________________ चेइयवंदण 1316 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण पउमप्पह सुपासं, जिणं च चंदप्पहं वंदे॥१॥ सुविहिंच पुप्फदंतं,सीअल सिज्जंस वासुपुजं च। विमलमणतं च जिणं, धम्म संतिं च वंदामि / / 2 / / कुथु अरं च मल्लिं, वंदे मुणिसुव्वयं नमिजिणं च। वंदामिऽरिट्टनेमि, पास तह वद्धमाणं च" ||3|| ध०२ अधि०। कीर्तनं कृत्वा चेतःशुद्ध्यर्थं प्रणिधानमाह“एवं मए अभिथुआ, विहूयरयमला पहीणजरमरणा! चउवीसं पि जिणवरा, तित्थयरा मे पसीयंतु"।१। ध०२ अधि०। तत्र प्रथममस्य लाघवार्थं च श्रुतस्तवादेरस्यैकयैव गाथया संपदादिप्रमाणमाह - नामथवाइसु संपय-पयसम अडवीस सोल वीस कमा। अदुरुत्त वन्न दोसय, दुसयं सोलऽद्वनउय सयं / / नामस्तवश्चतुविंशतिस्तवः, आदिशब्दात् श्रुतस्तवसिद्धस्तवग्रहः। एषु / दण्डकेषु, संपदो विश्रामाः, पदसमाः दण्डकादिचतुर्थभागसमानाः, यावन्ति पदानि तावन्त्य एवं संपदः / तत्र अष्टाविंशति मस्तवे, एकश्लोकगाथाषट्कमानत्वात् / षोडश श्रुतस्तवे, गाथाद्वयवृत्तद्वयत्वात् / विंशतिः सिद्धस्तवे, गाथापञ्चकप्रमाणत्वात्। क्रमेण यथाक्रम, तथा अद्विरुक्ता अपुनरुक्ता ये एकवेलया गणितास्तेपुनर्नगण्यन्ते। इति भावः / वर्णा अक्षराणि, दण्डकत्रयेक्रमेण भवन्ति। तत्र द्वेशते षष्ट्यधिके नामस्तवदण्डके, “सव्वलोए" इत्यक्षरचतुष्कस्याक्षेपात् / अग्रतनव नाम् अर्हच्चैत्यस्तवे गणितत्वाद्विरुक्ता इति प्रतिज्ञाताच / एवमग्रेऽपि भाव्यम्।।तथा द्वेशते षोडशाधिके श्रुतस्तवदण्डके, “सुयस्स भगवओ त्ति" सप्ताक्षरसहितगणनात् दण्डकान्तः पातित्वादेषाम्। तथा अष्टनवत्यधिकं शतं सिद्धस्तवदण्डके, “समदिट्ठी समाहिगराणं" इतियावत् पञ्चाधिकारप्रमाणत्वात् पञ्चमदण्डकस्य "सिद्धत्थरपंच अहिगारा" इति वचनात्। शेषभावना प्राग्वत् / संघा०३ प्रस्ता०। (24) सिद्धस्तुतिः"कित्तिय वंदिय महिया, जे एलोगस्स उत्तमा सिद्धा। आरुग्ग बोहिलाभ, समाहिवरमुत्तमं दितु // 1 // " ध०२ अधिकालका "चंदेसु निम्मलयरा, आइचेसु अहियं पयासयरा। सागरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु" / / 1 / / ध०२ अधिकाला सङ्का० नामाऽर्हद्वन्दनाधिकाररूपश्चतुर्थोऽधिकारस्तृतीयो दण्डकः / एवं चतुर्विशतिस्तवमुक्त्वा सर्वलोक एवार्हचैत्यानां वन्दनाद्यर्थं कायोत्सर्गकरणायेदं पठति, पठन्ति वा-“सव्वलोए अरिहंत चेइयाणं करेमि काउस्सगर्ग" इत्यादि, “वोसिरामीति" यावत् / ध०२ अधि० / ल०।। नवरं सर्वलोके उधिस्तिर्यग्रुपे, त्रैलोक्य इत्यर्थः तत्रो+लोके सौधर्मादिस्वर्गागतविमानेषु / यथा-"बत्तीसलक्खचेइयं सो हम्मे" (इत्यादि चेइय' शब्दे अस्मिन्नेव भागे 1242 पृष्ठे गतम्) व्याख्या पूर्ववत्, नवरं सर्वश्वासौलोकश्च अधउर्वतिर्यग्भेदः, तस्मिँस्त्रैलोक्य इत्यर्थः / अधोलोके हि चमरादिभवनेषु, तिर्यग्लोके द्वीपाचलज्योतिष्कविमानादिषु, उर्ध्वलोके सौधर्मादिषु सन्ति वाऽर्हचैत्यानि। ततश्च