________________ चेइयवंदण 1322 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण यथा-व्याख्यातं सिद्धेभ्य इत्यादि सूत्रमिति / संघा०३ प्रस्ता०। इत्याद्यभिहितं "पणदंड" इत्येकादशं द्वारम्। (अथ गुणसागरनृपकथा सङ्घाचाराद्ज्ञातव्या) (28) अथ द्वादशाधिकाराः / साम्प्रतं “वार अहिगार" ति द्वादशं द्वारं गाथोत्तरार्द्ध नाऽऽह - दो एग दो दो पंच य, अहिगारा वारस कमेण // 30 // पूर्वार्दोक्त इत्थशब्दइहापि संबध्यते,ततश्च (इत्थति) एषु दण्डकेष्वधिकाराः स्तोतव्यविशेषाः प्रस्तावविशेषाः, अधिक्रियन्ते समाश्रियन्ते, वन्दनां कर्तुकामैरिति व्युत्पत्तेः / ते च द्वादश क्रमेण भवन्ति / तत्र प्रणिपातदण्ड के द्वावधिकारी, एकोऽहं चैत्यस्तवदण्डके, द्वी नामजिनस्तवदण्डके, द्वौ श्रुतस्तवदण्डके, पञ्च सिद्धस्तवदण्डके च। एतानेवाद्यपदोल्लिङ्गनया दर्शयतिनमु जेइ य अरिहं लो-गसव्वपुक्खतमसिद्धजोदेवा। उजिं चत्ता वेया-वचग अहिगारपढमपया।।३१।। इह सर्वत्र पदैकदेशे पदसमुदाय उपचरितव्यः। ततश्च-"नमोऽत्थुणं" इतिभावार्हद्वन्दनाख्यस्य प्रथमाधिकारःप्रथमम् / एवमन्यत्रापि यथान्यायं प्रयोज्यम् / / 1 / / “जे य अईया सिद्ध" त्ति द्वितीयस्य / / 2 / / “अरिहंतचेइयाणं” इति तृतीयस्य / / 3 / / “लोगस्स उज्जोयगरे” इति चतुर्थस्य // 4 // "सव्वलोए अरिहंत त्ति" पञ्चमस्य। “पुक्खरवरदीय" इति षष्ठस्य॥६॥ “तमतिमिरपडल" इति सप्तमस्य // 7 // "सिद्धार्ण बुद्धाणं" इत्यष्टमस्य॥८॥ "जो देवाण बि" इति नवमस्य॥६॥ “उजिंतसेलसिहरे" इति दशमस्य / / 10 / / "चत्तारि अट्ठदेसे" इत्येकादशस्य / / 10 / / "वेयावचगराणं" इति द्वादशस्य / एतानि किमित्याह-अधिकाराणां प्रागुक्तशब्दार्थानां, प्रथमपदान्युल्लिङ्गनपदानि इत्यर्थः / संघा०३ प्रस्ता० / ध०। इत्युक्तं “वार अहिगार" ति द्वादशं द्वारम्। सम्प्रति “चउ वंदणिज्ज" त्ति त्रयोदशं द्वारं समधिकपूर्वार्द्धपदेनाऽऽहचउ वंदणिज्ज जिणमुणिसुयसिद्धा अह..। चत्वारो वन्दनीयाः मङ्गलोत्तमशरणविधायित्वेन स्तुतिप्रणामाद्यर्हाः के ते ? इत्याह-जिनाश्चतुर्विधा वक्ष्यमाणस्वरूपाः, मुनयश्च साधवो गच्छगतादिभेदभिन्नाः, आचार्योपाध्याययोरप्यव्यभिचारात्साधुग्रहणाद् ग्रहः। उक्तंच"साहत्तसुट्ठिया जं, आयरियाई तओ य ते साहू। साहुगहणेण गहियं...........................” // 1 // श्रुतंच अङ्गनङ्गप्रविष्टम्, सिद्धा क्षपिताशेषकर्माणः / इहेति संपूर्णचैत्यवन्दनायां, जिनशासने वा / यद्वा-त्रैलोक्येऽपीति।। सङ्का०३ प्रस्ता०। (अत्र सुमतिकथा सङ्घाचारादवसेया) इत्युक्तं चत्वारो वन्दनीया इति त्रयोदशं द्वारम्। (26) शरणीयद्वारम्-देवस्तुतिः / सम्प्रति “सरणिज्ज" त्ति चतुर्दश द्वारं गाथाचतुर्थपादार्द्धनाऽऽह............