________________ चेइयवंदण 1330 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण स्वप्तव्यं, नान्यथा! यदागमः-"चेइएहिं अवंदिएहिं जाव संथारम्मि ठाइज्जा पच्छित्तं" / / (पडिबोहे त्ति) प्रभाजे प्रतिबुद्धः सन् देवादीन् वन्देत। उक्तं च-"इरिया कुसुमिणमग्गो, जिणमुणिवंदण तहेव सज्झायं" इति / / 7 / / एवं च साधूनाश्रित्य वेलासप्तकनियता चैत्यवन्दना प्रदर्शिता / / 48|| अथ गृहस्थानाश्रित्याऽऽहपडिकमओ गिहिओ विहु, सगवेला पंचवेल इयरस्स। पूयासु तिसंझासु य, होइ तिवेला जहन्नेण ||4|| प्रतिक्रामत उभयसन्ध्यमावश्यकं कुर्वाणस्य, गृहिणः श्रावकादेः, सप्तवेलाश्चैत्यवन्दना भवत्यहोरात्रमध्ये। यथा-द्वे द्वयोरावश्यकयोः, द्वे च स्वापावबोधयोस्त्रिकालपूजाऽनन्तरं तथा जघन्येन च तिरश्चेति सप्त / अपिः संभावने। सभाव्यते ह्येतदेवम्। अन्यथाऽऽवश्यककरणे षट् स्वापादिसमयावन्दने पञ्चादिरपि, प्रभूतदेव गृहादौ वा अधिकाअपि / पञ्चवेला इतरस्याप्रतिक्रामतः। यथाऽघिस्वापावबोधयोस्तिस्रः तत्प्रतिसंध्यं पूजानन्तरं, तथा जघन्येन श्रावकस्य तिस्रो वेलाश्चैत्यवन्दना भवति, कर्तव्येति शेषः / कथम् ? त्रिसंध्यासु यास्तिस्रः पूजास्तासु, तदनन्तरमित्यर्थः एतेन श्राद्धस्य त्रिकालपूजाऽप्यावेदिता, चशब्द उक्तानुक्तसमुच्चयार्थः / तेन यदाऽपि पूजा न संभवति तथाऽपि वेलात्रयं देवा वन्दनीयाः, तथा या पूर्वाह्ने गृहचैत्यचैत्यगृहादिषु वन्दनास्ताः प्रातः संध्यावन्दनायां निपतन्ति, तदनन्तरं मध्याह्निक्यां, ततस्तुप्रदोषसंध्यायाम् / यथा चागमः- “भो भो देवाणुप्पिया ! अज्जप्पभिईए जावजीवं तिकालियं अणुतावलेगग्गचित्तेणं चेइए वंदियव्वे इणमेव भो मणुयत्ताओ असुइअसासयखणभंगुराओ सारं ति, तत्थ पुव्वण्हे ताव उदगपाणं न कायव्वं जाव चेइए साहू य न वंदिए, तहा मज्झण्हे ताव असणकिरियन कायव्वं जावचेइएनदिए, तहा अवरण्हे चेवतहा कायव्वं जहा अवंदिएर्हि चेइएहिं नो सिज्जालयमइक्कमिज त्ति। “सङ्घा०३ प्रस्ता० / “संवरित्ता णं चेइयसाधूणं वंदणं ण करेज पुरिम8" महा०७ अ०(अत्र कान्तिश्रीकयानकं संघाचाराद् ज्ञातव्यम्) चैत्यगृहे आशातना "आसायणा" शब्दे द्वि० भा०४७८ पृष्ठे उक्ताः) (अत्रप्रभावतीदेवीकुमारनन्दिकथा स्वस्थानोक्ता दृश्या) इति प्ररूपितं "दस आसायणञ्चओ" त्ति चतुविंशतितमंदारं, तन्निरूपणेन च प्रदर्शितम् “एवं चिइवंदणाइ ठाणाई चउवीसदुवारेहिंदुसहस्साई हुंति चउसयर" त्ति प्राक् प्रतिज्ञातं सप्रपञ्चमपि चैत्यवन्दनाविधानम्। (36) साम्प्रतं चैत्यवन्दनाकरणविधिप्रदर्शनार्थमाह - इरिअं१ नमुक्कारं 2 नमोऽत्थु ३अरिहंत 4 थुइ५ लोग 6 सव्व७ थुइ पुक्ख थुइ 10 सिद्धा 11 वेया 12 थुइ 13 नमोऽत्थु 14 जावंति १५थय 16 जयवीय०१७ इति / तत्र “ता गोयमा ! णं अपडिक्वंताए इरियावहियाए न कप्पइ चेव किंचि चिइवंदणसज्झाइयं काउं फलमभिकंखुगाणं" इत्यागमप्रामाण्यात्। “इरिय ति" प्रथममीर्यापथिकीप्रतिक्रमणे तत्कायोत्सर्ग च "चंदेसुनिम्मलयर"त्ति यावत् नामस्तवस्य पञ्चविंशत्युच्छासमानं कृत्वा "नमो अरिहंताणं" इति भणतः पारयित्वा मुखेन सकलोऽपि