________________ चेइयवंदण 1320 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण (26) इत्थं सामान्येन सर्वसिद्धनमस्कारं कृत्वा आसन्नोपकारित्वाद्वर्त्तमानतीर्थाधिपतेः श्रीमन्महावीरवर्द्धमानस्वामिनः स्तुति करोति"जो देवाण वि देवो, जं देवा पंजली नमसंति। तं देवदेवमहिअं, सिरसा वंदे महावीरं"||१|| ध०२ अधि०।ल०। इत्थं स्तुतिं कृत्वा पुनः परोपकारायाऽऽत्मभाववृद्धये च फलप्रदर्शनपरमिदं पठति"इक्को वि नमुक्कारो, जिणवरवसहस्स वद्धमाणस्स। संसारसागराओ, तारेइ नरं व नारि व" ||1|| ध०२ अधि०। ल०। संघा०। एष नवमोऽधिकारः। एतास्तिस्रः स्तुतयो गणधरकृतत्वान्नियमेनोच्यन्ते। केचित्तु अन्या अपिस्तुतीः पठन्ति।यदाहावश्यकचूर्णिकृत्"सेसा जहिच्छाए त्ति।" ता यथा"उजिंतसेलसिहरे, दिक्खा नाणं निसीहिआ जस्स। तं धम्मचक्कवट्टि, अरिठ्ठनेमिं नमसामि" ||1|| कण्ठ्या, नवरं (निसीहिअत्ति) सर्वव्यापारनिषेधाद्नैषेधिकी युक्तिः। एष दशमोऽधिकारः। "चत्तारि अट्ठ दस दो, अवंदिया जिणवरा चउव्वीसं। परमट्ठनिटिअट्ठा, सिद्धा सिद्धिं मम दिसंतु" ||1|| (परमट्टनिटिअत्ति) परमार्थेन, न कल्पनामात्रेण, निष्ठिता अर्था येषां ते तथा। शेष व्यक्तम्। एष एकादशोऽधिकारः / ध०२ अधि० संघा०। (27) वेयावश्चस्तुति :एतास्तिस्रः स्तुतयो नियमेनोच्यन्ते, केचित्तु अन्या अपि पठन्ति, न तत्र नियम इति, न त ठ्याख्यानक्रिया / एवमेतत्पठित्वोपचितपुण्यसंभारा उचितेषूपयोगफलमेतदितिज्ञापनार्थ पठन्ति-"वेयावच्चगराणं, संतिगराणं सम्मद्दिट्ठिसमाहिगराणं करेमि काउस्सग्गं" इत्यादि, यावद् “वोसिरामि"। व्याख्या पूर्ववत्। नवरं वैयावृत्यकराणां प्रवचनार्थ व्यापृतभावानां यक्षाम्बाकूष्माण्ड्यादीनां शान्तिकराणां क्षुद्रोपद्रवेषु सम्यग्दृष्टीनां सामान्येनान्येषां समाधिकराणा स्वपरयोस्तेषामेव स्वरूपमेतदेवैषामितिवृद्ध संप्रदाय एतेषां संबन्धिनम्। सप्तम्यर्थे वा षष्ठी। एतद्विषयम्, एतान्वाऽऽश्रित्य करोमि कायोत्सर्गमिति, कायोत्सर्गविस्तरः पूर्ववत् स्तुतिश्च; नवरमेषां वैयावृत्यकराणां तथा तद्भाववृद्धेरित्युक्तप्रायम्। तदपरिज्ञानेऽप्यस्मात्ततःशुभसिद्धाविदमेव वचनं ज्ञापकम। न चासिद्धमेतत् अभिवारकादौ तथेक्षणात् सदौचित्यप्रवृत्त्या सर्वत्र प्रवर्तितव्यमित्यैदम्पर्यमस्य। तदेतत् सकलयोगबीज वन्दनादिप्रत्ययमित्यादि न पठ्यते, अपि त्वन्यत्रोच्छ्रसितेनेत्यादि, तेषामविरतत्वात् / सामान्यप्रवृत्तेरित्थमेवोपकारदर्शनाद् वचनप्रामाण्यादिति व्याख्यातं 'सिद्धेभ्यः' इत्यादि सूत्रम्। ल०। अथ बृहद्भाष्यम"पारिय काउस्सग्गो, परमिट्ठीणं च कयनमुक्कारो! वेयावच्चगराणं, देइ थुई जक्खपमुहाणं / / 1 / / संवेगभावियमणों, वंदिय संनिहियचेइआणेव। अवसेसचेइयाणं, वंदणपणिहाणकरणत्थं / / 2 / / पुव्वविहाणेण पुणो, भणितु सक्कत्थयं तओ कुणइ। जिणचेइयपणिहाणं, संविग्गो मुत्तसुत्तीए // 3 // " "जावंति चेइयाई" इत्यादि। यावन्ति यत्प्रमाणानि, चैत्यानि आधाराधेयरूपत्वेन जिनानां गृहाणि, बिम्बानिचा व ? ऊध्वधिश्च तिर्यग्लोके च / तत्र जिनगृहाण्येवम् - “सगकोडिलक्खविसयरि, अहो अतिरिए दुतीसपणसयरा। चुलसिलक्खा सगनवइ, सहस्सतेविंसुवरिलोए" / / 1 / / प्रतिमास्तु - "तेरसकोडिसयाको-मिगणवइसट्ठिलक्ख अहलोए। तिरिअंतिलक्ख तिणवइ, सहस्सपडिमा दुसयचत्ता // 2 // वावन्नं कोडिसयं, चउणउई लक्खसहस चउआला। सत्तसया सट्ठिजुया, सासयपडिमा उवरिलोए॥३॥" किमित्याह-सर्वाणि तानि वन्दे। यथा - "सव्वे वि अट्ठकोडी लक्खा सगवंतदुसयअडनउया। तिहुयणचेइअबंदे, असंखदहिदीवुजोइवणे॥४॥ पन्नरसा कोडिसया, कोडीवायाललक्ख अडवन्ना। अडतीससहस वंदे,सासयजिणपडिम तिअलोए५॥" कथम् ? इह स्वस्थाने सन् तिष्ठन् तत्र ऊर्द्धलोकादिषु सन्ति विद्यमानानि / "सक्कथएण इमिणाए, एयाइं चेइया. वंदामि। बियसकत्थयभणणे, एयं खुपओयणं भणियं / / 6 / / पुणरुत्तं पिन दुटुं, दव्वत्थमिणं जिणागमन्नूहि। जिणगुणथुररूवत्ता, कम्मक्खयकारणतेणं / / 7 / / जह विसविघायणत्थं, पुणो पुणो मंतसुमरणं सुहयं / तह मिच्छत्तविसहरं, विन्नेयं वंदणाई वि।।।। तत्तो य भावसारं, दाऊणं थोभवंदणं विहिणा। साहुगयं पणिहाणं, करेइ एयाएँ गाहाए" ||6|| "जावंति केइ साहू"। इत्यादि। यावन्तः केचित् उत्कृष्टतो, जघन्यतश्च / यथा"नवकोडि सहस साहू, उक्कोसं केवली उसयकोडी। वंदे दुकोडि केवलि, दुकोडि सहसा मुणिजहणणं / 1 / / लोकविरुद्धेत्यादि / साधवः / क्व ? भरतैरवते महाविदेहे च, पञ्चदशकर्मभूमिष्वित्यर्थः / किम् ? सर्वेषां तेषां प्रणतो नमः, त्रिविधेन कायवाड्मनोभिः त्रिगण्डविरतानां मनोदण्मादिरहिताना, भावसाधूनामित्यर्थः। "तत्तो अतत्तचित्तो, जिणिंदगुणवंदणेण भुजो वि। सुकइनिबद्धं सुद्धं, थयं च युत्तं च वजरइ / / 1 / / सक्कयभासाबद्धो, गंभीरत्थो थओ निविक्खाउ। पाइयभासावट्ट, थुत्तं विविहेहिँ छंदेहि // 2 // चिइवंदणकिइकिच्चा, पमोयरोमंचचच्चियचसरीरो। सडा०२ प्रस्ता० / नवरं स्तुतियावृत्यकराणां, पुनस्तेनैव विधिनोपविश्व पूर्ववत्प्रणिपातदण्डकं पठित्वा मुक्ताशुक्तिमुद्रया प्रणिधान कुर्वन्ति / यथा - "जय वीयराय जगगुरू, होउ ममं तुह पभावओ भयवं। भवनिव्वेओ भग्गा णुसारिआ इट्ठफलसिद्धि // 1 // लोगविरुद्धचाओ, गुरुजणपूआ परत्थकरणं च। सुहगुरुजोगो तव्वय-णसेवणा आभवमखंडा / / 2 / / " ध०२ अधि०।