________________ चेइयवंदण 1310 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण एयस्स पुण सरूवं, सविसेसं उवरि वुच्छामि // 2 // " ननु यदेतत्प्रणिधानत्रिकमुक्तं तत्किल वन्दनाऽवसाने विधीयते “अन्नं पितिप्पयार वंदणयपरंतभावि" इत्यादिभाष्यवचनात्। ततः शेषावन्दना प्रणिधानरहितेति प्राप्तमित्याशङ्कयाऽऽह-“चेइय त्ति। अथवा द्वितीयमपि प्रणिधानत्रिकमस्ति यत्समस्त चैत्यवन्दनायां विधीयते। किं तदित्याहमनोवचःकायानामैकाग्नयम्, अकुशलरूपाणां निवर्त्तनम् समाधिः रागद्वेषाभावोऽनन्योपयोगितेति यावत्। आह च - "इह पणिहाणं तिविहं, मणवइकायाण जं समाहाणं। रागद्दोसाभावो, उवओगित्तं न अन्नत्थ // 1 // एअंपुण तिविहं पिहु, वंदंतेणाऽऽइओ उ कायव्वं / चिइवंदणमुणिवंदण-पत्थणरुवं तु पज्जते॥२॥" अत्र चेयं भाष्योक्ता भावना एगग्गमणो वंदइ, मणपणिहाणं हवइ एयं / / 1 / / बिगहाविवायर हिओ, वजंतो मूयढडुरं सदं / वंदइ सपयच्छेयं, वाया पणिहाणमेयं तु॥२॥ पेहंतमपज्जतो, उट्ठाणनिसीयणाइये कुणई। वावारंतररहिओ, वंदइ इय कायपणिहाणं" ||3|| पञ्चाशकेऽप्युक्तम्"सव्वत्थ वि पणिहाणं, तग्गयकिरियाऽभिहाणवन्नेसु। अत्थे विसए य तहा, दिट्ठतो छिन्नजालाए।।१।।" अस्या अर्थः-सर्वत्रापि समस्तायामपि चैत्यवन्दनायां, न केवलं तदन्त एव प्रणिधानं कार्य, नरवाहणनरेन्द्रवत् / क्व विषये ? तद्गताश्चैत्यवन्दनागताः, क्रिया सुखस्थगनमुद्रान्यासादिकाः, तासु, तथा अभिधानानि पदानि, वर्णा अक्षराणि, तेषु तेषु, तथाऽर्थोऽहंदादिपदाभिधेयः, तस्मिन्, विषयो वन्दनागोचरो भावार्हदादिः, दृष्टिगोचरो वा चैत्यबिम्बप्रभृतिकः, तस्मिन्, तथाशब्दात् “जय वीयराय" इत्यादिप्रार्थनायामपि, 'दिहतो छिन्नजालाए' इति तुर्यपदस्यैवं भावना। प्रेरकः प्राह"वन्नाइसु उवओगो, जुयवं कह घडइएगसमयम्मि। दो उयओगा समए, केवलिणो वि हुन जंइट्ठा / / 1 / / " आचार्यः“कमसो वि संभवंता, जुगवं नजंति ते विभिन्ना वि। चित्तस्स सिग्धकारि-तणेण एगत्तभावाओं" ||2|| अत्र दृष्टान्तश्छिन्नज्वालया उल्मुकेन / यथा हि तभ्राम्यमाणं छिन्नज्वालमपि शीघ्रतया चक्राकारं प्रतिभासते। यद्वा - "केवलिणो उवओगो, वच्चइ जुगवं समत्थनेएसु। छउमत्थस्स वि एवं, अभिन्नविसयासु किरियासु॥३॥" तथा चागमः - "भिन्नविसयं निसिट्ट, किरियादुगमेगया न एगम्मि। जोगतिगस्स वि भंगिय-सुत्ते किरिया जओ भणिया / / 4 / / मणसा चिंतइ भंगे, वयसा उच्चरइ लिहइ कारण। एवं जोगतिगस्स वि, भंगिअसुत्तम्मि वावारे" ||5|| सङ्का०१ प्रस्ता०। / प्रव०1 प्रणिधानफलम् - फलति चैतदचिन्त्यचिन्तामणेभगवतः प्रभावेन / सकलशुभानुष्ठाननिबन्धनमेतत्, अपवर्गफलमेव प्रणिधानं, तल्लक्षणयोगादिति दर्शितम् / असङ्गतासक्तचित्तव्यापार एष महान् / न च प्रणिधानादृते प्रवृत्यादयः / एवं कर्तव्यमेवैतादिति