चतुर्विंशतिस्तवो भणनीय इति वृद्धाः / ततः क्षमाश्रमणपूर्वम् “इच्छाकारेण संदिसह भगवन् ! चैत्यवन्दनं करोमीति भणित्वा "नमुक्कार" त्ति"श्यामौ नेमिमुनी उभौ विमलतः षट् पञ्च नाभेयतः, श्रेयोवीरसुपार्श्वशीतलनमीवैरोचिषः षोडश। द्वौ चन्द्रप्रभसद्विधी सितरुची द्वौ पार्श्वमल्ली सिती, द्वौ पद्मप्रभवासुपूज्यजिनपौ रक्तौ विरक्तौ स्तुवे / / 1 / / देवेन्द्रादिभिरर्हितो नरहितः स्तौम्यर्हतः सनमुदा, विद्यानन्तमुखाद्यनन्तसुगुणैः सिद्धान् समृद्धान् सदा। आचार्यान् यतिधर्मकीर्तितसमाचारादिचारून् महोपाध्यायान् श्रुतधर्मघोषणपरान् साधून विधेः साधकान्।।२।। अर्हन्तो मम मङ्गलं विदधतां देवेन्द्रवन्धक्रमाः, विद्यानन्दमयास्तु मङ्गलमलं कुर्वन्तु सिद्धामयि। मह्यं मङ्गलमस्तु साधुनिकरे सद्धर्मकीर्तिस्थितौ, मङ्गल्यं श्रुतधर्मघोषणपरं धर्म सुदृभिः श्रये" ||3|| इत्यादिरूपा यथारुचि यथाप्रस्तावमेकद्वित्र्यादिनमस्करा भणनीयाः / ततः "कहं नमति सिरपंचमेणं काएण" इत्याचाराङ्गचूर्णिवचनात् पञ्चाङ्ग प्रणामं कुर्वता "तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेई" इत्यागमात् त्रीन् वारान् शिरसा भूमिं स्पृष्ट्वा "नमोऽत्थु णं तिभुवणिक्कगुरुजिणिंदपडिमाविणिवोसियनयणमाणसेण धन्नोऽहं सपुन्नोऽहं ति जिणवंदणाए सहलीकयजम्मु त्ति मन्नमाणेण विरइयमउलियंजलिणा हरियतणबीयजंतुविरहियभूमीए निहिओभयजाणुणा सुपरिफुडसुविदियनीसंकजहत्थसुत्तत्थोभयं पए पए भावेमाणेणं जाव चेइए वंदिन" त्ति / तथा"सक्कत्थयाई चेइयवंदणं, "महानिशीथे तृतीयाध्ययनोक्तविधिप्रामाण्याद् भूनिहितोभयजानुनाकरधृतयोगमुद्रया शक्रस्तवदण्डको भणनीयः। तदन्ते च पूर्ववत् प्रणामं कृत्वा समुत्थाय जिनमुद्राश्चितचरणो योगमुद्रया "अरिहंतचेइयाण" इत्यादि चैत्यस्तवदण्डकं पठति। उक्तंच"उट्ठियजिणमुद्दचियचरणो करधरियजोगमुहो य। चेइयगयथिरदिट्ठी, ठवणजिणदंडयं पढई"।।१।। कायोत्सर्गेऽत्रोच्छासा "अट्ठ सेसेसु" त्ति वचनात् अष्टौ, उच्छ्वासपूरणार्थमिष्टसंपदं नवकारं चिन्तयित्वा तं पारयति! ततः “थुइ त्ति" अधिकृतजिनस्तुतिं ददाति। तत्रायं बृहद्भाष्योक्तो विधिः"अदुस्सासपमाणा, उस्सग्गा सव्व एव कायव्वा। उस्सग्गसमत्तीए, नवकारेणं तु परिजा / / 1 / / परमिट्टिनमुक्कार, सक्कयभासाइ पुण भणइ पुरिसो। चरिमाइमथुइपढणं, पाइयभासाइ विन इत्थी / / 2 / / जइ एगो देइ थुई, अहऽणेगोता थुई पढइ एगो। सेसा उस्सग्गछिआ, सुणतिजा सा परिसमत्ता / / 3 / / बिंबस्स जस्स पुरओ, पारद्धा वंदणा थुई तस्स। चेइयगेहे सामन्नवंदणे मूलबिंबस्स|४|| अत्थि य पुरिसथुईए, वंदइ देवे चउव्यिहो संघो। इत्थी थुइऍ दुविहो, समणीओ साविया चेव / / 5 / / " ततो "लोग ति" लोगस्सुजोअगरेणं" भणंता "सव्व त्ति" "सव्वलोएअरिहंतचेइयाणं" इत्यादिना प्राग्वत्कायोत्सर्गः क्रियते, पारयित्वा “चउथुइत्ति" द्वितीया स्तुतिः सर्वजिनाश्रिता दीयते, ततः "पुक्खर त्ति" पुक्खरवरदीवड्डे" दण्डको भणनीयः, तत्कायोत्सर्गानन्तरं च “थुइ त्ति” तृतीया स्तुतिः सिद्धान्तसत्का भणनीया। ततः "सिद्धत्ति” “सिद्धाण" इत्यादि भणित्वा