सीहस्सरा सीहघोसा सुस्सरा सुस्सरणिग्घोसा छायाउउजओइअगमंगा वचरि सहनारायसंघयणा समचउरंससंठाणसंठिआ छविणिरातं का अणुलोमवाउवेगा कंकग्गहणा कवोयपरिणामा सउणिपोसा पिटुंतरोपरिणया छद्धणुसहस्समूसिआतेसिणं मणुआणं वेच्छप्पण्णपिट्ठकरंडुअसया पण्णत्ता / समणाउसो पउमुप्पलगंधसरिसणासीससुरमिवयणा ते णं मणुअपगईउवसंतपगई पय णुकोहमाणमायालोमा मिउमद्दवसंपन्ना आलीणा भद्दगा विणीआ अपिच्छा असण्णिहिसंचय विमवंतरपरिवसणा जहिच्छिअकामकामिणी तेसि णं भंते ! मणुआणं केइकालस्स आहारट्टे समुप्पज्जइ गोयमा! अट्ठमभत्तस्स आहारट्टे समुप्पाइ पुढवीपुप्फलाहाराणं ते मणुआ पण्णत्ता समणाउसो तीसे णं भंते ! पुढवीए के रिसअ आसाए पण्णत्ते ? गोअमा! से जहा णामए गुलेइ वा खंडइ वा सकराइ वा मच्छंडिकाइ वा पप्पडमोअएइ वा मिसेइ वा पुप्फ तराइ वा पउमुत्तराइ वा विजयाइ वा महाविजयाइ वा आकासिआइ वा अदंसिआइ वा आगासफलोवमाइ वा उमाइ वा अणोवमाइ वा भवेए असाए णो इण? सम? सा णं पुढवी इतो इठ्ठत्तरिआ वेव जाव मणापत्तरिआ वेव आसाएणं पण्णत्ता। तस्यां समायां भदन्त ! भरते वर्षे मनुजीनां प्रस्तावाद् युग्मिनीनां कीदृशाकारभावप्रत्यवतारः प्रज्ञप्तः / गौतमेत्यादि प्राग्वत्। ता मनुज्यः सुजातानि यथोक्तप्रमाणोपेततया शोभनजन्मानि सर्वाण्यङ्गानि शिरः प्रभृतीनि यासां ला अत एव सुन्दर्यश्च सुन्दराकाराः / अत्र पदद्वयस्य कर्मधारयः तथा प्रधाना ये महिलागुणाः स्त्रीगुणाः प्रियंवदत्वस्वभर्तृचितानुवर्तकत्वप्रभृतयस्तैर्युक्ताःअनेनान्तरोक्तविशेषणद्वयेन सामान्यतो वर्णने कृतेऽपि तासां तद्भर्तृणां च प्राचीनदानफलोद्भवनाय विशिष्य वर्णयति अतिकान्तौ अतिरम्यावत एव विशिष्टस्वप्रमाणौ स्वशरीरानुसारिप्रमाणौ न न्यूनाधिकमात्रावित्यर्थः / अथवा विसर्पतावपि संचरन्तावपि मृदूनां मध्ये सुकुमारौ कूर्मसंस्थितावुन्नतत्वेन कच्छपसंस्थानौ विशिष्टौ मनोज्ञौ चलनौ पादौ यासांतास्तथा। ऋजवः सरलाः मृदवः कोमलाः पीवराः अदृश्यमानस्नसादिसन्धिकत्वेनोपचिताः सुसंहृताः श्लिष्टा निर्विवरा इत्यर्थः / अङ्गुल्यः पादाङ्गुलयो यासां तास्तथा अभ्युन्नता उन्नता रतिदाः सुखदा दृष्टणामथवा मृगरमणादन्यत्राष्यनुषङ्गलोपवादिमताश्रयणाद्रञ्जिता इव लाक्षारसेन तलिनाः प्रतलास्ताम्रा ईषद्रक्ताः शुचयः पवित्राः स्निग्धाः चिक्कणाः नस्वा यासां तास्तथा “णक्खेत्यत्र" द्विर्भावः प्राग्वतोमरहितं निर्लोमकं वृत्तं वर्तुलं लष्ट संस्थितं मनोज्ञसंस्थानं क्रमेणोचं स्थूरं स्थूरतरमिति भावः / अ जघन्यान्युत्कृष्टानि प्रशस्तानि लक्षणानि यत्र तत्तथा एतादृशमकोऽप्यमद्वेष्यमतिसुभगत्वेन जङ्घाजुगलं यासां तास्तथा सुष्ठुतरां मिते परिमाणोपेते सुगूढे अनूपलक्ष्ये ये जानुमण्डले तयोः सुबद्ध दृढस्नायुक त्वादश्लथसन्धी सन्धाने यासां तास्तथा कदलीस्तम्भादतिरेकेणातिशयेन संस्थितं संस्थानं ययोस्ते निव्रणे विस्फोटकादिक्षतरहिते सुकुमारे मृदुकेअत्यर्थकोमले मांसले मांससंपूर्णेनतु काकजनावद् दुर्बले अविरले परस्परासन्ने समे प्रमाणतस्तुल्ये सहिके क्षमे सुजाते सुनिष्पन्ने वृत्ते वर्तुऽले