________________ चेइयवंदण 1327 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण सनातनाय सेनाडा भवशम्भवसंभवः / भगवन् ! भविकानाम भवशंभवसंभवः / / 8 / / दुष्कृतं मे मनोहंस मानसस्याभिनन्दन ! / श्रीसम्बरधराधीश !, मानसस्याऽभिनन्दन ! 6|| त्वां नमस्यन्तियेऽङ्कस्थपद्मपद्मप्रभेश! ते। त्रैलोक्यस्य मनोहारी, पद्मपद्मप्रभे शते॥१०॥ सांप्रतम् “चउरो थुईत्ति षोडशं द्वारं विवृण्वन्नाहअहिगयजिण पढमथुई,बीया सव्वाण तइय नाणस्स। वेयावच्चगराण उ, उवओगत्थं चउत्थथुई॥४१|| यस्य मूलबिम्बादेः पुरतश्चैत्यवन्दना कर्तुमारभ्यतेऽसावधिकृतजिन उच्यते / तभाश्रित्व प्रथमा स्तुतिर्दातव्या, तन्नामादिगर्भा, सामान्येन जिनगुणोत्कीर्तनपरा वेत्यर्थः / उक्तं च ललितविस्तराथाम्। अत्रैवं वृद्धा वदन्ति यत्र किलाऽयतनादौ वन्दनं चिकीर्षितं, तत्र यस्य भगवतः संनिहितं स्थापनारूपं, तं पुरस्कृत्य प्रथमः कायात्सर्गः स्तुतिश्च, तथा शोभनभावजनकत्वेन तस्यैवोपकारित्वादिति॥१॥ तथा द्वितीया स्तुतिः सर्वेषां जिनानां प्रायो बहुवचनादिगर्भा, सर्वजिनसाधारणेत्यर्थः / अन्यथाऽन्यकायोत्सर्गेऽन्या स्तुतिरिति न सम्यक्, अतिप्रसङ्गादिति, तथा तृतीया स्तुतिमा॑नस्य श्रुतज्ञानमाहात्म्यवर्णनपरेत्याम्नायः। तथा च ललितविस्तराया ऐतिह्यमेतादिति वृत्तिः। पञ्जिकासंप्रदायश्चायम्यदुत तृतीया स्तुतिः श्रुतस्येति 3 / चतुर्थी स्तुतिः पुनर्वैयावृत्यकराणां यक्षाम्बाप्रभृतीनां सम्यग्दृष्टिदेवतानाम्, किमर्थमित्याह-उपयोगार्थ स्वकृत्येषु तेषां सावधानतानिमित्तं, भवति च गुणोपवृंहणतस्तद्भाववृद्धिः, ततश्च स्वार्थकारित्वोपयुक्तता। जगत्प्रसिद्धमेतत्यत्प्रशंसा तत् सोत्साहं कार्यकरणादर इति / तुशब्दो विशेष, तेन याः श्रुताङ्गीशासनदेवतादिविषया स्तुतयस्ताः सर्वा अपि चतुर्थस्तुतौ निपतन्ति, गुणोपवृंहणद्वारेण तासामप्युपयुक्ततादिफलत्वात्, स्तुतियुगलेषु तथानिबन्धनात् गुणोत्कीर्तनाख्यद्वितीयस्तुतिरूपत्वात् / तथाहिजिनज्ञानस्तुतिवन्दनाद्यात्मकत्वादेका गण्यते, वैयावृत्यकरादिस्तुत-- यस्तु द्वितीया, गुणोत्कीर्तनादिरूपत्वात्। एवमेव च युगलत्वसिद्धे, भावितं चैतत्पञ्चमे वन्दनाद्वारे / अत एव क्वचिद्युगले चतुर्थी स्तुतिः, सर्वे यक्षाम्बिके त्यादिवैयावृत्तिकराणां वापि च भूयासुः, सर्वदा देवा देवीभिरित्यादि सामान्यतः सर्वदेवतानां, कुत्रापि गौरी सैरभेति विद्यादेवतानाम् / अन्यत्र-"निष्पङ्कव्योमनील" इति देवविशेषविषया, एकत्र 'विकटदशना' इति देव्या एव, कुत्रचिच्च-"आमूलालोलधूली" इत्यादि श्रुतदेवताया इत्यादि / परिभावनीयमिदं सूक्ष्मधिया कुग्रहग्रहविहरेण, कायोत्सर्गविषयेऽपि बहु विमर्शनीयम् / यतो दैवसिकावश्यकमध्ये सामान्यतो वैयावृत्यकरान् विमुच्य केवलश्रुतदेवतादेः कायोत्सर्गकरणम् , पाक्षिकादौ तु भुवनदेव्यादेः, दीक्षादौ तु शासनदेव्यादीनामपीत्यलं प्रसङ्गेन।