________________ चेइयवंदण 1311- अभिधानराजेन्द्रः - भाग 3 चेइयवंदण "पणग'' त्ति द्वारं विवृण्वन्नाहसचित्तदव्वउज्झणमचित्त अणुज्झणं मणेगत्तं / इगसाडिउत्तरासंगु अंजली सिरसि जिणदिटे।।१७।। सचित्तद्रव्याणां स्वाङ्गाश्रितानां कुसुमताम्बूलादीनामुज्झनं परित्यागः 11 / अचित्तानां कटककुण्डलके यूरहारादीनां, द्रव्याणामित्यत्रापि योज्यम्। अनुज्झनमपरित्यागः।। मनऐकाग्यम्- रागद्वेषाभावेन मनः समाधिः, अनन्योपयोगितेति यावत् / 3 / एकशाटक उत्तरासङ्गः।४। एकशाटको देशान्तरप्रसिद्धः उत्तरासङ्गो यदुपरितनं वस्त्रं, प्रावरणवस्त्रमित्यर्थः / उक्तं चाचाराङ्गचूर्णो -“एगसामो यदुक्तं भवति एगपावरणुत्ति, तेन कृत्वोत्तरासङ्गम् उत्तरियकरणं।" कल्पचूर्णावप्युक्तम्"उत्तरिजं नाम पावरणं / " क्वचिच-“उत्तरिज नाम पंगुरणं" इति पाठः / एवं च-"परेण पंगुरणवत्थेण उत्तरासंगो किज्जइत्ति भणिय होइ।" अनेन च निवसनवस्त्रेणोत्तरासङ्ग करणनिषेधमाह, निवसनवसनस्यान्तरीयशब्दवाच्यत्वात् / तथा च कल्पनिशीथचूर्णि:-"अंतरिखं नाम नियसणं ति / " एकग्रहणं पुनरुत्तरासरे ऽनेकवस्त्रनिषेधार्थ, न तु सर्वथोपरितनप्रावरणवस्त्रस्य। एवं च परिहितैकवस्त्रो द्वितीयेन वस्त्रेण उत्तरासङ्गं कुर्यादित्युक्तं भवति / यदुक्तं पञ्चाशकवृत्तौ-एकेन चोपरितनवस्त्रेण कृतोत्तरासङ्ग इति / मार्कण्डेयपुराणेऽप्युक्तम्नैकवस्त्रेण भुञ्जीत, न कुर्याद्देवताऽर्चनम्।" इत्यादि / एतौ च पुरुषमाश्रित्योक्ती, स्त्री तु विशेषप्रावृताङ्गी विनयावनततनुः / तथाचाऽऽगमः-"विणओणया एगचेलट्ठिा त्ति" / वृद्धसंप्रदायात्तु संप्रति स्त्रीणां वस्त्रत्रयं विना देवा_दि कर्तुं न कल्पते। तथाऽन्यैरप्युक्तम्- "न कञ्चुकं विना कार्या, देवार्चा स्त्रीजनेन तु / " इति / "अंजलि ति" अञ्जलिबन्धश्च कार्यः शिरसि मस्तके, जिनद्रष्ट जिनबिम्बदर्शने सतीति गाथार्थः // 17 // इय पंचविहाऽभिगमो, अहवा मुच्चंति रायाचिंधाई। खग्गं छत्तोवाणह-मउडं चमरे च पंचमए॥१८|| इति पूर्वोक्तप्रकारेण, पञ्चप्रकारोऽभिगमो भवति। उक्तं च श्रीपञ्चमाणे"पंचविहेणं अभिगमेणं अभिगच्छइ / तं जहा-सचित्ताणं दवाणं विउसरणयाए 1 अचित्ताणं दव्याणं अविउसरणयाए 2 एगसाडएणं उत्तरासंगकरणेणं 3 चक्खुप्फासे अंजलिपग्गहेण 4 मणसो एगत्तीभावकरणेणं 5" त्ति। वचित्तु “अचित्ताणं दव्वाणं विसरणायाए" त्ति पाठः, तत्राचित्तानां छत्रादिनां, व्यवसरणेन व्युत्सर्जनेनेत्यर्थः / अन्यत्राप्युक्तम्“पुप्फतंबोलमाईणि, सचित्ताणि विवजए। छत्तवाहणमाईणि, अचित्ताणि तहेव य॥१॥" एतदर्थप्रतिपादनार्थमाह-“अहवा" इत्यादि / यद्वायो महर्द्धिको / राजादिश्चैत्यं प्रविशति स पञ्चविधाऽभिगमसमये राजचिह्नान्यपि मुञ्चतीत्यत आह-"अहवा" इत्यादि। अथवा विकल्पान्तरसूचको, न / केवलं सचित्तान्येव द्रव्याणि मुच्यन्ते, किं तद्यचित्तान्यपि द्रव्याणि मुच्यन्ते, दूरीक्रियन्ते। कानि? राजचिह्नानि राजलक्षणानि।तान्येवाहखङ्गः कृपाणः।१। छत्रमातपत्रः / / उपानही पादुके।