________________ चेइयवंदण 1317 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण च-"अट्ठमी तस्स उत्तरी" इत्यादि, "ठामि काउस्सगं" इतिपर्यन्तमिति। परतः कायोत्सर्गदण्डकत्वाच तद्वर्णसहितानितुत्रीणि शतानि चत्वारिंशदधिकानि भवन्ति / उक्तं च-"नवनवइसया इरियावहिआए होइ वनपरिमाणं / उस्सग्गवन्नसहिआ, ते तिन्नि सया च चालीसा // 1 // " अपरे तु-"मिच्छा मि दुक्कडं” इति पर्यवसानं "वन्नाणं सड्ढसयं” इति भणन्ति / तथाऽत्र द्वात्रिंशत्पदानि, अष्टौ संपदो महापदानीति॥ अथ यस्यां संपदियावन्ति पदानि सन्ति तत्संख्या आद्यपदपरिज्ञानेच शेषपदानि सुखेन ज्ञायन्ते, इत्याद्यपदानि च ईर्यापथिकीसंपदा प्रतिपिपादयिषुराह - दुग दुग इग चउ इग पण, इगरस छग इरियसंपयाइ पया। इच्छाइरिगमपाणा, जे मे एगिंदी अभि तस्स // 24 // द्वेचद्वे चेत्यादि द्वन्द्वः। ततो द्विठ्येकचतुरेकपञ्चैकादशषट्पदानि यासु ताश्च ता ईर्यापथिकीसंपदश्च "ते लुग्वा" ||32108|| इति पदपथिकीशब्दयोर्लोपः, तासामाद्यपदानि। यथा इच्छाच, इरिश्चेत्यादिद्वन्द्वः / इत्यक्षरघटना 1 एवमन्यत्रापि कार्या / भावार्थस्त्वयम् - इच्छेतिवर्णद्वयसूचिताऽऽद्यपदा “इच्छामि 1 पडिक्कमिउं 2" इति पदद्वयपरिमाणा प्रथमा संपत्। इरीत्यक्षरद्वयघटिताद्यपदा “इरियावहिआए 1 विराहणाए 2" इतिपदद्वयनिष्पन्ना द्वितीया संपत्। गमेत्याद्यक्षरद्वयलक्षणा- “गमणागमण" इत्येकपदैव तृतीया संपत् / “पाणे ति" द्विवर्णवादिमपदा “पाणकमणे बीयक्कमणे हरियक्कमणे 3 ओसा उत्तिंगपणगदगमट्टीमकडासंताणासंकमणे 4" इति पदचतुष्टयनिष्ट-ङ्किता चतुर्थी संपत् / “जे में" इत्याद्यव्यञ्जनद्वयव्यञ्जिता “जे मे जीवा विराहिया" इत्येकपदपरिमिता पञ्चमी संपत्। 'एगिंदीति' अक्षरसूचिताऽऽद्यपदा-“एगिंदिया 1 बेइंदिया 2 तेइंदिया 3 चउरिदिया 4 पंचिंदिया 5" इति पदपञ्चकपरिनिष्ठिता षष्ठी संपत्। 'अभीति' वर्णद्वयवर्णिताद्यपदा "अभिहया 1 वत्तिआर लेसिआ 3 संघाइआ४ संघट्टिआ 5 परियाविआ 6 किलामिआ 7 उइविआ 8 ठाणाओ ठाणं संकामिया 6 जीविआओ ववरोविआ 10 तस्स मिच्छा मि दुक्कडं 11" इत्येकादशपदपरिच्छिन्ना सप्तमी संपत्। “तस्स त्ति" आद्यपदालिङ्गिता “तस्स उत्तरीकरणेणं 1 पायच्छित्तकरणेणं 2 विसोहीकरणेणं 3 विसल्लीकरणेणं 4 पावाणं कम्माणं निग्घायणट्ठाए 5 ठामि काउस्सगं।" इतिपदषट्कघटिताऽष्टमी संपत् / परतः कायोत्सर्गसूत्रत्वाद्भाष्यान्तरेऽन्यपदालिङ्गनेनास्या एतदन्तभणनाच / उक्तं च-“जीवा विराहिया पंचमी उ पंचिंदिया भवे छट्टी। मिच्छा मिदुक्कडं सत्तमी अट्ठमिठामि काउस्सगं॥१॥" एवं चासो पदैः परिगणनमर्थसाङ्गत्येन यथार्थतापरिज्ञानात्। उच्यते-"अब्भुवगमो 1 निमित्तं 2, ओहे 3 यरहेण 4 संगहे 5 पंच / जीव 6 विराहण 7 पडिकमणभेयओ तिन्नि चूलाए॥