________________ चेइयवंदण 1323 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण दव्वजिणा जिणजीवा, भावजिणा समवसरणत्था॥३३॥ नामैव नामप्रधानतया वा जिना नामजिनाः / कानीत्याह-जिनः, अर्हन, पारगत इत्यादि नामानि / यद्वा-जिनानां तीर्थकृतां नामानि "उसभ अजित" इत्यादीनि / स्थापनया लेप्यकादिरूपया जिना स्थापनाजिनाः, जिनेन्द्राणां प्रतिमाः, बिम्बानीत्यर्थः / पुनः शब्दोऽक्षादिन्यस्तनिकारस्थापनाजिनपरिग्रहार्थः / द्रव्यं दलिकं भूतभाविभावकारण, तदाश्रित्य जिना द्रव्यजिनाः, येऽईत्पदवीं प्राप्य सिद्धाः, ये च तां प्राप्स्यन्ति / सङ्घा०३ प्रस्ता०। (अत्रेश्वरनरेन्द्रकथा सङ्काचाराद् ज्ञातव्या) उक्त "चउहजिण" त्ति पञ्चदशं द्वारम् / एवं च द्वारे उक्ता द्वादशाऽधिकाराः / त्रयोदशचतुर्दशपञ्चदशेतिद्वारत्रयेऽधिकारिणश्च प्रतिपदिताः / (31) अथ यत्राधिकारे यः स्तूयते तत्प्रतिपादनाय गाथात्रयमाहपढमऽहिगारे वंदे, भावजिणे वीययम्मि दवजिणे। इगचेइयठवणजिणे, तइऍ चउत्थम्मि नामजिणे // 34 // प्रथमे आधे शक्रस्तवरूपेऽधिकारे स्तोतव्यविशेषस्थाने, वन्दे सद्भूतगुणोत्कीर्तनेन स्तवीमीति भावजिनान् भावार्हतश्चतुस्त्रिशदतिशयादिमत्त्वमहद्भावं प्राप्तानुत्पन्नेकेवलज्ञानान् समवसरणस्था - स्तीर्थकृत इत्यर्थः / तत्रैव संपूर्णार्हद्भावभावात् / भणितं च-“भावजिणा समवसरणत्थं" ति। तथा द्वितीये"जे य अईय"त्ति गाथालक्षणेऽधिकारे, वन्दे इति सर्वत्रापि योज्यम् / द्रव्यजिनान् द्रव्याहतोऽष्टमहाप्रातिहार्यादिकां तीर्थकृल्लक्ष्मी प्राप्य सिद्धाः, ये च तस्मिन्नन्यस्मिन्या भवे तां प्राप्स्यन्ति, न च तदानीं प्राप्तवन्तस्तानर्हत्वद्रव्यान, जिनजीवानित्यर्थः / उक्तंच"भूतस्य भाविनो वा, भावस्य हि कारणां तु यल्लोके। तद्दव्यं तत्त्वज्ञैः, सचेतनाचेतनं कथितम्"॥१|| तथा एकचैत्यस्थापनाजिनान् - यत्र देवगृहादौ चैत्यवन्दनं कर्तुमारब्धं तत्र स्थपितानि यानि जिनबिम्बानीत्यर्थः, तृतीये "अरिहंतचेझ्याणं" इति दण्डकरूपे; तथा चतुर्थे चतुर्विशतिमपि जिनात्मके नामजिनान् जिननामानि / अस्यामवसर्पिण्यां भरतक्षेत्रवर्तितयाऽऽसन्नत्वादिनोपकारित्वाचतुर्विशतिमपि जिनान्नामोत्कीर्तनेन स्तौमीत्यर्थः // 34 // तिहुयणे ठवणजिणे पुण, पंचमए विहरमाण जिणछट्टे / सत्तमए सुयनाणं, अट्ठमए सव्वसिद्धथुई॥३५|| त्रिभुवने ऊधिस्तिर्यग्लोके, स्थापनाजिनान् शाश्वताशाश्वतचैत्यस्थापिताऽर्हत्सिद्धप्रतिमारूपान्, पञ्चमके "सव्वलोए अरिहंतचेइयाणं" इति कायोत्सर्गदण्डकलक्षणेऽधिकारे, वन्दे इति योज्यम् / अत्र चार्हत्सिद्धप्रतिमारूपानिति प्रकारान्तरसूचक पुनःशब्दाव्याख्यातम्, भणितं चावश्यकचूर्णिकारेण सिद्ध प्रतिमानामपि वन्दनपूजनादि। तथा च प्रतिक्रमणाध्ययने-“सव्वलोए अरिहंतचेइयाण" इति दण्डकचूर्णिः / "जे सव्वलो एसिद्धाई अरिहंता चेइयाणि य तेसिं चेव “प्रतिकृतिलक्ष- / णानि, “चिती' संज्ञाने, संज्ञानमुत्पद्यते काष्ठकर्मादिषु प्रतिकृतिं दृष्ट्वा "जहा अरिहंतपडिमा एस त्ति,” सिद्धादिप्रतिमेत्यर्थः / अन्ये भणन्ति"अरिहंता तित्थयरा तेसिं