प्रणिधानप्रवृत्तिविघ्नजयफलविनियोगानामुत्तरोत्तरभावात् आशयानुरूपः कर्मबन्ध इति / न खलु तद्विपाकतोऽस्यासिद्धिः स्यात्ः युक्त्यागमसिद्धमेतत् / अन्यथा प्रवृत्याद्ययोगः उपयोगाभावादिति / न अनधिकारिणमिदम् / अधिकारिणश्चास्य य एव वन्दनाया उक्ताः / तद्यथा-एतद्वहुमानिनो विधिपरा उचितवृत्तयश्चोक्तलिङ्गाः एव / प्रणिधानलिङ्ग तु विशुद्धभावनादि। यथोक्तम् - "विशुद्धभावनासारं , तदार्पितमानसम्। यथाशक्ति क्रियालिङ्ग, प्रणिधानं मुनिर्जगौ / / 1 / / " इति स्वत्मकालमपि शोभनमिदं, सकलकल्याणाक्षेपात्, अतिगम्भीरोदाररूपमेतत्, अतो हि प्रशस्तभावलाभाद्विशिष्टक्षयोपशमादिभावतः प्रधानधर्मकार्यादिलाभः / तत्रास्य सकलोपाधिमुक्तदीर्घकालनैरन्तर्यसत्कारासेवनेन श्रद्धाचार्यस्मृतिसमाधिप्रज्ञावृद्ध्या न हि समग्रसुखभाक्तदङ्गहीनो भवति, तद्वैकल्येऽपि तद्भावहेतुकत्वप्रसङ्गात्। न चैतदेवं भवतीति योगाचार्यदर्शने, सेयं भवजलधिनौः प्रशान्तवाहितेति परैरपि गीयते। अयमज्ञातज्ञापनफलः सदुपेदेशो हृदयानन्दकारी परिणमत्येकान्तेन / ज्ञाते त्वखण्डनमेव भावतः अनाभोगतोऽपि मार्गगमनमेव / सदन्धन्यायेनेत्यात्मचिन्तकाः। तदेव शुभफलप्रणिधानं पर्यन्ते चैत्यवन्दनं तदन्वाचार्यादीनभिवन्ध यथोचितं करोति, कुर्वन्ति वा कुग्रहविरहेण। ल०। (नरवाहननरेन्द्रवृत्तं सट्टाचारग्रन्थादवसेयम्) इत्युक्तं प्रतिधानत्रिकमिति दशमं त्रिकम् // अथ श्रोतुं त्वरमाणः शिष्यः प्राह-अत्र तावद्भगवद्भिः षडेव त्रिकाणि व्याख्यातानि, शेषाणां तु का वार्तेत्याशङ्काशङ्कुसमुद्धरणाय गाथाचतुर्थपादमाहसेसतियऽत्थो उपयड ति||१६|| शेषत्रिकाणां प्रदक्षिणात्रिकप्रणामत्रिकदिगत्रयनिरीक्षणविरतित्रि-कत्रिः पद भूमिप्रमार्जनत्रिकलक्षणानामर्थस्तुपुनः, प्रकटः सुगम एवेति। भाष्ये नोक्तं, विवृतौ तु यथाप्रस्तावंभावितमेवेति समाप्तानि दशाऽपि त्रिकाणि। एषां चैव कारणफले लघुभाष्योक्ते - “कम्माण मोहणीय, जंवलियं तिसंठाणगनिबद्धं / तक्खवणट्ठा एयं, तिगदसग होइ नायव्वं // 1 // इय दहतियसंजुत्तं, वंदणयं जो विएग तिक्कालं। कुणइ नरो उवउत्तो, सो पावइ सासयं ठाणं // 2 // " इति व्याख्यातं दशत्रिकाख्यं प्रथमद्वारम्। सङ्घा०१ प्रस्ता०। (11) अभिगमः -- अत्र च प्राक् साधुश्रावकादिः सामान्येनेत्याधुक्तं, तत्र चैत्यादिवन्दितुकामः श्रावक कश्चिन्महर्द्धिको भवेत, श्रीषेणनृपादिवत्; कश्चित्सामान्यविभवः श्रीपतिश्रेष्ठीवत् / तत्र यदि राजादिस्तदा “सव्वाए इड्डीए सव्याए दितीए सव्वाए जुईएपरियणसहिए सव्वपोरिसेणं" इत्यादिवचनात् प्रभावनानिमित्तं महा चैत्यादिषु याति / अथ सामान्यविभवस्तदौद्वत्यादिपरिहारेण लोकोपहासं परिहरन व्रजति / तत्र च चैत्ये प्रविशन् पञ्चविधामिगमं करोतीत्येतत्संबन्धायातः द्वितीयाभिगमः /