३। मुकुट किरीटम् / 4 / चामराः बालव्यजनानि 5 पञ्चमका इति। तथा सिद्धान्तः-"अहव? रायककुहाइ पंचवररायककुहभूयाई 'खग्गं छत्तोवाणह-मउड तह चामराओ य" ति / सङ्का०१ प्रस्ता०। प्रव०। (अत्र श्रीषेणनृपतिश्रीपतिश्रेष्ठिकथे सङ्घाचाराज्ज्ञातव्ये) प्ररूपितमभिगमपञ्चकविधिरिति द्वितीयं तत्प्ररूपणेन च प्रदर्शितो जिनभवनादिप्रवेशविधिः। (12) चैत्यवन्दनदिक् / सम्प्रति चैत्यवन्दनाकरणविधिरुच्यते-तत्र यैर्यदिक्संस्थैश्चैत्यवन्दना विधेया तत्प्रतिपादनाय तृतीयं द्विदिगिति दिग्द्वारं गाथापूर्वार्द्धनाऽऽहवंदंति जिणे दाहिणदिसि-ट्ठिया पुरिस वामदिसि नारी। वन्दन्ते स्तुवन्ति प्रणमन्ति च, जिनान् जिनप्रतिमाः, दक्षिणदिशि मूलबिम्बदक्षिणदिग्भागस्थिताः, पुरुषप्रधानत्वाद् धर्मस्य, तथा वामदिशि मूलबिम्बवामदिग्भागे स्थिता नार्यो वन्दन्ते, जिनानित्यत्रापि योज्यमिति ह्यौत्सर्गिकम् / विधिप्रधानमेव च विधीयमानं सर्वमपि चैत्यवन्दनकादि धर्मानुष्ठानं महाफलं भवेत् / अन्यथा सातिचारतया श्रीदत्ताया इव कदाचिदनर्थमपि जनयेत्। आह च-"धर्मानुष्ठानवैतथ्यात्प्रत्यपायो महान् भवेत् / रौद्रदुःखौघजनको, दुःप्रयुक्तादिवौषधात् // 1 // " इति / अत एव चाविधिनाऽस्य विधाने सातिचारत्वात् प्रायश्चित्तमप्युक्तमागमे / तथा च महानिशीथसप्तमाध्ययनसूत्रम् - "अविहीए चेइयाई वंदित्ता तस्सणं पायच्छिन्तं उवइसिञ्जा,जओ अविहीए चेइयाई वंदमाणो अन्नेसिं असद्धं जाणइइइकाऊणं।" अपि च इदमेव चावैतथ्येन विशुद्धधर्मानुष्ठानकरणं श्रद्धालोर्लक्षणम्। तथा चोक्तम् - "विहिसारं चिअ सेवइ, सिद्धालू सत्तिमं अणुट्ठाणं। दव्वाइदोसनिहओ, विपक्खवायं वहइ तम्मि॥१॥” त्ति। ललितविस्तरायामप्युक्तम्- एवं हि कुर्वता आराधितं वचनं, बहुमतो लोकनाथः, परित्यक्ता लोकहीः, अङ्गीकृता लोकोत्तरा प्रवृत्तिः, समासादिता धर्मचारितेति / अतोऽन्यथा विपर्ययः / आलोचनीयमिदं सूक्ष्मधियामेव, शास्त्रोक्तमुपदेशमुल्लइध्य पुरुषमात्रप्रवृत्तोऽपरोऽपि हितानुपायः स्यात्। ननुतहिं चैत्यवन्दनादिविधिरेवादौ गतानुगतिरूपः स्यात् / नैवम् / यत उक्तम्- अपवादोऽपि सूत्रानाबाधया गुरुलाघवालोचनपरोऽधिकदोषनिवृत्या शुभाशुभानुबन्धि-महासत्वासेवित उत्सर्गभेद एव, उत्सर्गस्थानापन्नत्वेनो-त्सर्गफलहेतुत्वात्।यदागमः - "उन्नयमविक्ख विन्न-स्स पसिद्धि उन्नयस्स निन्नं च। इअ अन्नुन्नावेक्खा, उस्सग्गऽववाएँ दो तुल्ला" / / 1 / / अत एवोक्तम् - "अविहिकया वरमकयं, असूयवयणं भणंति समयन्नू। पायच्छित्तं अकए, गुरुयं वितहा कए लहुयं / / 1 / / " न पुनः सूत्रबाधया गुरुलाघवचिन्ता, किन्त्वभावेन / तद्धि परमगुरुलाघवकारि क्षुद्रसत्वविजृम्भितं संसारओतसिकुशकाशावलम्बनप्रायमहितमिति भाव्यम्। सर्वथा निरूपणीयं प्रवचनगाम्भीर्ये यतितव्यमुत्तमनिदर्शनेष्विति श्रेयोमार्गः // सङ्घा०२ प्रस्ता०ाध०। (अत्र श्रीदत्ताकथा सङ्घाचारादवसेया) (13) अवग्रह:संप्रति द्विदिक स्थितैरपि मूलबिम्बस्य कियत्यवग्रहे देवा