________________ चेइयवंदण 1315 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण न्यत्वेनाधिकारवन्तः, इह भाववन्दनायां, न तु शेषाः न पुनरपुनबन्धकादिभ्योऽपरे, मार्गभिमुखमार्गपतितसकृबन्धकतदन्यमिथ्यादृशोऽधिकारिण इति प्रकृतम् / कुत एतदेवमित्याह-द्रव्यतोऽपि भावव्यतिरेकेणापि, आस्तां भावतः, यद्यस्मात्कारणात्, एषा वन्दना, द्रव्यवन्दनाऽपीत्यर्थः / इतरस्या भावतो वन्दनायाः, योग्यतायाम् अर्हतायां, सत्यां भवति नान्यथा; अतः कथं शेषा भाववन्दनाधिकारिणो भवन्तीति / ननु भाववन्दनाया अयोग्यतायामपि केषाञ्चिद् द्रव्यवन्दनेष्यते, अतः कथमुक्तं भाववन्दनाऽनर्हाणां द्रव्यवन्दनाऽपि न भवतीत्यत्राह-शेषाणां तु शेषाणां पुनरपुनर्बन्धकादिभ्योऽन्येषां सकृद्बन्धकादीनाम्, अप्रधानाऽनुत्तमा द्रव्यवन्दना भवति, न तुप्रधाना, भाववन्दनाया अकारणत्वात्तस्याः / दइमुक्तं भवति-द्रव्यशब्दो योग्यतायामप्राधान्ये च वर्तते, तत्र शेषायां भाववन्दनायोग्यत्वेन या प्रधाना द्रव्यवन्दना सा न भवति / तदयोग्यतया त्वप्रधानद्रव्यवन्दना स्यादपि / इतिशब्दो वाक्यार्थसमाप्तौ। इति गाथार्थः / / 7 / / अथ यदुक्तं शेषाणामंप्रधानेति तत्समर्थनार्थमाहण य अपुणबंधगाओ, परेण इह जोग्गया वि जुत्त त्ति। ण य ण परेण वि एसा, जमभव्वाणं पिणिहा || न च नैव, अपुनर्बन्धकादुक्तस्वरूपात्, परेण परतः, सकृबन्धकादीनामित्यर्थः / इह भाववन्दनाया, योग्यताऽप्पहताऽपि, आस्तां भाववन्दना, युक्ता संगता,संसारभूयस्त्वात्तेषाम्। इति शब्दो वाक्यार्थसमाप्तौ। तथा न च नैव, न परेणापि नपरतोऽपि, सकृदबन्धकादेरप्येषा द्रव्यवन्दना भवति, भवत्येवेत्यर्थः / कुत एतदेवमित्याह-यद्यस्मात्कारणात्, अभव्यानामपि सिद्धिगमनायोग्यानामपि, आस्तां सकृबन्धकादीनाम् / निर्दिष्टा निदर्शिता आगमे / आर्हतदीक्षासाध्यस्य ग्रैवेयकोपपातस्यानन्तशोभव्यानामुक्तत्वात्, अतः शेषाणां भाववन्दनाऽनर्हत्वेन द्रव्यवन्दनाया अभावत्वात्, तस्याश्च तेषामुक्तत्वादप्रधाना सेति स्थितम्। इति गाथार्थः / पञ्चा०३ विव०। (16) अधिकारितायद्येवमुच्यतां के पुनरस्याधिकारिण इति? उच्यते-एतद्बहुमानिनो विधिपरा उचितवृत्तयश्च / न हि विशिष्टकर्मक्षयमन्तरेणैवंभूता भवन्ति। क्रमोऽप्यमीषामयमेव, न खलु तत्त्वत एतद्बहुमानिनो विधिपरा नाम, भावसारत्वाद्विधिप्रयोगस्य, न चायं बहुमानाभावे इति, न चामुष्मिकविधावप्यनुचितकारिणोऽन्यत्रोचितवृत्तय इति विषयभेदेन तदौचित्याभावात्, अप्रेक्षापूर्वकारिविजृम्भितं हि तत्, तदेतेऽधिकारिणः परार्थप्रवृत्तर्लिङ्गतोऽवसेयाः,मा भूदनधिकारिप्रयोगेदोष इति। लिङ्गानि चैषां तत्कथाप्रीत्यादीनि / तद्यथा-तत्कथाप्रीतिः, निन्दाऽश्रवणम्, तदनुकम्पा, चेयसो न्यासः, परा जिज्ञासा, तथा गुरुविनयः, सत्कालापेक्षा, उचितासनं, युक्त स्वरता, पाठोपयोगः, तथा लोकप्रियत्वम्, अगर्हिता क्रिया, व्यसने धैर्य, शक्तितस्त्यागः, लब्धलक्षत्वं चेति / एभिस्तवाधिकारितामवैत्यैतदध्यापने प्रवर्त्तत, अन्यथा दोष इत्युक्तम्। आह-कइवानधिकारिप्रयोगेदोष इति ? उच्यतेस ह्यचिन्त्यचिन्तामणिकल्पमनेकभवशतसहस्रोपात्तानिष्टदुष्टाष्टकर्मराशिजनितदौर्गत्यविच्छेदकमपीदमयोग्यत्वादवाप्यन विधिवदासेवते, लाघवं चास्यापादयति, ततोऽविधिसमासेवकः कल्याणमिव महदकल्याणमासादयति / उक्तं च-“धर्मानुष्ठानवैतथ्यात्प्रत्यपायो / महान्।