१॥" अस्या अर्थ उक्तानुसारेणोन्नेयः / वाचनान्तराणि त्वर्थसाङ्गत्याभावेन यादृच्छिकानि चेति मत्वोपेक्षितानि / अत्र चैवं बृहद्भाष्योक्तो विधिः- “संनिहि भावगुरूं, आपुच्छित्ता खमासमणपुव्वं / इरिअंपडिक्कमिजा, ठयणा जिणसरिकायं इहरा / / 1 / / " ननु जिनबिम्बस्यापि पुरतः स्थापनाचार्यः स्थापनीयः, तीर्थकरे सर्वपदभणनात् तद्दिम्बेऽपि सर्वपदस्थापना अवसीयतएव। उक्तं च व्यवहारभाष्ये - "आयरियग्गहणेणं, तित्थयरो इत्थ होइ गहिओ अ। किं न भवइ आयरिओ, आयारं उवइसंतोय।। निदरिसणमित्थ जह खंदएण पुट्ठो य गोयमो भयवं। केण तुहं सिलु ति य, धम्मायरिएण पच्चाह / / स जिणो जिणाइसइओ, सो चेव गुरू गुरूवएसाओ। करणाय विणयणाउं, सो चेव मतो उवज्झाअं॥” इति। आचाराङ्ग चूर्णावप्युक्तम् - "आयरिया तित्थयरा गुणे आयरिय असंजमए" ति।सूत्रचूर्णिः-"आयरिया तित्थयर त्ति।” संघा०३ प्रस्ता०। ईयाप्रतिक्रमणसूत्रमत्रैव प्रागुक्तम् (अत्रस्कन्दकमुनिकथानकं सडाचाराज्ज्ञेयम्) ई०प्र० अनन्तरम्-एतदर्थश्चैत्यस्तवदण्डके अभिधास्यते"इरियउसग्गपमाण, पणविंसुस्सास" इति वचनात् पञ्चविंशत्युच्छवासपूरणार्थं "चंदेसु निम्मलयर" इत्यन्तंचतुर्विंशतिस्तवं मनसा विचिन्त्य "नमो अरिहंताणं" इति भणन्कायोत्सर्ग पारयित्या पुनश्चतुर्विशतिस्तव सकलं वाचोचरति / सङ्घा०३ प्रस्ता० / “नमोऽत्यु णं अरिहंताणं भगवंताणं" इत्यादि। (अस्य व्याख्या अर्हदादिशब्देषु) तत्र शक्रस्तवसंपदां पदसंख्यामाद्यपदानि च प्रतिपिपादयिषुराह- / दुति चउ पण पण दुचउ ति, प्पयसक्कत्थयसंपयाइपया। नमुआइगपुरिसो लो-गुअभयधम्मऽप्पजिणसव्वं // 32 / / अक्षरघटना प्रागुक्तानुसारेण कार्या। भावार्थः पुनरयम्- "नमोऽत्थुणं अरिहंताणं" इत्याद्यपदा पदद्वयप्रमाणा प्रथमा संपत् / “आइगरेणं" इत्यादिपदत्रयनिष्पन्ना द्वितीया।२। “पुरिसुत्तमाणं" इत्यादिपदचतुष्कचर्चिता तृतीया / 3 / लोगुत्तमाण" इत्यादिपञ्चपदपूरिता चतुर्थी / 4 / "अभयदयाणं" इत्यादिपदपञ्चकपरिमाणा पञ्चमी / 5 / “धम्मदयाणं" इत्यादिपदपञ्चकनिष्पन्नाषष्ठी।६। “अप्पमिहय" इत्यादिपदद्वयनिर्वर्तिता सप्तमी।७। "जिणाणं" इत्यादिपदचतुष्टयघटिताऽष्टमी।। "सध्वन्नूणं" इत्याद्यत एकत्रिकपरिकलिता "जियभयाणं" इति पर्यन्ता नवमी संपत्।। . अथास्यैव वर्णादिसंख्यार्थं गाथापूर्वार्द्धमाहदोसयनउआ वन्ना, नव संपय पय तिसीस सक्कथए। द्वे शते सप्तनवत्यधिके, वर्णा अक्षराणि, शक्रस्तवदण्डके इति योगः। "सव्वे तिविहेण वंदामि” इति यावत्, एतदन्तस्यैव वर्णवृद्धिसम्प्र-दायेन प्रणिपातदण्डकतया रूढत्वात् / तथा च चैत्यवन्दनाचूर्णी-"तिविहेण वंदामि" इत्येतदन्तं व्याख्याय भणितम्- "सक्कत्थयं विवरणं सम्मत्तं"। श्रीलधुभाष्येऽप्युक्तम्- “दो दो चउ चउ तिसया, सग नवइ तिसनवइ अप्पहिआ। अडतीसा छायाला, दंडेसु जहक्कम्मं वन्ना" / / 1 / / अस्यार्थः स्थापनातोऽवसेयः।तथा नव संपदः,पदानि च त्रयस्त्रिंशत् शक्रस्तवे। सङ्घा०३ प्रस्ता०। ध०। प्रव०॥ भरतचरिते तुतस्य चक्ररत्ने उत्पन्ने - “सो विणयमो ठवगओ, काऊण पयाहिणं च तिक्खुत्तो। वंदइ अभित्थुणंतो, इमाहि महुराहिं वग्गूहिं / / 46 / / लाभा हु ते सुलद्धा, जंसि तुम धम्मचक्कवट्टीणं / होहिसि दस चतुदसमो, अपच्छिमो वीरनामो ति॥४७।। एवं ण्हं थोऊणं, काऊण पथाहिणं च तिक्खुत्तो।