________________ चेइयवंदण 1306 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण ज्ञानात् / उक्तं हि प्राक् योगमुद्रादयो ह्येवं परिसंख्याताः, सूत्रोचारभावितया मूलमुद्रात्रयरूपत्वात् / मुकुटाञ्जलिपञ्चाङ्गीमुद्रादयस्तु प्रणामकरणकालभावित्वेनोत्तरमुद्रारूपत्वान्न परिज्ञाताः उत्तरमुद्रात्वं चासां सूत्रोचारसमये समकमनुपयुज्यमानत्वात्तथाऽनुक्तत्वादनियतत्वात् सूत्रोचारकालात्पूर्वापरकालभावित्वात्। यदपि-“करयलपरिग्गहियं सिरसावत्तं दसनहं मत्थए अंजलिं कट्टएवं वयासी" इत्युक्तं दृश्यते, तदपि सूत्रोचारस्यादौ विनयविशेषदर्शन परं, न पुनस्तथास्थितस्यैव सूत्रोचारख्यापनपरम्। अन्यथाऽपि नृपादीनां भगवत्यादौ तथा प्रतिपत्तेभणनात्, तथास्थितस्य विज्ञापनादेरदर्शनात्पूर्वकालभाविविधिवाचिनः कृत्वेत्यत्र क्त्वाप्रत्ययस्योत्तरकालभाविविध्यन्तरसूचकत्वाच अक्षिणी निमील्य हसतीत्यादिवत्तुल्यकर्तृकत्वायोगानिमील्यादौ कृगस्त्वग्रहणात्। किंच-यद्येवंस्थितस्यैव सूत्रपाठः क्रियते, ततोऽपिहितमुखत्वेन धर्मरुचिसाध्वादीनामपि सावद्यभाषाऽऽपत्तिः। तथा च भगवत्यामुक्तम्"सक्केणं भंते ! देविंदे देवराया किं सावज भासं भासइ, अणवजं भासं भासइ ? गोयमा! सावजं पि भासं भासइ, अणवजं पि भासं भासइ। से केणवणं भंते ! एवं वुच्चइ, जहाणं -सक्के देविंदे देवराया सावज भास भासइ, अणवजं पि भासं भासइ? गोयमा! जाहेणं सक्के देविंदे देवराया सुहुमकाय अणिज्जुहित्ता णं भासं भासइ, ताहे णं सक्के देविंदे देवराया सावजं भासं भासइ। जाहे णं सक्के देविंदे देवराया सुहुमकायं निहित्ता णं भासं भासइ, ताहे णं सक्के देविंदे देवराया अणवजं भासं भासइ। से एएणं अद्वेणं गोयमा ! एवं वुझाइ, जहाणं सक्के देविंद देवराया सावलं पि भासं भासइ, अणवज्ज पि भासं भासई तस्मान्मुकुटाञ्चलिमुद्रादीनां विनयविशेषदर्शनफलत्वेन सूत्रोचारकालात्पूर्वापरकालभावितया च न योगमुद्रादीनामिव मूलमुद्रारूपत्वम् / ततश्च "मुद्दातियं" इति न यथोक्तसंख्याविघातः, पर्युपास्या इत्यर्थे बहुश्रुताः / यत्र चरितानुवादे जीवाभिगमादिषु विजयदेवादिभिः “आलोए जिणपडिमाणं पमाणं करेइ” / तथा “वामंजाणुं अंचेइ,दाहिणं जाणुं धरणितलंसि निहट्ट तिक्खुत्तो मुद्धाण धरणितलंसि निवेसेई"त्ति एकाङ्गश्चतुरङ्गश्च प्रणामः कृतो दृश्यते, तन्मध्यमप्रणामत्वादविनताख्यद्वितीयप्रणाभान्तर्द्धष्टव्यमिति, भावितार्थ चैतत्प्रणामत्रयव्याख्याऽवसरे / तथा स्तवपाठः शक्रस्तवादिभणनं, भवति कर्तव्य इति शेषः। योगमुद्रया पूर्वोक्तस्वरूपया। तत्र चाय विधिः-इह साधुः श्रावको वा चैत्यगृहादावेकान्ते प्रयतः परित्यक्तान्यकर्तव्यः सकलसत्त्वानपायिनी भुवं निरीक्ष्य परमगुरुप्रणीतेन विधिना त्रिः प्रमृज्य च क्षितितलनिहितजानुयुगलः करकमलसत्यापितयोगमुद्र प्रणिपातदण्डकं पठतीति। यदुक्तं महानिशीथतृतीयाध्ययने"भुवणेवगुरुजिणिंदपडिमाविणिवेसियनयणमाणसेण धन्नोऽहं सपुन्नोऽहं ति जिणवंदणाए सहलीकयजम्मु त्ति मन्नमाणेण विरइकरकमलंजलिणा हरियतणुबीयजतुविरहियभूमीए निहिओभयजाणुणा सुपरिफुडसुविदियनिस्संकजहत्थसुत्तत्थोभयं