मौलचैत्यं समाधिकारणमिति मूलप्रतिमायाः प्राक् स्तुतिरुक्ता / इदानीं सर्वे अर्हन्तस्तद्गुणा इति सर्वलोकग्रहः। तदनुसारेण सर्वतीर्थकरसाधारणा स्तुतिः / अन्यथा अन्यकायोत्सर्ग अन्या स्तुतिरिति न सम्यक, अतिप्रसङ्गात्। अति सर्वतीर्थकराणांस्तुतिरुक्ता। एष सर्वलोकस्थानाहतस्तवरूपः पञ्चमोऽधिकारः। इदानी येन ते भगवन्तः तदभिहिताश्च भावाः स्फुटमुपलभ्यन्ते, तत्प्रदीपस्थानीयं सम्यक् श्रुतमर्हति कीर्तनं तत्राऽपि तत्प्रणेतृन् भगवतस्तत्प्रथमं स्तौति - "पुक्खरवरदीवड्डे, धायइखंडेय जंबुदीवे य। भरहेरवयविदेहे, धम्माइगरे नमसामि" | ध०२ अधि० ल० / एवं श्रुतधर्मादिकराणां स्तुतिरुक्ता, एष षष्ठोऽधिकारः। इदानीं श्रुतधर्मस्याऽह - "तमतिमिरपडलविद्धं-सणस्ससुरगणन-रिंदमहिअस्स। सीमाधरस्स वंदे, पप्फोडिअमोहजालस्स"||१|| ध०२ अधि०। लंग इत्थं श्रुतमभिवन्द्य तस्यैव गुणोपदर्शनद्वारेणाप्रभादगोचरतां प्रतिपादयन्नाह - "जाईजरामरणसोगपणासणस्स, कल्लाणपुक्खलविसालसुहावहस्स। को देवदाणवनरिंदगणचिअस्स, धम्मस्स सारमुवलब्भ करे पमायं // 1 // " ध०२ अधि० संघा० / यतश्चैवमतः - "सिद्धे भो पयओ णमो, जिणमए नदी सया संजमे, देव नागसुवन्नकिन्नरगणस्सब्भूअभावच्चिए।। लोगो जत्थ पइट्ठिओ जगमिणं तेलुक्कमच्चासुरं, धम्मो वड्डउ सासओ विजयओ धम्मुत्तरं वड्डउ" ||1|| ध०२ अधि०। ल०। सडा०॥ (25) श्रुतस्यस्तुति :प्रणिधानमेतन्मोक्षबीजकल्पं परमार्थतो नाशंसारूपमेवेति प्रणिधानं कृत्वा श्रुतस्यैव वन्दनाद्यर्थ कायोत्सर्थं पठति, पठन्ति वा-"सुअस्स भगवओ करेति काउस्सग्गं” इत्यादि, "वोसिरामीति" यावत् / ध०२ अधि०ानवरं श्रुतस्येति प्रवचनस्य सामायिकादिचतुर्दशपूर्वपर्यन्तस्य, भगवतः समग्रैश्वर्यादियुक्तस्य, सिद्धत्वेन समग्रैश्वर्यादियोगः; न ह्यतो विधिप्रवृत्तः फलेन वउच्यते, व्याप्ताश्च सर्वप्रवादाः, एतेन विधिप्रतिषेधानुष्ठानपदार्थोविरोधेन च वर्तन्ते / स्वर्गकवलार्थिना तपो ध्यानादि कर्त्तव्यम्, “सर्वे जीवा न हन्तव्याः” इति वचनात् / "समितिगुत्तिद्धा" क्रिया , असपत्नो योगः" इतिवचनात्। 'उत्पादयिगमधौव्ययुक्तंसत्' / एवं द्रव्यमनन्तपर्यायमर्थः" इति वचनादिति कायोत्सर्गप्रपश्चः प्राग्वत् / तथैव च स्तुतिः, यदि च परं श्रुतस्य समानजातीयवृन्दकत्वात् / अनुभवसिद्धमेतत् / तत्स्थानात् चलति समाधिरन्यथेति प्रकटम्। ऐतिह्य चैतदेवमतो न साधनीयमिति।ल०। ततः कायोत्सर्गकरणं पूर्ववत्यापारयित्वा श्रुतस्य स्तुतिं पठति"सुअनाणत्थयरूयो, अहिगारो होइ एस सत्तमओ। इह पयसंपयसोलस, नमुत्तरा वन्न दुन्नि सया / / 1 / / " ध०२ अधि० / संधा० / व्याख्यातं 'पुष्करवरदीपार्द्ध' इत्यादि सूत्रम् / पुनरनुष्ठानपरम्पराफलभूतेभ्यः तेभ्यस्तथाभावेन तक्रियाप्रयोजकेभ्यश्च सिद्धेभ्यो नमस्करणायेदं पठति, पठन्ति वा-“सिद्धाणं" इत्यादि सूत्रम् / ल०। ध० / सङ्घा०। एष सिद्धस्तुतिरूपोऽष्टमोऽधिकारः।