________________ चेइयवंदण 1321 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण चैत्यवन्दनसमाप्तौ यद्विधेयं तदाहएयस्स समत्तीए, कुसलं पणिहाणमो उ कायव्वं / तत्तो पवित्ति-विग्धज-य-सिद्धि तह य स्थिरीकरणं // 26 // एतस्यानन्तरोक्तचैत्यवन्दनस्य, समाप्तौ, उत्तरस्य पुनःशब्दार्थस्य तुशब्दस्येह संबन्धनिष्ठायां पुनः, कुशलं शुभम्, न तु भवहेतुपदार्थप्रार्थनादिवदशुभम्। प्रणिधानं प्रार्थनागर्भमैकाभ्यम्, 'ओ' इति निपातः पादपूरणार्थः। तुशब्दः सम्बन्धित एव, कर्त्तव्यं विधेयम्। अथकस्मादिदं कर्तव्यम् ? अत्रोच्यते-यस्मादितः सत्प्रवृत्त्यादयो भवन्तीत्येतदेवाह, ततः प्रागुक्तप्रणिधानात्, प्रवृत्तिः सद्धर्मव्यापारेषु प्रवर्त्तनं, भवति हि जातमनोरथानां शक्तौ सत्यां तदुपाये प्रवृत्तिरिति / तथा विघ्नजयो मोक्षरूपपथप्रवृत्तप्रत्यूहस्य जघन्यमध्यमोत्कृष्टस्याशुभभावरूपस्य प्रणिधानजनितशुभभावान्तरेणाभिभवः, तथा सिद्धिविघ्नजयात्प्रस्तुतधर्मव्यापाराणां निष्पत्तिः, एतस्य च प्रवृत्त्यादिपदत्रयस्यसमाहारद्वन्द्वः / (तह यत्ति) तथैव, समुच्चयार्थश्चायम्। (थिरीकरणं ति) स्वगतपरगतधर्मव्यापाराणां स्थिरीकरणं स्थिरत्वाधानमिति, अतः प्रवृत्त्यादीनि वाञ्छता प्रणिधानमवश्यं करणीयं, तदभावे प्रवृत्त्याद्यसिद्धेरिति गाथार्थः // 26 // ननु प्रणिधानं प्रार्थनारूपत्वान्निदानवत्परिहार्थ स्यात्, नैवं, कुशलमितिविशेषणेन तस्य निदानरूपतया व्यपोहितत्वात्, अकुशलस्यैव निदानत्वात्। इदं च विशेषणफलमनवधारयतो मन्दमतिशिष्यस्य निदानत्वाऽऽशङ्काव्यपोहायाऽऽहएत्तो चिय ण णियाणं,पणिहाणं बोहिपत्थणासरिसं। सुहभावहेउभावा,णेयं इहराऽपवित्तीउ॥३०॥ (एत्तो त्रिय त्ति) यत एव कुशलं, प्रवृत्यादिहेतुर्वा, अत एव कारणात्, न नैव, निदानमार्तध्यानविशेषो भवति। किं तत् ? प्रणिधानं चैत्यवन्दनावसानकृत्यं, निदानस्याकुशलत्वात्प्रवृत्त्याद्याशयविशेषानुत्पादकत्वाद्वा / तर्हि किं भूतमिदमित्याह-बोधिप्रार्थनासदृशम् “आरोग्गं बोहिलाभं" इत्यादिप्रार्थनातुल्यं, यथा बोधिप्रार्थनं न निदान तथेदमपीत्यर्थः / कुत एतदेवमित्याह-शुभभावहेतुभावात्प्र-शस्ताध्यवसायस्य कारणत्वात् / यथा हि बोधिप्रार्थनं शुभभावहेतुरेवमिदमपि, ज्ञेयं ज्ञातव्यम् / निदानरूपत्वे चास्य यत्स्यात्तदाह-इतरथाऽन्यथा, निदानरूपतायामित्यर्थः / अवृत्तिस्तु अप्रवर्त्तनमेव, चैत्यवन्दनान्ते प्रणिधानस्याकरणमेव स्यात्, निदानस्यागमे निषिद्धत्वादिति गाथार्थः // 30 // अथ भवत्वस्याप्रवृत्तिः को दोषः ? इत्याशङ्कां परिहरन्नाह - एवं तु इट्ठसिद्धी, दय्वपवित्ती उ अण्णहा णियमा। तम्हा अविरुद्धमिणं, णेयमवत्थंतरे उचिए।