(इह) सुराय सरणिज्जा // 32 // इहशब्दः पूर्वद्वारे संयोजितोऽपि डमरुकमणिन्यायेनात्रापि संवध्यते।। ततश्च इहेति संपूर्णचैत्यवन्दनायां क्रियमाणायां, सुराश्च सुर्यश्चेति "पुरुषः स्त्रिया" ||3 / 1 / 126 / / इत्येक शेषे सुराः, ते चात्र यक्षाम्बाप्रभृतयः सम्यग्दृष्टिदेवता ज्ञातव्याः, नत्वहन्तः, तेषां प्राग्वन्दनीयत्वेनाभिहितत्वादनुशासकत्वात्सारकत्वाच्च / एते च किमित्याह(सरणिज्ज त्ति) स्मरणीयास्तत्तद्गुणानुचिन्तनोत्कीर्तनादिनोपबृंहणीयाः, स्तवनीया इत्यर्थः। श्लाध्यश्च जिनप्रवचनस्थः स्वल्पगुणोऽपि, सम्यग्दृष्टिप्रशंसायाः कर्मक्षयकारणत्वात्। उक्तं च-"गुणपगरिसबहुमाणो, कम्मक्खयकारणं जेण॥” इति। नैवं चेत्तदोत्तरोत्तरसंयमस्थानवत्तिभिः साधुभिर्जघन्यजघन्यतरादिसंयमस्थानवर्तिनः साधवोऽप्यनुपवृंहणीयाः स्युः तैः सुनियमादिसुदृढाः श्रावकाः, न चैतदागमे दृष्टमिष्टं वा, यद्गुणिनां गुणा न प्रशस्याः, दर्शनमालिन्याद्यवाप्तेः। आह च"नो खलु अप्परिवडिए, निच्छओ अमलिनए व सम्मत्ते। होइ तओ परिणामो, जुत्तो अणुववूहणाई य" // 1 // त्ति / देशविरताना वा अविरतसम्यग्दृष्टयः श्राद्धाः सत्काराद्यानस्युः, तथा चसति, "तम्हा सव्वपयत्तेणं, जो नमुक्कारधारओ। सावओ सो विदट्ठव्यो, जहा परमबंधवो" // 1|| इत्याद्यपार्थकं स्यात्। एवं चसकलागमव्यवहारलोपाद्विमर्शनीयमिदं सूक्ष्मधियेति / यद्वा-स्मारणीयाः स्मारणादिषु प्रेरणााः / तत्र “पम्हढे गाहा" / अयमर्थःवैयावृत्यादिकारका गीयन्ते, तत्र चानादरता भवता तत्किं स्वकृत्यमपि विस्मृतम्, न युक्तमत्र प्रमादयितुम्,दुलर्भा हि पुनरियं सामग्री, दुःखदःप्रमादारिः, दुरन्तो भवोदधिविनिपातः, स्वनामैवं सत्यापयतेत्यादिव्यङ्गयार्थगर्भतद्विशेषणद्वारेण स्मारणादि क्रियते / अथवा-सारणीयाः सङ्घादिकृते वैयावृत्यप्रभावनादावुभयलोकसुखावहे प्रेरणास्तित्करणशक्तियुक्तत्वात्तेषाम् / इदमुक्तं भवति-"यदाऽमुकं सद्दे प्रभावनादि करिष्येऽथ तदहममुकं कायोत्सर्गादिकं पारयिष्यामि' इत्यादिना सुदर्शनप्रिया मनोरमा इवतत्रतत्र सङ्घ कृत्ये प्रवर्तयितव्यम्। अथवाऽयं निशीथचूर्युक्तो विधिः-"पुटवं अणुसट्ठी किज्जइ, थुइ त्ति भणिय होइ, “अणुसट्ठी थुइ त्ति एग?" त्ति भाष्यवचनात् / “साहु कयं ते एवं वुचइ, जहा-चंपाए सुभद्दा नागरजणेण अणुसट्ठा-धण्णा सपुण्णा सित्ति, तओ उवालंभो दिज्जइसा णूणं उवएसपया ण कीरइत्ति वुत्तं भवइ, पच्छा से उवग्गहो किजई। भणियं च“दाणे दवावणे कारणे य करणे य कयमणुण्णए। उवहियमणुवहियं वा, जाणाहि उवग्गहं एयं" // 1 // इति। सङ्का०३ प्रस्ता० / (अत्र सुदर्शनश्रेष्ठिप्रियामनोरमाकथा भावनीया सनाचारात्) इति निगदितं “सुरा य सरणिज्जत्ति" चतुर्दशं द्वारम्। (30) जिनद्वारम्। अथ “चउह जिण त्ति पञ्चदशं द्वारं विभावयिषुर्गाथोत्तरार्द्धमाह - चउह जिणा नामंठवणदव्वभावजिणभेएणं / / चतुष्प्रकारा जिनाः / कथमित्याह-"नाम" इत्यादि। जिनशब्दो पृथक् पृथक् संबध्यते / ततश्च नामजिनस्थापनाजिनद्रव्यजिनभावजिनभेदेन नामजिनादिप्रकारेणेति। एताननेकभेदान् विभावयिषुराह - नामजिणा जिणनामा, ठवणजिणा पुण जिणिंदपडिमाओ।