________________ चेइयवंदण 1326 - अमिधानराजेन्द्रः - भाग 3 चेइयवंदण वेगादिकारणत्वेन दर्शनविशुद्धिहेतुत्वात्तस्याश्च मोक्षाङ्गतया कर्त्तव्यत्वात्। मोक्षस्य चाक्षेपेण प्राप्तुमिष्टत्वात्तदर्थमेव च सकलधर्मानुष्ठानप्रवृत्तेः, यतश्चैवं शेषा गाथाश्चूर्णिकृता भणितास्तेन कारणनेदं निश्चीयतेयदुत पूर्वोक्ता नवाधिकारास्तावत्सूत्रसिद्धा एव / येऽपि चोज्जयन्तादयोऽधिकाराः, तेऽपि श्रुते चूादिरूपो श्रुतविवरणे पदेऽपि पदसमुदायोपचारात् मता एव अभिमताः, इच्छायां भणितत्वात्, अनभिमते सता प्रवर्त्तयितुंयोगाभावात्। अन्यथाऽनाप्तत्वप्रसङ्गत् अनिषिद्धत्वाच्च / / 38 / / आह-"उज्जिताई" इत्यत्रादिशब्देन “चत्तारि" इत्येकादश एवाधिकारा अनुमीयन्ते, क्रमानुविद्धत्वान्न पुनर्द्वितीयः, तस्यान्यत्र पाठादतः स कथ भण्यते?, इत्याशङ्कथाहबीओ सुयत्थयाई, अत्थउ वणिओ तहिं चेव। सकथयते पढिओ, पुव्वयरिएहि पयडत्थो॥३६। न केवलं दशमैकादशावधिकारौ चूर्णिकारभणितत्वात् भण्येते, किंतु द्वितीयोऽपीत्यपिगम्यः "जे य अईया" इत्यादिलक्षणोऽप्यधिकारः श्रुतस्तवस्य चतुर्थदण्डकस्य, आदौ “पुक्खरवरदी०" इतिगाथायामर्थतोऽर्थमाश्रित्व वर्णितो व्यावर्णितः, तत्रैव आवश्यकचूर्णावेव / अयमत्र भावार्थ:-द्वितीयाधिकारार्थो द्रव्याहद्वन्दना, सा च तत्र भणिता / तथाहि-“उक्कोसपएण सत्तरं तित्थयरसयं, जहण्णपएणं वीसं तित्थयरा, एए ताव एगकालेणं भवंति / अईया अणागया अणंता, ते तित्थयरे वमंसामि" इति। एव चूर्णिव्याख्यातार्थस्वरूपत्वेन चूर्युक्त एवायमपीति भण्यते / ननु यद्येवं चूर्युक्तार्थतयाऽयं भण्यते, तहिं तत्रैव भण्यता, किमन्यत्र पाठेनेत्याह शक्रस्तवान्ते प्रणिपातदण्डकानन्तर, पठितो भणितः, पूर्वाचार्यः पूर्वैरनुयोगकृद्भिः, शक्रस्तवान्तेऽस्य स्थानात्, भावार्हद्वन्दनाऽनन्तरं द्रव्यार्हद्वन्दनायाः क्रमप्राप्तत्वात् प्रथमाधिकारेऽपि नवमसंपदि किञ्चितगणनात्, अस्य तु तद्विस्तरार्थत्वादित्थमेव च बहुभव्योपकारदर्शनात्, भावप्राधान्याश्रयेण च पश्चानुपूर्व्या चैत्यवन्दनायाः प्रारम्भः, तस्या अप्यागमेऽनुज्ञातत्वात्। श्रुतस्तवादौ त्वस्य पाठे अनानुपूा अप्यसंभवात्, तन्मध्यपाठेऽपि व्यत्यानेडितदोषप्रसङ्गत, शक्रस्तवान्तभणने तु दोषासंभवात्, दण्डकान्तेऽन्यस्यापि स्तुतिस्तवादेर्भणनादित्येवं निर्दोषत्वेन पूर्ववृद्धः शक्रस्तवान्तेऽयं पठितः, तथैव च भण्यते, वृद्धाचरितस्य जीतव्यवहाररूपत्वात्। उक्तं च-"जीयं ति वा करणिज्नं ति वा आयरणिज्जं ति वा एगट्ठा"। तथा“वत्तऽणुवत्तपवत्तो, बहुसो आसेविओ महाणेण। एसो य जीयकप्पो, पंचमओ होइ ववहारो।।