|३१|| एवं तु काक्वा ध्येयम् एव पुनः प्राणिधानप्रवृत्तौ पुनः, इष्टसिद्धिरभिमतार्थनिष्पत्तिर्भवति, अन्यथा प्रणिधानस्य परिहार्यतायां प्रणिधानशून्य ह्यनुष्ठानं द्रव्यानुष्ठानमेवेति निमादवश्यंभावेन (तम्ह त्ति) यस्मादिष्टार्थसिद्धिनिबन्धनं प्रणिधानं तस्माद्धेताः, अविरुद्ध संगतम्, इदं प्रणिधानम, ज्ञेयं ज्ञातव्यम्। किं सर्वावस्थासु ? नेत्याह-अवस्थान्तरे भूमिकाविशेषे, उचिते प्रणिधानस्ययोग्ये, अप्राप्तप्रार्थनीये गुणावस्थायामप्राप्ततत्प्रकर्षावस्थायां वेति भावना। इति गाथार्थः // 31 // प्रणिधानकरणविधिमाहतं पुण संविग्गेणं, उवओगजुएण तिव्वसद्धाए। सिरणमियकरयलंजलि, इय कायव्वं पयत्तेणं // 32 // तदिति प्रणिधानम्, पुनरिति विशेषद्योतने, संविग्नेन मोक्षार्थिना, भवभीतेन वा / उपयोगयुतेनावहितमनसा, तीव्रश्रद्धवा आत्यन्तिक्या सदनुष्ठानकरणरुच्या, अनेन च मानसो विधिरुक्तः / अथ शारीरं विधिमाह-शिरसि मस्तके, नमितो निवेशितः, करतलयोहस्तयोरजलिहस्तविन्यासविशेषो यत्र करणे तत्तथा / कर्त्तव्यमित्येतत्क्रियाविशेषणमिदम्, इति अनेन च वक्ष्यमाणेन पाठक्रमेण प्रयत्नेनादरेणेति, गाथार्थः // 32 / / पञ्चा०४ विव० / ल०। 'जय वीयराग' संघा० / अत्र वर्णसंख्या / अथ प्रणिधानत्रिकवर्णसंख्याख्यापनाय गीतिगाथाप्रथम पादमाह - पणिहाणिवावनसयं. ............. (पणिहाणि ति) जातावेकत्वं, ततश्च त्रिप्रणिधानेषु द्विपञ्चाशदधिकं शतं, वर्णानां भवति / तत्र “जावंति" इत्यादिजिन वन्दनारूपे प्रथमे प्रणिधाने पञ्चत्रिंशत् 'जावंति के इत्यादिके द्वितीये मुनिवन्दनालक्षणोऽष्टत्रिंशत्, “जय वीराय" इत्यादि गाथाद्वयात्मके तृतीये प्रार्थनास्वरूपे त्वेकोनाशीतिः, सर्वमिलिते द्विपञ्चाशं शतमिति / एषा च चैत्यवन्दना गुरुलघुवर्णपरिज्ञानमन्तरेण क्रियमाणा न विशुद्धा स्यात् / आह च"गुरुलघुभेदज्ञानं, न विद्यते यस्य सर्वथा चित्ते / स विचक्षणोऽपि रक्षा, न व्रतभेदस्य कर्तुमलम् " ||1|| किं च-व्यञ्जनभेदादर्थभेदोऽर्थभेदे च नाभीष्टसिद्धिः, प्रत्युतानर्थप्राप्तिः स्यात्, कुणाल कुमारवत्। ततोऽवश्यं गुरुलघुत्वं वर्णानां ज्ञातव्यम् / एकस्य च परिज्ञाने द्वितीयं सुखेन परिज्ञायते। तत्र बाल्यत्वाद् गुरुवर्णसंख्याख्यायपनार्थं गीतिगाथापादत्रयमाह ....,कमेसु सग तिचउवीस तित्तीसा। गुणतीस अट्ठवीसा, चउतीसि तितीस वार गुरुवन्ना // 26 // (व्याख्याऽस्या अन्यत्र) सङ्घा०३ प्रस्ता० (अत्र कुणालकुमारकथा साचाराद्ज्ञातव्या) दण्डकस्तवमानम् "वन्ना सोलस सगनउइ संपया ऊ असीयाला। इगसीयसयं तुपया, सगनउई संपयाओव॥"त्ति "अट्ठमनवमदसमेति" द्वारत्रयम्। . सम्प्रति “पणदंड" इत्येकादशद्वारगाथापूर्वार्द्धनाऽऽहपण दंडा सक्कत्थव-चेइयनामसुयसिद्धथय इत्थं। दण्डकाः प्रागुक्तशब्दार्थाः ते च पञ्चाऽत्र चैत्यवन्दनायां, गुणसागरनृपतिवत् सत्यापनीयाः। तत्र प्रथमो दण्डकाः शक्रस्तबः "नमोऽत्थु णं" इत्यादि, "सव्वे तिविहेण वंदामि" इत्येतदन्त / यतश्चैत्यवन्दनाचूर्णौ चैतत्सर्वं व्याख्याय भणितम्- "एवं पणिवायदंडगं भणित्ता तओ पंचगपणिवाइयं करेइ ति / 1 / द्वितीयश्चैत्यस्तवः “अरिहंतचेइया णं" इत्यादि।श तृतीयो नामस्तवः “लोगस्सुजोयगरे" इत्यादि।३१ चतुर्थः श्रुतस्तवः "पुक्खरवरदीव" इत्यादि।४।पञ्चमस्तुदण्डकः सिद्धस्तवरूपः "सिद्धाणं बुद्धाणं" इत्यादि, यावत् “अप्पाणं वोसिरामि" इत्येतत्पर्यन्तः / तथा श्रीहरिभद्रसूरिपूज्यैललितविस्तरायामेतदन्तं व्याख्याय भणितम्।