________________ चेइयवंदण 1318 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण आपुच्छिऊण पियर, विणियानयरिं अह पविट्ठो॥४८॥ श्रुत्वैवं भरताधिपेन विहितां द्रव्याहतो वन्दनां, श्रीनाभिप्रभवप्रभोर्वचनतश्चाष्टापदे स्थापनाम्। तद्भो भव्यजनास्त्रिकालभविनामेषां सदा वन्दना, कुवीध्वं प्रतिमाश्च भावजनिताध्यारोपतो यत्नतः" ||4|| तदेवं द्रव्याहतां नमस्करणीयत्वात् भाष्यकारादिभिः समर्थित्वादावश्यकचूर्णिकृव्याख्यातार्थत्वात्संवेगादिकारणत्वात्सम्यक्त्वनैर्मल्यहेतुत्वाद् अशठबहुबहुश्रुतपूर्वाचार्यचरितत्वात् जीतकल्पानुपातित्वान युक्तेः “जे य अईया" इतिगाथेति। एष द्रव्यार्हद्वन्दनार्थं द्वितीयोऽधिकारः / शक्रस्तवविवरणं समाप्तमिति चूर्णिः / एवं शक्रस्तवाख्यप्रथमदण्डकेन भावद्रव्याहतोऽभिवन्द्य स्थापनार्हद्वन्दनार्थमुत्थाय साधुः श्रावको वा चैत्यस्तवदण्डकं विधिवद्भवति। उक्तं च"उठिय जिणमुद्दचियचलणो विहियकरजोगमुद्दो य। चेइयगयथिरदिट्ठी, ठबणाजिणदंडयं पढई" ||1|| सङ्घा०३ प्रस्ता०। (22) प्रणिपातदण्डके वाराः - एताभिर्नवभिः संपद्भिः प्रणिपातदण्डक उच्यते, तत्पाठानन्तरं प्रणिपातकरणात्। सनाचारवृत्तौ तुआदावन्ते च त्रीन् वारान् प्रणिपातः कर्तव्यः। तथा च तद्ग्रन्थः-“कहनमंति सिरपंचमेणं कारणं "इत्याचारागचूर्णिवचनात् पञ्चागप्रणामं कुर्वता "तिक्खुतो मुद्धाणं धरणितलंसि निवेसई" इत्यागमात् त्रीन् वारान् शिरसा भूमि स्पृष्ट्वा भूमिनिहितजानुना करधृतयोगमुद्रया शक्रस्तवदण्डको भणनीयः, तदन्ते च पूर्ववत् प्रणामः कार्यः, इति जिनजन्मादिषु स्वविमानेषु तीर्थप्रवृत्तेः पूर्वमपि शक्रोऽनेन भगवतः स्तौतीति शक्रस्तवोऽपयुच्यते / अयं च प्रायेण भावार्ह द्विषयो, भावार्हदध्यारोपाच स्थापनार्हतामपि पुरः पठ्यमानो न दोषाय। "तित्तीसं च पयाई, नवसंपयवन्नदुसयवासट्ठा। भावजिणत्थवरूवो, अहिगारो एस पढमो त्ति" ||1|| अतोऽनन्तरं त्रिकालवर्ति द्रव्यार्हद्वन्दनार्थमिमां गाथा पूर्वाचार्याः पठन्ति - "जे य अईया सिद्धा, जे य भविस्संऽतणागए काले। संपयइय वट्टमाणा, सव्वे तिविहेण वंदामि" ||1|| कण्ठक्या। ननुकथं द्रव्यार्हन्तो नरकादिगतिंगताअपि भावार्हद्वन्दनार्हा इति चेत? उच्यते सर्वत्र तावन्नामस्थापनाद्रव्यार्हन्तो भावार्हदवस्थादि व्यवस्थाप्य नमस्कार्या इति द्रव्यार्हद्वन्दनार्थोऽय द्वितीयोऽधिकारः। ध०२ अधि०। संपदः-"जे य अईआ सिद्धा” इति गाथा, साऽप्यवश्यं भणनीया शक्रस्तवान्ते, पूर्वैर्महाश्रुतधरैरभिहितत्वात्, न पुनरौपपातिकादिषु, “नमो जिणाणं जियभयाणं" इति पर्यन्तस्य शक्रस्तवस्य पठितत्वान्नेयं गाथाऽस्माभिः स्वयं भण्यते, इति कुबोधाऽऽग्रहास्तमानसैर्नवनवानन्यविकल्पकल्पनकुशलै राधुनिकैरिव कौश्चिन्न पठनीया, प्राक्तनैरशठैरनभिमानैः गीताथैः सूरिभिरादृतस्य पक्षस्यादरणीयत्वादिति। प्रव०१ द्वार / तदेतदसौ साधुः श्रावको वा यथोदितं पठन् पञ्चाङ्ग प्रणिपातं करोति / भूयश्च पादपुच्छनादिनिषण्णो यथा भव्यस्थानवर्णालम्बतगतचित्तः सर्वासाराणि यथाभूतान्यसाधारण गुणसंगतानि भगवतां