१।। वत्तो नामं इक्कसि, अणुवत्तो जो पुणो विइयवारं। तइयट्ठाणपउत्तो, सुपरिग्गहिओ महाणेण" ||2|| इति। वृत्त एकदा नवो जातः पात्रबन्धग्रन्थादिवदित्यादि / तथा प्रकटार्थः सुगमार्थः,कृत इति शेषः / बालादीनामप्येवं शुभभाववृद्धेः / चूर्युक्तमर्थ हि केचिदेव जानते, एवं तु पाठे मन्दमतीनामपि भवति / यथा वयं त्रिकालभाविनो जिनानमुना वन्दामहे, ततश्च सुलभ एव शुभभाववृद्धिः, बोधनिमित्तत्वात्तस्याः / इत्यलं प्रसङ्गन // 36 // एवं द्वादशाधिकारस्वरूपं निरूप्य तगणनेन तात्पर्याय , प्ररूपयन्नाह असढाइण्णऽणवजं, गीयत्थअवारियं ति मज्झत्या। आयरणा विहु आण, त्ति वयणं तु सुबहु मन्नति // 40 // अशठेन निर्मायन, एतेन चास्याविप्रतारकत्वमाह, 'आ' इति मर्यादया, सूत्रोक्तया गुरुलाधवचिन्तयेत्यर्थः / अनेन चाचीर्णकर्तुः प्रमाणत्वं दर्शयति, अगीतार्थस्य प्रमाणत्वायोगात्, आचरितस्य तु सूत्रानुसारित्वं गुरुलाधवचिन्तया कृतस्य सूत्रेण सह पूर्वापरविरोधाभावात्। चीर्ण चरितं, देशकालाद्यपेक्षया गुणानुविधायित्वेन बहुभव्योपकारीति कृत्वा अशठाचीर्णम्, तथा अनबद्यं निर्दोषं, जिनस्तुत्यादिरूपतया कर्मक्षयहेतुत्वात् / तथा गीतार्थस्तदन्यैस्तत्कालवर्तिभिर्न निवारितं, शोभनत्वादेव दर्शनादिविशोधकत्वात्, जिनस्तुत्यादेः / इति एवं, यत् बहुबहुश्रुतं, संविग्नपूर्वाचार्यसंमतामित्यर्थः / ततः सुबहु मन्यन्ते, इतिगाथान्ते संबन्धः / के इत्याह-मध्यस्थाः कुग्रहकलङ्काकलुषितचेतोवृत्तित्वेन रागाद्यस्पृष्टाः। उक्तंच“जो न वि वट्टइ रागे, न वि दोसे दुण्ह मज्झयारम्भि। सो हवई मज्झत्थो, सेसा सव्वे अमज्झ त्ति" / / 1 / / अन्यथा धर्मानर्हत्वात्। आह च"रत्तो दुलो मुद्धो, पुट्विं कुग्गहिओ य चत्तारि। एए धम्मअणरिहा, अरिहो पुण होइ मज्झत्थो" ||1 // इति। आचरणाऽपीतिन केवलं सूत्रोक्तमात्रमेवाज्ञा, किं तु आचरणाऽपि संविग्नगीतार्थाचरितमपि, आज्ञैव, हुरेवार्थे, सूत्रोपदेश एव, अतीर्थानुवृत्तिजीताख्यपञ्चमव्यवहाररूपत्वात्। आहच"बहुसुयकमाणुपत्ता, आयरणा धरइ सुत्तविरहे वि। विज्झाए विपईवे, नज्जइ दि8 सुदिट्टीहि / / 1 / / जीवियपुव्वं जीवइ, जीविस्सइ जे उधम्मियजणम्मि। जीयसि तेण भन्नइ, आयरणा समयकुसलेहिं / / 2 / / तम्हा अनायमूले, हिंसारहिएऽसुया ण जणणीया। सूरिपरंपरपत्ता, सुत्तं च पमाण आयरणा ||3||" इत्येवं, यद्वचनं सूत्रम्। तथा च कल्पनियुक्तिः.. "आयरणा वि हु आणा, अविरुद्धा चेव होइ आण त्ति / इहरा तित्थयरासा-यण त्ति तल्लक्खणं चेयं / / 1 / / असढेण समाइण्णं, जं कत्थइ केण इ असावलं / न निवारियमन्नेहि, बहु मणुमयमेवमाइज्ज" ||2|| इति / तस्मात्तद्वचनप्रामाण्याम्, सुष्ठु याथातथ्यपूर्णाद्यतिशयेन बहु मन्यन्ते भावसारं प्रतिपद्यन्ते, "बहुमानो मानसी प्रीतिः" इति वचनात् / यत उक्तम् - "अवलंबिऊण कर्ज, जं किंची आयरंति गीयत्था / थोवावराह बहुगुण, सव्वेसिं तं पमाणं ति" ||1|| यतःसंविग्गा विहिरसिया, गीयत्थतमा उ सूरिणो पूरिसा। नय ते सुत्तविरुद्ध, सामायारिं परूविति" ||2|| अवियजं बहु खायं दीसइ, न य दीसइ कह वि भासियं सुत्ते। पडिसेहो विन दीसइ, मोणंवि य तत्थ गीयाण" 1३।'इत्यादि।