चेइयाणि, अरिहंतचे इयाणि " अर्हत्प्रतिमेत्यर्थः / अत्र च अन्ये भणन्ति-"अरहंता तित्थयरा" इत्यादिभणता चूर्णिकृता पूर्वव्याख्याने सिद्धप्रतिमाः पृथग् स्पष्टं निष्टङ्किताः, अन्यथा द्वितीयव्याख्यानं निष्फलं स्यात् / एवं च सिद्धप्रतिमासिद्धौ तासां वन्दनपूजाद्यपि करणीयमायातम्, तत्प्रत्ययं च कायोत्सर्गाद्यपि। उक्तं चैतदावश्यकचूर्णा / तथाहि-पूज्यत्वात् तेषां पूजनार्थ कायोत्सर्ग करोमि, श्रद्धादिभिर्वर्द्धमानैः सद्गुणसमुत्कीर्तनपूर्वकं कायोत्सर्गस्थाने पूजनं करोमीत्यर्थः / “जहा कोइ गंधचुण्णावासमल्लाइएहिं" समभ्यर्चनं करोतीति। "एवं सक्कारवत्तियाए सम्माणवत्तियाए विभावयव्यं, नवरं सक्कारो जहा वत्थाभरणाइ त्ति सकारणं संमाणो संमं मणणं ति" / एतावता च सिद्धप्रतिमानामप्यने “अरिहंतचेयाणं" इत्यपि दण्डकः पाठाय संगच्छते, शब्दार्थयोस्त्रापि समानत्वात् / पर्युपास्या इहार्थे बहुश्रुताः / यथा श्रीजिनभद्रगणिक्षमाश्रमणैरपि विशेषावश्यक साक्षेपं स्थापिता सिद्धपूजा। तथाच"कुजा जिणाण पूया. परिणामविसुद्धिहेउओ निचं / दाणादओ व मगप्पभावणाओ व कहणं च // 1 // " कार्या जिनसिद्धपूजास्तत्परिणामविशुद्धिहेतुत्वात् दानादिक्रियावत्। अथवा-कार्या जिनसिद्धपूजा मार्गप्रभावनात्मकत्वात्धर्मकथावत्॥१॥ चोदकः"पूया फलप्पया नो, तहं च कोवप्पसायविरहाओ। जिणसिद्धा दिट्ठतो, बेहं च मणं निवाईया।।२।" आचार्यः"कोवप्पसायरहियं, पि दीसए फलयमन्नपाणाइ। कोवप्पसायरहिय, त्ति निष्फला तो अणेगंतो॥१॥” इत्यादि। पूजिता चमरुदेवा स्वामिनी प्रथमसिद्ध इति कृत्वा देवैः, कारिताश्च सिद्धप्रतिमा भरतेनाऽष्टापदोपरिएतयोः (संघा०३प्रस्ता०।)तथा विहरमाणजिनान् षष्ठे पञ्चदशकर्मभूमिषु विहारं कुर्वाणान्. सूत्रार्थकथनपरायणान भावार्हत इत्यर्थः / उक्तं च "पढमे छ8 नवमे, दसमे एगारसे यभावजिणे" वन्दे इति प्रकृतम्। ते च मघन्यतो विंशतिरुत्कष्टतः सप्तविंशतिर्भवन्ति। आह चसत्तरिसयमुक्कोसं, जहन्नओ विहरमाणजिणवीसं! जम्मं पइ उक्कोसं, वीसं दस हुँति उ जहन्न त्ति / / 1 / / " आवश्यकचूर्णी तु द्रव्यार्हन्तोऽप्यत्र व्याख्याताः / तथा चोक्तम् "छक्कोसएणं सत्तरि तित्थयरसयं,जहाणपएणवीसं तित्थयरा, एएताय एगकाले भवंति, अईया अणागया अणंता, ते तित्थगरे नमसामि त्ति"। षष्ठे-“पुक्खरवरदीवड्ढे” इति-गाथात्मकः / तथा सप्तमे-“तमतिमिर" इत्यादिस्वरूपे श्रुतज्ञानमङ्गानङ्गप्रविष्टं सिद्धान्तं, वन्दे इति पूर्वगाथातो योज्यम् / तथाऽष्टमे "सिद्धाणं बुद्धाण" इतिगाथायां सर्वेषां तीर्थसिद्धातीर्थसिद्धादिभेदभिन्नानां नामस्थापनादिरूपाणां वा सिद्धानां क्षपितकर्माशाना स्तुतिः क्रियत इति गम्यम्॥३५।। तित्थाहिववीरथुई, नवमे दसमे य उज्जयंतथुई। इगदसमे अट्ठावय, सुदिट्ठिसुरसुमरणा चरिमे // 36 / / तीर्थाधिपस्य वर्तमानतीर्थस्य प्रवर्तकत्वान्नाथस्य, वीरस्य वर्द्धमानस्वामिनः स्तुतिर्विधीयते, आसन्नतरतया महोपकारित्वात् नवमेऽधिकारे "जो देवाण वि" इत्यादिगाथाद्वयरूपे / तथा दशमे च "उजिंतसेल" इतिगाथाप्रमाणे "उज्जयंत त्ति" तात्स्थ्यात्तापदेश इति