________________ चेइयवंदण 1326 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण उवसग्गाइविणासो, मणाइँ दुहवारणसमाहि" / / 3 / / (सद्धाइयत्ति) चशब्दादुत्तरीकरणाद्याः पापक्षपणादिफलेयर्यापथिक्यादिकायोत्सर्गस्य, सामान्येन श्रद्धांद्या वन्दनादिप्रत्यस्य, वैयावृत्यकृत्यादयस्तु सुदृष्टिसुस्मरणादिफलोत्सर्गस्येति ज्ञेयम् / सङ्घा०३ प्रस्ता० / (अत्र सुदर्शनकथा संघाचाराद् ज्ञातव्या) इति प्ररूपितम् “वार हेओ य" त्ति अष्टादशं द्वारम् // 43 // (33) इदानीं “सोल आगार" त्ति एकोनविंशतितम द्वारमाविष्कुर्वन्नाह अन्नत्थआइवारस, आगारा एवमाइया चउरो। अगणी पणिंदिछिंदण बोहियखोभाइ डक्को य॥४४|| "अन्नत्थति" भणनात् "अन्नत्थुस्ससिएणं" आदिशब्दात् “नीससिएणं" इत्यादि ग्रहः, यावत् “दिट्ठिसंचालेहिं ति"। एतदर्थः - “अन्नत्थयबावारे, काउस्सग्गं करेमि इय जोगो। ऊससियं सासगहो, नीससियं सासमोओय॥ पयडा खासखुयं जं भमुडुए वायणीसग्गो। ..............,अहो वाओ // भमलीइ अकम्हाओ, भर्मतमहिदसणं व निवडं वा। पित्तोदयाउ मुच्छा, विचेयणत्तं भमणरहियं च / / सुहुमाणूससियाणुम्मुक्कं पायाइअंगसंचारो। खेले कफाइअंते, दिट्ठीइ निमेसमाईया।। ऊसासाइनिरोहे, मरणाई तेण सुहुम ऊससइ। पवणमसगाइरक्खण हेऊ सासाइसु य हत्थो।। उड्डयवायनिसग्गे सु सद्दजयणा विभमलिमुच्छासु। निवसइ विगहणभया, रोमुक्कंपाइदुनिवारा" / / एते च द्वादश आकाराः कायोत्सर्गापवादप्रकाराः साक्षात् सूत्रे प्रतिपादिताः / तथा-(एवमाइय त्ति) “एवमाइएहिं" इति पदेन चत्वारः सूचिताः / तानेवाह-"अगणि" इत्यादि / अग्निविंद्युद्दीपादिस्पर्शनम्, प्रदीपनकमन्ये, पञ्चेन्द्रियैर्नरमार्जारादिभिश्छिन्दनं स्वस्य कायोत्सर्गालम्बनस्य च गुर्वादेन्तराले भुवोऽतिक्रमणं, बोधिका मानुषचौराः, क्षोभः सुराष्ट्रकृतः, आदिशब्दाद्वन्दिकराजभयभीतिपातादिग्रहणम्. दष्टश्च सादिना स्वः परो वा साध्वादिः, चशब्दात्सर्पादिरेव संमुखमासन्नं वाऽऽगच्छति। अत्र यतना"फुसणम्मी गहणाछिंदणे अतह तग्गहत्थकरणाई। चारणपलायणाई, बोहियखोभाइडक्केसु" // 1 // उभयेऽपि मीलिताः षोडश। संघा०३ प्रस्ता०। (अवनरसुन्दरनृपतिदृष्टान्तः सट्टाचाराद्ज्ञातव्यः)(कायोत्सर्गे दोषाः "काउस्सग्ग" शब्देऽस्मिन्नेव भागे) 426 पृष्ठे उक्ताः / उच्छासमानमपि 424 पृष्ठे उक्तम्) (34) स्तोत्रलक्षणम् - इदानीं “थुत्तं च" ति द्वाविंशं द्वारमाविष्कुर्वन् गाथोत्तरार्द्धमाहगंभीरमहुरसई, महत्थजुत्तं हवइ थुत्तं / / गम्भीरा व्यङ्ग्यार्थान्योक्तिवक्रोक्तिकठोरोक्त्यादिगर्भाः, मधुराः सुश्लिष्टाक्षराः शब्दा यत्र तत्तथा / यद्वा-मधुरो मालवकैशिक्यादि ग्रामरागानुगतः शब्दः स्वरो यत्र / सङ्घा०३ प्रस्ता०। (अत्र विजयश्रेष्ठिकथा सङ्घाचारादवसेया) प्ररूपितम् “थुत्तं च" इति द्वाविंशं द्वारम्। (35) कतिवेलाश्चैत्यानि वन्देत साम्प्रतं "सगवेल" त्ति त्रयोविंशं द्वारं प्रकटयन्नाहपडिकमणे चेइयजिम णचरिमपडिकमणसुवणपडिबोहे। चिइवंदण इइ जइणो, सत्त उ वेला अहोरत्त॥