दुष्टालङकारविरहेण प्रकृष्टशब्दानि भाववृद्धये परयोगव्याघातवर्जितेन परिशुद्धामापादयन् योगवृद्धिमन्येषां सद्विधानतः सर्वज्ञप्रणीतवचनोन्नतिकराणि भावसारं परिशुद्धगम्भीरेण ध्वनिना तु निभृताङ्गः सम्यगनभिभवन् गुरुध्वनि तत्प्रवेशात् अगणयन् दंशमशकादीन् देहे योगमुद्रया रागादिविषपरममन्त्ररूपाणि महास्तोत्राणि पठति। एतानि चतुल्यान्येव प्रायशोऽन्यथा योगघातः, तदज्ञस्य तदपरश्रवणम्। एवमेव श्रुतवित्तलाभः तद्व्याधातोऽन्यथेति योगोचर्याः। योगसिद्धिरेयात्र ज्ञापक द्विविधमुक्तम्शब्दोक्तमर्थोक्तं च। तदेतदर्थोक्तं वर्तते, शुभवित्तलाभार्थतवाद्वन्दनाया इति। एवं च सति तन्न किञ्चिद्यदुच्यते परैरुपहासबुद्ध्या प्रस्तुतस्यास्यादरतापादनाय / अलमनेन क्षपणकवन्दनाकालादकल्पे नाभाविताभिधानेन, उक्तवदभाविताविधानायोगात्, स्थानादिगर्भतया भावसारत्वात्। तदपरस्यागमबाह्यत्वात्। पुरुषप्रवृत्त्या तु तद्वाधायोगात् / अन्यथाऽतिप्रसङ्गादिति न किञ्चिदेतत् / एवंभूतैः स्तोत्रैर्वक्ष्यमाणप्रतिज्ञोचितं चेतोभाषमापाद्य पञ्चाङ्ग प्रणिपातपूर्वकप्रमोदवृद्धिजनकानभिवन्द्याचार्यादिना गृहीतभावः सहृदयनटवत् अधिकृतभूमिका संपादनार्थं चेष्टते, वन्दनासंपादनाय स चोत्तिष्ठति, जिनमुद्रया पठति चैतत्सूत्रम्- 'अरिहंतचेइयाणं' इत्यादि। संपदः। ल०। तत्रास्य संपद्गतपदसंख्यापरिज्ञानार्थमाह - दु छ सग नव तिय छच्चन-छप्पयचिइसंपयापया पढमा। अरिहां वंदण सद्धा, अन्न सुहुम एव जा ताव / / अक्षरघटना प्राग्बत्। भावार्थस्त्वयम्- “अरिहंतचेइयाणं" इत्याद्यपदद्वयप्रमाणा प्रथमा संपत् / “वदणवत्तियाए” इत्यादिपदषडकपरिमाणा द्वितीया संपत्। “सद्धा" इत्यादि सप्तपदपरिमाणातृतीया संपत्। “अन्नत्थ ऊससिएणं" इत्यादिपदनवकनिर्मिता चतुर्थी संपत् / “सुहुमेहिं" इत्यादिपदत्रययुता पञ्चमी संपत् / “एवमाइएहि" इत्यादिषट्पदपूरिता षष्ठी संपत्। “जाव अरिहंताणं" इत्यादिपदचतुष्कमित्यादिसप्तमी संपत्। "ताव कार्य" इत्यादिपदषट्कघटिताऽष्टमी इति। सङ्घा०३ प्रस्ता० / प्रव०। ध०। (23) चतुर्विंशतिस्तवः - “अरिहं वंदण सद्धा, अन्न सुहुम एव जा ताव। अडसंपयतेआला, पयवन्ना दुसयतीसऽहिआ॥१॥" एष स्थापनार्हद्वन्दनाख्यस्तृतीयोऽधिकारः, द्वितीयो दण्डकः कायोत्सर्गश्चाष्टोच्छासमात्रः। न त्वत्र ध्येयनियमोऽस्ति, कायोत्सर्गान्ते च यद्येक एव, ततः “नमो अरिहंताणं" इति नमस्कारेण परयित्वा यत्र चैत्यवन्दना कुर्वन्नस्ति, तत्रयस्य भगवतः संनिहितं स्थापनारूपं तस्स स्तुतिं पठति / अथ बहवः, तत एक एव स्तुतिं पठति / अन्ये तु कायोत्सर्गस्थिता एव शृण्वन्ति यावत् स्तुतिसमप्तिः ततः सर्वे ऽपि नमस्कारेण पारयन्तीति, तदनन्तरं तस्यामे वावसर्पिण्यां ये भारते वर्षे तीर्थकृतोऽभूवन, तेषामेकैकक्षेत्र निवासादिना आसन्नोपकारित्वेन कीर्तनाय चतुर्विंशतिस्तवं पठति, पठन्ति वा-“लोगस्सुजोयगरे, धम्मतित्थयरे जिणे। अरिहंते कित्तइस्सं, चउवीसं पि केवली"|१|ध०२ अधि० / ल० / यदुक्तं कीर्तयिष्यामीति तत्कीर्तनं कुर्वन्नाह - "उसभमजिअंच वंदे, संभवाभिणंदणं च सुमहंच।