पए पए भावेमाणेणं० जाव चेइएवंदियव्ये" त्ति। तत्रैव चोक्तम्- "सक्कत्थयाइयं चेइयवंदणयं ति"। यत्पुनाताधर्मकथादिषु धर्मरुचिसाध्वादिचरितानुवादे भणितम्-"पुरत्थाभिमुहे संपलिअंकनिसन्ने करयले" इत्यादि, तदशक्त्यादिकरणश्रितम, न पुनः "भूमिनिहिओभयजाणुणा" इत्यादिविधिबाधाविधायी भवति, चरितानुवादविहितत्वात्। चरितानुवादविहितानि हि नोत्सभिधविधिवादस्य बाधकानि साधकानि वा भवितुमर्हन्ति, कारणाश्रितत्वेन द्वितीयपादान्तर्वर्तित्वात्तेषाम्, अन्यथा वा यथाऽऽम्नायं सुधीभिः समाधेयम्। तथा वन्दनम्-"अरिहंतचेइयाण” इत्यादिदण्डकैः प्रसिद्धर्जिनबिम्बादीनां जिनमुद्रया पूर्वोक्तशब्दार्थया विघ्नजेत्र्या कर्तव्यं भवति, द्रौपद्यादिवत्। तथा च षष्ठाङ्गे-“तएणं सा दोवई रायवरकन्ना० जाव धूवं डहइ. वाम जाणुअंचेइ, करयल० जाव कट्टएवं वयासीनमोऽत्थुण० जाव संपत्ताणं वंदइ, नमसइ।" अत्र जीवाभिगमोक्तविवरणम् / ततो विधिना प्रणाम कुर्वन् प्रणिपादण्डकं पठति-"नमोऽत्थु णं अरिहंताणं" इत्यादि, यावत् "नतो जिणाणं जियभएण" इति।दण्डकार्थश्चैत्यवन्दनाविवरणादवसेयः। "वंदइ नमसई" त्ति / वन्दते ताः प्रतिमाश्चैत्यवन्दनविधिना प्रसिद्धेन, नमस्करोति पश्चात्प्रणिधानादियोगेनेति। “परिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टएवं वयासीनमोऽत्थुणं अरिहंताणं" इत्यादि। ततोऽस्य पाठे विविधविधिदर्शनात् सर्वेषां च प्रमाणग्रन्थोक्तत्वेन विनयविशेषकृतत्वेन च निषेधुमशक्यत्वात् / योगमुद्रयाऽपि शक्रस्तवपाठो न विरुध्यते, विचित्रत्वाद् मुनिमतानाम् / न चैतानि परस्परमतिविरुद्धानीति वाच्यम्, सर्वैरपि विनयस्य दर्शित्वात् इत्यलं प्रसङ्गेन / तथा वन्दनम् - “अरिहंतचेइयाणं" इत्यादिदण्डकपाठेन जिनबिम्बादिस्तयनं जिनमुद्रया। इयं च पादाश्रिता, दण्डकानामपि स्तवरूपत्वात्, योगमुद्राऽपि स्तवसङ्गतैव, सा च हस्ताश्रिता, अत उभयोरप्यनयोर्वन्दने प्रयोगः। उक्तंच - "उट्ठिय जिणमुइंचिय-चलणो करधरियजोगमुद्दोय। जिणवणयनिहियदिट्ठी, ठवणे जिणदडयं पढई।।१।।" तथा प्रणिधानं- "जय वीयराय" इत्यादि यथेष्टप्रार्थनारूपं, यद्यस्य तीव्रसंवेगहेतुरिति यावत्, तीब्रसंवेगाद्धि अत्राऽशुभाविनी विशुद्धयोगसंप्राप्तिः,तच मुक्ताशुक्त्या, मुद्रया कार्यमिति शेषः। सङ्घा०१ प्रस्ता ला पञ्चा० / दर्शाध०। (अत्रधर्मरुचिद्रौपदीकथाऽन्यत्र) (10) प्रणिधानम् - उक्त मुद्रात्रिकमिति नवमं त्रिकम्। संप्रति “तिविहं च पणिहाणं" इति दशमं त्रिकं गाथापादत्रिकेणाऽऽहपणिहाणतिगं चेइय-मुणिवंदणपत्थणासरूवं वा। मणवइका-एगत्तं, यदिह मुक्ताशुक्त्या मुद्रया क्रियते, तदेतत्प्रणिधानत्रिकम् / किमित्याह चैत्यमुनिवन्दनाप्रार्थनास्वरूपम्। अत्रापृथक् वन्दनाशब्दयोगात् प्रथम प्रणिधानं चैत्यवन्दनारूपम्-"जावंति चेइआई” इत्यादि। द्वितीय मुनिवन्दनालक्षणम्- "जावंति के वि साहू” इत्यादि। तृतीयां प्रार्थनास्वरूपम्- “जय विराय" इत्यादि। उक्तंच बृहद्भाष्ये - "अन्न पि तिप्पयारं, वंदणयपरं तब्भविपणिहाणं / जम्मि कए संपुन्ना, उक्कोसा वंदणा होइ।।१।। चेइयगय साहुगयं, नेयव्वंतह य पत्थणारूवं।