४५॥ यतेः साधोः, इति पूर्वार्दोक्तरीत्या, अहोरात्रमध्ये सप्त वेला जघन्यतोऽपि चैत्यवन्दना कर्तव्यैव, अन्यथाऽतिचारसंभवात्तदकरणे प्रयश्चित्तस्य भणनादागमप्रामाण्यात् अधिके त्वनिषेधः / पर्वादिषु विशेषतो वन्दनाभणनात्, प्रतिषेधे प्रायश्चित्तापत्तेश्च / तथा चाऽऽगमः-“जेण चेइएवंदमाणस्सवा संथुवेमाणस्सवापंचप्पयारंच सज्झायंपयरेमाणस्स वा विग्धं करिज्जा पच्छित्तं"। एतच तुशब्दो विशेषयति, तत्र (पडिकमणे त्ति) प्राभातिकावश्यकावसाने एका चैत्यवन्दना / तथा च मूलावश्यकटीका-"तओ तिन्नि थुईओ जहा थुत्तं, नवरमप्पसद्दगं दिति, जहा घरकोइलाइसत्ता न उटुंति, तओ देवे वंदंति, तओ बहुवेलं संदिसावंति त्ति" // (चेइय त्ति) द्वितीया चैत्यवन्दना चैत्यगृहवेलायां भक्तादिग्रहणार्थमुपयोगकरणपूर्वमित्यर्थ उक्तं च महानिशीथे सप्तमाध्ययने यतिदिनचर्याप्रस्तावे-“चेइएहिं अवंदिएहिं उवओगं करिजा पच्छित्तं।" तथा मूलावश्यके कायोत्सर्गनियुक्तिवृत्त्योर्दिवसातिचारालोचनार्थमुक्तम् - "काउस्सग्ग मोक्खपहदेसिओ जाणिऊण तो धीरा। दिवसाइयारजाणणठयाइ ठायंति उस्सगं / / 1 / / " मोक्षपथस्तीर्थकरस्तदुपदेशकत्वेन कारणे कार्योपचारात् साम्प्रतं यदुक्तं दिवसातिचारज्ञापनार्थमिति, तत्रोच्यते-विषयद्वारेण तमतिचारं दर्शयन्नाह - "सयणासणन्नपाणे, चेइयजइसिजकायउच्चारे। सभिई भावणगुत्ती, विलहायरणे अईयारो" // 1 // (चेइय ति) चैत्यवितथाचरणे सत्यतिचारः, चैत्यविषयं च वितथाचरणमविधिना वन्दनकरणे अकरणे चेत्यादि। (जइ त्ति) यतिवितथाचरणे सत्यतिचारः, यतिविषयं च वितथाचरणं यथार्ह विनयाद्यकरणमिति। एषा च त्रिकालचैत्यवन्दनामध्ये प्राभातिकसेध्याकालवन्दनोच्यते।यतो यतिनामपि दिवामध्ये त्रिसंध्यं चैत्यवन्दनाया अवश्यं कर्तव्यतयोक्तत्वात्। तथा महानिशीथसूत्रम् -"गोयमा ! जे केइ भिक्खू वा भिक्षुणी या संजयविरयपडिहयपचक्खायपावकम्मे दिया पभिइओ अणुदियह जावजीवाभिग्गहणं सुविसत्थतत्तनिब्भरेजहुसविहीए सुत्तत्थमणुसरमाणे अणुन्नमणे एगग्गचित्ते तग्गयमणस्ससुहज्झवसाए थयथुईहिं न तिकालियं चेइए वंदिज्जा, तस्स णं पायच्छित्तं उवइसिज्जा" || (जिमण त्ति) चैत्यवन्दनां कृत्वा भोक्तव्यम् / तथा चोक्तम्- “चेइएहिं साहूहि य अवंदिएहिं पडिक्कमिज्जा पच्छितं"। एषा च मध्यान्हचैत्यवन्दना गण्यते। (चरिमत्ति) संचरणप्रत्याख्यानानन्तरं देवान् वन्देत। उक्तंच-"संचरित्ता णं चेइयस्स साहूणं वंदणं न करिज्जा, तो पच्छित्तं" एषा सायं सन्ध्या चैत्यवन्दनायां निपतति / एवं च दिवामध्ये त्रिकालवन्दना यतिनां भवति / (पडिक्कमणत्ति) दैवसिकप्रतिक्रमणात्पूर्व देवा वन्दनीयाः। तथा च महानिशीथे-"चिइवंदणपडिक्कमणगाहा।" तथा "चे इएहिं अवंदिएहिं पडिक्कमिला पच्छित्तं” (सुवण त्ति) देवान् वन्दित्वा