पीवरे सोपचये निरन्तरे परस्परनिर्विशेषेऊरू सक्थिनी यासां तास्तथा वीतिर्विगतेति कोघुणाद्यक्षत इति भावः / एवंविधोऽष्टापदो द्यूतफलकः विशेषणव्यत्ययः प्राकृतत्वात् / यद्वा पृष्ट संस्थिता प्रधानसंस्थाना प्रशस्ता विस्तीर्णा पृथुला अतिविपुला श्रोणिः कटेरग्रभागो यासां तास्तथा / वदनायामप्रमाणस्य मुखदीर्घत्वस्य द्वादशाङ्गुलप्रमाणस्य तस्माद् द्विगुणितं द्विगुणं चतुर्विशत्यङ्गुलं विशालं विस्तीर्ण मांसलं पुष्ट सुबद्धं श्लथंजधनवरं प्रधानकटिपूर्वभागंधारयन्तीत्येवं शीलाः अत्रापि विशेषणस्य परनिपातः प्राग्वात् / वज्रवद्विराजितं क्षामत्वेन तथा प्रशस्तलक्षणं सामुद्रिकप्रशस्यगुणोपेतं निरूदरं विकृतोदररहितम् अथवा निरूदरमल्पत्वेनाभावविवक्षणात्। तिस्त्रो वलयो यत्र तत्त्रिवलिकम्। तथा वलितं संजातबलं न च क्षामत्वेन दुर्बलमाशझ्यं तनु कृशं नतं ननं तनुनतमीषन्नम्रमित्यर्थः। ईदृशं मध्यं यासांतास्तथा स्वार्थे कप्रत्ययः / ऋजुकानामवक्राणां समानां तुल्यानां न कापि दन्तुराणां संहितानां सन्ततानां न त्वपान्तरालव्यवच्छिन्नानां स्वभावजानां प्रधानानां वा तनूनां सूक्ष्माणां कृष्णानां कालानां न तु मर्कटवर्णानां स्निग्धानां सतेजस्कानाम् आदेयानां दृष्टिसुभगानां (लडहत्ति)ललितानां सुजातानां सुविभक्तानां कान्तानां कमनीयानामत एव शोभमानानां रूचिररमणीयानामतिमनोहराणां रोम्णां राजिरवलियर्यासां तास्तथा। “गंगावत्तेति" पदं प्राग्वत् / अनुटावनुल्वणी प्रशस्तौ पीनौ कुक्षी यासांतास्तथा। सन्नतपावादिविशेषणानि प्राग्वत्। काञ्चनकलशयोरिव प्रमाणं ययोस्तौ / तथा समौ परस्परतुल्यौ नैको हीन एकोऽधिक इति भावः। संहितौ संहतौ अनयोरन्तराले मृणालसूत्रमपिन प्रवेशं लभते इति भावः / सुजातौ जन्मदोषरहितौ स्पष्टचूचुकामेलको मनोज्ञस्तनमुखशेखरौ यमलौ समश्रेणिको युगलौ युगलरूपौ वर्तितौ वृत्तौ अभ्युन्नतौ परस्पराभिमुखमुन्नतौ। पीनां पुष्टां रतिंपत्युर्दत्तामिति पीवररतिदौ पीवरौ पुष्टौ पयोधरौ यासांतास्तथा। भुजङ्गवदानुपूर्येण क्रमेणाधोऽधोभागे इत्यर्थः / तनुको अत एव गोपुच्छवद्वृत्तौ समौ परस्परं तुल्यौ संहितौ मध्यकायापेक्षया विरलौ नतौ नम्रौ स्कन्धदेशस्यानतत्वात्। आदेयावतिसुभगतयोपादेयौ ललितौ मनोज्ञचेष्टाकलितौ बाहू यासां तास्तथा। पीवेति प्राग्वत् / स्निग्धपाणिरेखा इति व्यक्तम्। रविशशिशंखचक्रस्वस्तिका एव सुविभक्ताः सुप्रकटाः सुविरचिताः सुनिर्मिता पाणिरेखा यासां तास्तथा / पीना उपचिताक्यवा उन्नता अभ्युन्नताः कक्षावक्षोवस्तिप्रदेशा भूजमूलहृदय गुह्यप्रदेशा यासां तास्तथा। परिपूर्णा गलकपोला यासांतास्तथा। “चउरंगुलेति" पूर्ववत् / मंसलेति च वक्तव्यं / दाडिमपुष्पप्रकाशो रक्त इत्यर्थः / पीवर उपचितः प्रलम्ब ओष्ठापेक्षया ईषल्लम्बमानः / कुञ्चित आकुञ्चितो मनाग् बलित इत्यर्थः / वरः प्रधानोऽधरोऽधस्तनदशनच्छदो यासांतास्तथा। सुन्दरोष्ठा इति कण्ठयं दधिप्रतीतं दकरज उदककणश्चन्द्रः प्रतीतः / कुन्दं कुसुमं वासन्तीमुकुलवनस्पतिविशेषकलिका तद्वद्धबला। जम्बूद्वीप प्रज्ञप्तिप्रश्न--