तत्त्वं तुपरमर्षयो विदन्तीति। सङ्घा०। स्तुतयः संस्कृतकाव्यानि"जिनं यशःप्रतापास्त पुष्पदन्तं समन्ततः / / संस्तुवे यत्क्रमौ पुष्पदन्तं समन्ततः / / 1 / / प्रातस्तेऽहिद्वयी येन, सरोजास्यसमा नता। तस्यास्तु जिनधर्माच, सरोजास्यसमानता // 2 // वन्दे देवं च्युतोत्पत्ति व्रतकेबलनितिम्। विश्वार्चितच्युतोत्पत्ति नुतकेवलनिर्वृतिम् // 3 // चतुरास्यं चतुःकायं, चतुर्धा वृषसेवितम्। प्रणमामि जिनाधीशं, चतुर्धा वृषसेवि तम् / / 4 / / जिनेन्द्रानञ्जनश्यामान, कल्याणाञ्चहिमप्रभान्। चतुर्विंशतिमानोऽस्य, कल्याणञ्चहिमप्रभान् // 5 // विलोक्य विकचाम्भोज काननं नाभिनन्दनम्। द्रष्ट्युत्कायते कोऽपि, काननं लाभि नन्दनम्।।६।। भवानिशं सदा यस्या जिननिष्कोपनाथति। अहितो निहितं स्वाभा जितनिष्कोपनाथति // 7 // ................. ||11 // सद्भक्त्वा यः सदा स्तौति, सुपार्श्वमपुनर्भवम्। सोऽस्तजातिमृतिर्याति, सुपार्श्वमपुनर्भवम्॥१२| सहर्षा ये समीक्षन्ते, मुखं चन्द्रप्रभाङ्ग ! ते। विदुः सकलसौख्यानां, सुखं चन्द्रप्रभां गते॥१३॥ सदा स्वपादसंलीनं, सुविधे सुविधेहि तम्। येन ते दर्शनं देव!, सुविधे सुविधे हितम्॥१४॥ यथा त्वं शीतल ! स्वामिन्, सोमः सोमामनोहरः / भव्यानां न तथाऽऽभाति, सोमः सोमामनोहरः॥१५॥ तं वृणोति स्वयंभूष्णः, श्रेयान् संबहुमानतः। जिनेशं नौति यो नित्यं, श्रेयांसं बहुमाऽऽनतः / / 16 / / वाक्यं यस्तव श्रुश्राव, वासुपूज्य ! सनातन ! / भये कुर्यात्तमोदाव वाः सुपूज्य ! सनातन ! / / 17 / / कस्य प्रमोदमन्यत्र, विमलात्परमात्मनः। हृदयं भजते देवा द्विमलात्परमात्मनः // 18|| दृष्ट्वा त्वान्तरजि द्भावपराजितमनोभवम्। भविना नाधतामेत्य, पराजितमनोऽभवम् / / 16 / / श्रीधर्मेण क्षमाराम प्रकृष्टतरवारिणा। सनाथोऽस्मि तृषावल्ली प्रकृष्टतवारिणा / / 20 / / त्वया द्वेधाऽरिवर्णी यत् पादौ श्रीशान्तिनाथ ! ते। ..........,श्री शान्तिनाऽथ ते // 21|| वीतरागं स्तुवे कुन्थु, जिनं शंभुंस्वयंभुवम्। सरागत्वात्पुनर्नान्यं, जिनं शंभु स्वयं भुवम्॥२२।। विजिग्ये लीलया येन, प्रद्युम्नो भवतादर। भविनां भवनाशाय, प्रद्यु नो भवतादर // 23 / / स स्यान्मल्लेन मल्लोखा, मल्लस्य प्रतिमल्यते। क्रमो मनसि यो मोह-मल्लस्य प्रतिमल्यते // 24 // विधत्ते सर्वदा यस्ते, स सुव्रतसमुन्नतिम्। समासादयते स्वामिन्!, स सुव्रत! समुन्नतिम्॥२५।। दृष्ट्वा समवसृत्यन्तनमि! तं चतुराननम्। पश्येत्कोऽजितसन्धिं मां, नमितं चतुराननम्॥२६।। श्रीनेमिनाथमानौमि, समुद्रविजयाङ्गजम्। हेलानिर्जितसंप्राप्तां, समुद्रविजयां गजम् / / 27 / / शिवार्थी सेवते ते श्री पार्श्व! नालिककोमलौ। न क्रमावनिश नम्र पार्श्वनालिककोमलौ // 28|| वरिवस्यति यः श्रीमन्महावीरं महोदयम्। सोऽश्नुते जितसंमोह महावीर महोदयम्॥२६॥ श्रीसीमन्धरतीर्थेशं, सादरं नुत निर्जरम्। योऽज्ञानं विदधे भस्म, सादरं नुतनिर्जरम् // 30 // यैर्वन्दतेऽर्हतो भार तैरावतविदेहकान्। प्राप्यते प्रवरोदनैिरावतविदेहकान् // 31 //