रौद्रदुःखौघजनको, दुःप्रयुक्तादिवौषधात्"।१।। इत्याद्यतोऽनधिकारिप्रयोगे प्रयोक्तृत्वमेव न स्वतः तदकल्याणमिति लिङ्गः तदधिकारितामवैत्यैतदध्यापने प्रवर्तेत। एवं हि कुर्वता आराधितं वचनं, बहुमतो लोकनाथः, परित्यक्ता लोकसंज्ञा, अङ्गीकृतं लोकोत्तरयानं, समासेविता धर्मचारितेति। अतोऽन्यथा विपर्यय इत्यालोचनीयमेतदतिसूक्ष्मभावेन / न हि वचनोक्तमेव विधानमुल्लध्याऽपरो हितायुपायः, न चानुभवाभावे पुरुषमात्रप्रवृत्तेस्तथेष्टफलसिद्धिः / अपि च-लाघवापादनेन शिष्टप्रवृत्तिनिरोधतस्तद्विघात एव / अपवादोऽपि सूत्राबाधया गुरुलाघवालोचनपरोऽधिकदोषनिवृत्त्या शुभः शुभानुबन्धी महासत्त्वसेवित उत्सर्गभेद एव / ननु सूत्रबाधया गुरुलाघवचिन्ताभावेन हितमहितानुबन्ध्यसमञ्जसं परमगुरुलाघवकारि क्षुद्रसत्त्वविजृम्भितमिति। एतदङ्गीकरणमप्यनात्मज्ञानां संसारसरिच्छ्रतसि कुशकाशावलम्बनमिति परिभावनीयम् सर्वथा निरूणीयं प्रवचनगाम्भीर्य, विलोकनीया तन्त्रान्तरस्थितिः, दर्शनीयं ततोऽस्याधिकत्वम्, यतितव्यमुत्तमनिदर्शन इति श्रेयोमार्गः, व्यवस्थितश्चायं महापुरुषाणां क्षीणप्रायकर्मणां विशुद्धाशयानां भवाबहुमानिनाम् अपुनर्बन्धकादीनामिति / अन्येषा पुनरिहानधिकार एव, शुद्धदेशनाऽनर्हत्वात् / शुद्धदेशना हि क्षुद्रसत्त्वमृगयूथसन्त्रासनसिंहनादः, ध्रुवस्तावदतो बुद्धिभेदः, तदनुसत्त्वलेशचलनं, कल्पितफलाभावापादनात् अशस्तमहामोहवृद्धिः, ततोऽधिकृतक्रियात्यागमकारी संत्रासः, भवाभिनन्दिना स्वानुभवसिद्धमप्यसिद्धमेतदचिन्त्यमोहसामर्थ्यादिति। न खल्वेतानधिकृत्य विदुषा शास्त्रसद्भावः प्रतिपादनीयो, दोषभावादिति / उक्तं च "अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम्। दोषायाभिनवोदीर्णे, शमनीयमिव ज्वरे॥१॥” इति कृतं विस्तरेण, अधिकारिण एवाधिकृत्य पुरोदितान्, अपक्षपातत एवं निरस्येतरात् प्रस्तुतमभिधीयत इति। ल०। "एएहि लिंगेहिं नाऊणऽहिगारिणं तओ सम्म। चिइवंदणपाठाइ वि, दायव्वं होइ विहिणा उ॥१७॥ भणियं च - अत्थो विहिकहणं च, अत्थउ चिइवंदणाइदूरेण / पाढो वितओ देई, अहिगारिणि अपुणबंधाई ||18|| दिन्ना उ अणहिगारिणि, अविहिअवन्नाइसेवणा जस्स। दुपउत्त ओसह पि व, होइ अकल्लाणजणगं ति।।१६।। तम्हा उ अपुणबंधग, अविरयविरयएहि होइ कायव्वा॥ विहिउचियवित्तिबहुमा-भत्तिकलएहिँ सयकालं // 20 // साहूहिँ गिहत्थेहि य, अणन्न चिट्ठइ जलयत्तकलिएहिं। जहसंभवं गहाहिं, कयजिणपूयोवयारेहिं॥२१॥ तह दव्वभावभेया, दुहा इमा दव्वओ पुणो दुविहा। अपहाणा य पहाणा, होऊ भाविस्सिह पहाणा // 22 // तत्थ पहाणा, एसा, होऊ पुण बंधगाईणं / अपहाणं चित्र सेसा-ण इत्थ सइबंधगाईणं / / 23 / / ता उण सइबंधगाणं, मग्गाभिमुहाण मग्गवडिआणं। इयराण वि अपहाणा, चिइवंदण दव्वओ होइ॥२४॥ उवओगअत्थचिंतण, गुणराया लाहबिम्हओ चेव। लिंगाण विहिअभंगो, भावे दव्वे विवजइओ।॥२५॥ वेलाविहाणतग्गय-मणतणुवयणाणि तह य लिंगाणि।